मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — नवमस्कन्धः, अध्याय १०

3
नवमस्कन्धः · 10

श्रीरामचरितम्

श्रीशुक उवाच

खट्वांगात दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवाः ।

अजस्ततो महाराजः तस्मात् दशरथोऽभवत्

॥१॥

तस्यापि भगवान् एष साक्षाद् ब्रह्ममयो हरिः ।

अंशांशेन चतुर्धागात् पुत्रत्वं प्रार्थितः सुरैः ।

रामलक्ष्मणभरत शत्रुघ्ना इति संज्ञया

॥२॥

तस्यानुचरितं राजन् ऋषिभिः तत्त्वदर्शिभिः ।

श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहुः

॥३॥

गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्भ्यां प्रियायाः ।

पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो यो हरीन्द्रानुजाभ्याम् ।

वैरूप्यात् शूर्पणख्याः प्रियविरहरुषाऽऽ रोपितभ्रूविजृम्भ ।

त्रस्ताब्धिर्बद्धसेतुः खलदवदहनः कोसलेन्द्रोऽवतान्नः

॥४॥

विश्वामित्राध्वरे येन मारीचाद्या निशाचराः ।

पश्यतो लक्ष्मणस्यैव हता नैर्ऋतपुंगवाः

॥५॥

यो लोकवीरसमितौ धनुरैशमुग्रं सीतास्वयंवरगृहे त्रिशतोपनीतम् ।

आदाय बालगजलील इवेक्षुयष्टिं सज्ज्यीकृतं नृप विकृष्य बभञ्ज मध्ये

॥६॥

जित्वानुरूपगुणशीलवयोऽङ्गरूपां ।

सीताभिधां श्रियमुरस्यभिलब्धमानाम् ।

मार्गे व्रजन् भृगुपतेर्व्यनयत् प्ररूढं ।

दर्पं महीमकृत यस्त्रिरराजबीजाम्

॥७॥

यः सत्यपाशपरिवीतपितुर्निदेशं ।

स्त्रैणस्य चापि शिरसा जगृहे सभार्यः ।

राज्यं श्रियं प्रणयिनः सुहृदो निवासं ।

त्यक्त्वा ययौ वनमसूनिव मुक्तसङ्गः

॥८॥

रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धेः ।

तस्याः खरत्रिशिरदूषणमुख्यबन्धून् ।

जघ्ने चतुर्दशसहस्रमपारणीय ।

कोदण्डपाणिरटमान उवास कृच्छ्रम्

॥९॥

सीताकथाश्रवणदीपितहृच्छयेन ।

सृष्टं विलोक्य नृपते दशकन्धरेण ।

जघ्नेऽद्भुतैण वपुषाऽऽश्रमतोऽपकृष्टो ।

मारीचमाशु विशिखेन यथा कमुग्रः

॥१०॥

रक्षोऽधमेन वृकवद् विपिनेऽसमक्षं ।

वैदेहराजदुहितर्यपयापितायाम् ।

भ्रात्रा वने कृपणवत्प्रियया वियुक्तः ।

स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार

॥११॥

दग्ध्वाऽऽत्मकृत्यहतकृत्यमहन् कबन्धं ।

सख्यं विधाय कपिभिर्दयितागतिं तैः ।

बुद्ध्वाथ वालिनि हते प्लवगेन्द्रसैन्यैः ।

वेलामगात् स मनुजोऽजभवार्चिताङ्घ्रि

॥१२॥

यद्रोषविभ्रमविवृत्तकटाक्षपात ।

सम्भ्रान्तनक्रमकरो भयगीर्णघोषः ।

सिन्धुः शिरस्यर्हणं परिगृह्य रूपी ।

पादारविन्दमुपगम्य बभाष एतत्

॥१३॥

न त्वां वयं जडधियो नु विदाम भूमन् ।

कूटस्थमादिपुरुषं जगतामधीशम् ।

यत्सत्त्वतः सुरगणा रजसः प्रजेशा ।

मन्योश्च भूतपतयः स भवान्गुणेशः

॥१४॥

कामं प्रयाहि जहि विश्रवसोऽवमेहं ।

त्रैलोक्य रावणमवाप्नुहि वीर पत्नीम् ।

बध्नीहि सेतुमिह ते यशसो वितत्यै ।

गायन्ति दिग्विजयिनो यमुपेत्य भूपाः

॥१५॥

बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटैः ