नभगवंशवर्णनं नाभागचरितम्, अंबरीषोपाख्यानं दुर्वासः पलायनं च
श्रीशुक उवाच
नाभागो नभगापत्यं यं ततं भ्रातरः कविम् ।
यविष्ठं व्यभजन् दायं ब्रह्मचारिणमागतम्
॥१॥भ्रातरोऽभाङ्क्त किं मह्यं भजाम पितरं तव ।
त्वां ममार्यास्तताभाङ्क्षुः मा पुत्रक तदादृथाः
॥२॥इमे अंगिरसः सत्रं आसतेऽद्य सुमेधसः ।
षष्ठं षष्ठं उपेत्याहः कवे मुह्यन्ति कर्मणि
॥३॥तांन् त्वं शंसय सूक्ते द्वे वैश्वदेवे महात्मनः ।
ते स्वर्यन्तो धनं सत्र परिशेषितमात्मनः
॥४॥दास्यन्ति तेऽथ तान् गच्छ तथा स कृतवान् यथा ।
तस्मै दत्त्वा ययुः स्वर्गं ते सत्रपरिशेषणम्
॥५॥तं कश्चित् स्वीकरिष्यन्तं पुरुषः कृष्णदर्शनः ।
उवाचोत्तरतोऽभ्येत्य ममेदं वास्तुकं वसु
॥६॥ममेदं ऋषिभिः दत्तं इति तर्हि स्म मानवः ।
स्यान्नौ ते पितरि प्रश्नः पृष्टवान् पितरं यथा
॥७॥यज्ञवास्तुगतं सर्वं उच्छिष्टं ऋषयः क्वचित् ।
चक्रुर्विभागं रुद्राय स देवः सर्वमर्हति
॥८॥नाभागस्तं प्रणम्याह तवेश किल वास्तुकम् ।
इत्याह मे पिता ब्रह्मन् शिरसा त्वां प्रसादये
॥९॥यत् ते पितावदद् धर्मं त्वं च सत्यं प्रभाषसे ।
ददामि ते मन्त्रदृशे ज्ञानं ब्रह्म सनातनम्
॥१०॥गृहाण द्रविणं दत्तं मत्सत्रे परिशेषितम् ।
इत्युक्त्वान्तर्हितो रुद्रो भगवान् सत्यवत्सलः
॥११॥य एतत् संस्मरेत् प्रातः सायं च सुसमाहितः ।
कविर्भवति मंत्रज्ञो गतिं चैव तथाऽऽत्मनः
॥१२॥नाभागाद् अंबरीषोऽभूत् महाभागवतः कृती ।
नास्पृशद् ब्रह्मशापोऽपि यं न प्रतिहतः क्वचित्
॥१३॥श्रीराजोवाच
भगवन् श्रोतुमिच्छामि राजर्षेः तस्य धीमतः ।
न प्राभूद् यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्ययः
॥१४॥श्रीशुक उवाच
अंबरीषो महाभागः सप्तद्वीपवतीं महीम् ।
अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि
॥१५॥* मेनेऽतिदुर्लभं पुंसां सर्वं तत् स्वप्नसंस्तुतम् ।
विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान्
॥१६॥वासुदेवे भगवति तद्भक्तेषु च साधुषु ।
प्राप्तो भावं परं विश्वं येनेदं लोष्टवत् स्मृतम्
॥१७॥स वै मनः कृष्णपदारविन्दयोः वचांसि वैकुण्ठगुणानुवर्णने ।
करौ हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये
॥१८॥मुकुन्दलिंगालयदर्शने दृशौ तद्भृत्यगात्रस्पर्शेङ्गसंगमम् ।
घ्राणं च तत्पादसरोजसौरभे श्रीमत् तुलस्या रसनां तदर्पिते
॥१९॥पादौ हरेः क्षेत्रपदानुसर्पणे शिरो हृषीकेश पदाभिवन्दने ।
कामं च दास्ये न तु कामकाम्यया यथोत्तमश्लोक जनाश्रया रतिः
॥२०॥एवं सदा कर्मकलापमात्मनः परेऽधियज्ञे भगवत्यधोक्षजे ।
सर्वात्मभावं विदधन्महीमिमां तन्निष्ठविप्राभिहितः शशास ह
॥२१॥ईजेऽश्वमेधैरधियज्ञमीश्वरं महाविभूत्योपचितांगदक्षिणैः ।
ततैर्वसिष्ठासितगौतमादिभिः धन्वन्यभिस्रोतमसौ सरस्वतीम्
॥२२॥यस्य क्रतुषु गीर्वाणैः सदस्या ऋत्विजो जनाः ।
तुल्यरूपाः चानिमिषा व्यदृश्यन्त सुवाससः
॥२३॥स्वर्गो न प्रार्थितो यस्य मनुजैः अमरप्रियः ।
श्रृण्वद्भिः उपगायद्भिः उत्तमश्लोकचेष्टितम्
॥२४॥समर्द्धयन्ति तान् कामाः स्वाराज्यपरिभाविताः ।
दुर्लभा नापि सिद्धानां मुकुन्दं हृदि पश्यतः
॥२५॥स इत्थं भक्तियोगेन तपोयुक्तेन पार्थिवः ।
स्वधर्मेण हरिं प्रीणन् संगान् सर्वान् शनैर्जहौ
॥२६॥गृहेषु दारेषु सुतेषु बन्धुषु द्विपोत्तमस्यन्दन वाजिवस्तुषु ।
अक्षय्यरत्नाभरणाम्बरादिषु अनन्तकोशेषु अकरोत् असन् मतिम्
॥२७॥तस्मा अदाद् हरिश्चक्रं प्रत्यनीक-भयावहम् ।
एकान्तभक्तिभावेन प्रीतो भृत्याभिरक्षणम्
॥२८॥आरिराधयिषुः कृष्णं महिष्या तुल्यशीलया ।
युक्तः सांवत्सरं वीरो दधार द्वादशीव्रतम्
॥२९॥व्रतान्ते कार्तिके मासि त्रिरात्रं समुपोषितः ।
स्नातः कदाचित् कालिन्द्यां हरिं मधुवनेऽर्चयत्
॥३०॥महाभिषेकविधिना सर्वोपस्करसम्पदा ।
अभिषिच्याम्बराकल्पैः गन्धमाल्यार्हणादिभिः
॥३१॥तद्गतान्तरभावेन पूजयामास केशवम् ।
ब्राह्मणांश्च महाभागान् सिद्धार्थानपि भक्तितः
॥३२॥गवां रुक्मविषाणीनां रूप्याङ्घ्रीणां सुवाससाम् ।
पयःशीलवयोरूप वत्सोपस्करसंपदाम्
॥३३॥प्राहिणोत् साधुविप्रेभ्यो गृहेषु न्यर्बुदानि षट् ।
भोजयित्वा द्विजानग्रे स्वाद्वन्नं गुणवत्तमम्
॥३४॥लब्धकामैः अनुज्ञातः पारणायोपचक्रमे ।
तस्य तर्ह्यतिथिः साक्षात् दुर्वासा भगवानभूत्
॥३५॥तं आनर्चातिथिं भूपः प्रत्युत्थान् आसनार्हणैः ।
ययाचेऽभ्यवहाराय पादमूलमुपागतः
॥३६॥प्रतिनन्द्य स तां याच्ञां कर्तुमावश्यकं गतः ।
निममज्ज बृहद् ध्यायन् कालिन्दीसलिले शुभे
॥३७॥मुहूर्तार्धावशिष्टायां द्वादश्यां पारणं प्रति ।
चिन्तयामास धर्मज्ञो द्विजैः तद् धर्मसंकटे
॥३८॥ब्राह्मणातिक्रमे दोषो द्वादश्यां यदपारणे ।
यत्कृत्वा साधु मे भूयाद् अधर्मो वा न मां स्पृशेत्
॥३९॥अम्भसा केवलेनाथ करिष्ये व्रतपारणम् ।
आहुरब्भक्षणं विप्रा हि अशितं नाशितं च तत्
॥४०॥इत्यपः प्राश्य राजर्षिः चिन्तयन् मनसाच्युतम् ।
प्रत्यचष्ट कुरुश्रेष्ठ द्विज आगमनमेव सः
॥४१॥दुर्वासा यमुनाकूलात् कृत आवश्यक आगतः ।
राज्ञाभिनन्दितस्तस्य बुबुधे चेष्टितं धिया
॥४२॥मन्युना प्रचलद्गात्रो भ्रुकुटीकुटिलाननः ।
बुभुक्षितश्च सुतरां कृताञ्जलिमभाषत
॥४३॥अहो अस्य नृशंसस्य श्रियोन्मत्तस्य पश्यत ।
धर्मव्यतिक्रमं विष्णोः अभक्तस्य ईशमानिनः
॥४४॥यो मां अतिथिं आयातं आतिथ्येन निमंत्र्य च ।
अदत्त्वा भुक्तवान् तस्य सद्यस्ते दर्शये फलम्
॥४५॥एवं ब्रुवाण उत्कृत्य जटां रोषप्रदीपितः ।
तया स निर्ममे तस्मै कृत्यां कालानलोपमाम्
॥४६॥तां आपतन्तीं ज्वलतीं असिहस्तां पदा भुवम् ।
वेपयन्तीं समुद्वीक्ष्य न चचाल पदान्नृपः
॥४७॥प्राग् दिष्टं भृत्यरक्षायां पुरुषेण महात्मना ।
ददाह कृत्यां तां चक्रं क्रुद्धाहिमिव पावकः
॥४८॥तद् अभिद्रवद् उद्वीक्ष्य स्वप्रयासं च निष्फलम् ।
दुर्वासा दुद्रुवे भीतो दिक्षु प्राणपरीप्सया
॥४९॥तमन्वधावद्भगवद्रथांगं दावाग्निः उद्धूतशिखो यथाहिम् ।
तथानुषक्तं मुनिरीक्षमाणो गुहां विविक्षुः प्रससार मेरोः
॥५०॥दिशो नभः क्ष्मां विवरान् समुद्रान् लोकान् सपालान् त्रिदिवं गतः सः ।
यतो यतो धावति तत्र तत्र सुदर्शनं दुष्प्रसहं ददर्श
॥५१॥अलब्धनाथः स सदा कुतश्चित् संत्रस्तचित्तोऽरणमेषमाणः ।
देवं विरिञ्चं समगाद्विधातः त्राह्यात्मयोनेऽजिततेजसो माम्
॥५२॥श्रीब्रह्मोवाच
स्थानं मदीयं सहविश्वमेतत् क्रीडावसाने द्विपरार्धसंज्ञे ।
भ्रूभंगमात्रेण हि संदिधक्षोः कालात्मनो यस्य तिरोभविष्यति
॥५३॥अहं भवो दक्षभृगुप्रधानाः प्रजेशभूतेश सुरेशमुख्याः ।
सर्वे वयं यत् नियमं प्रपन्ना मूर्ध्न्यर्पितं लोकहितं वहामः
॥५४॥प्रत्याख्यातो विरिञ्चेन विष्णुचक्रोपतापितः ।
दुर्वासाः शरणं यातः शर्वं कैलासवासिनम्
॥५५॥श्रीरुद्र उवाच
वयं न तात प्रभवाम भूम्नि यस्मिन् परेऽन्येऽप्यजजीवकोशाः ।
भवन्ति काले न भवन्ति हीदृशाः सहस्रशो यत्र वयं भ्रमामः
॥५६॥अहं सनत्कुमारश्च नारदो भगवानजः ।
कपिलो अपान्तरतमो देवलो धर्म आसुरिः
॥५७॥मरीचिप्रमुखाश्चान्ये सिद्धेशाः पारदर्शनाः ।
विदाम न वयं सर्वे यन्मायां माययाऽऽवृताः
॥५८॥तस्य विश्वेश्वरस्येदं शस्त्रं दुर्विषहं हि नः ।
तमेवं शरणं याहि हरिस्ते शं विधास्यति
॥५९॥ततो निराशो दुर्वासाः पदं भगवतो ययौ ।
वैकुण्ठाख्यं यदध्यास्ते श्रीनिवासः श्रिया सह
॥६०॥सन्दह्यमानोऽजितशस्त्रवह्निना तत्पादमूले पतितः सवेपथुः ।
आहाच्युतानन्त सदीप्सित प्रभो कृतागसं माव हि विश्वभावन
॥६१॥अजानता ते परमानुभावं कृतं मयाघं भवतः प्रियाणाम् ।
विधेहि तस्यापचितिं विधातः मुच्येत यन्नाम्न्युदिते नारकोऽपि
॥६२॥श्रीभगवानुवाच
अहं भक्तपराधीनो हि अस्वतंत्र इव द्विज ।
साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः
॥६३॥नाहं आत्मानमाशासे मद्भक्तैः साधुभिर्विना ।
श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिः अहं परा
॥६४॥ये दारागारपुत्राप्तान् प्राणान् वित्तमिमं परम् ।
हित्वा मां शरणं याताः कथं तान् त्यक्तुमुत्सहे
॥६५॥मयि निर्बद्धहृदयाः साधवः समदर्शनाः ।
वशीकुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथा
॥६६॥मत्सेवया प्रतीतं च सालोक्यादि चतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् कालविद्रुतम्
॥६७॥साधवो हृदयं मह्यं साधूनां हृदयं त्वहम् ।
मदन्यत् ते न जानन्ति नाहं तेभ्यो मनागपि
॥६८॥उपायं कथयिष्यामि तव विप्र श्रृणुष्व तत् ।
अयं ह्यात्माभिचारस्ते यतस्तं याहि मा चिरम् ।
साधुषु प्रहितं तेजः प्रहर्तुः कुरुतेऽशिवम्
॥६९॥तपो विद्या च विप्राणां निःश्रेयसकरे उभे ।
ते एव दुर्विनीतस्य कल्पेते कर्तुरन्यथा
॥७०॥ब्रह्मन् तद् गच्छ भद्रं ते नाभागतनयं नृपम् ।
क्षमापय महाभागं ततः शान्तिर्भविष्यति
॥७१॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ तुलनीय - ब्रह्मवैवर्तपुराणे ४.२५.२७ अम्बरीष-दुर्वासोपाख्यानम्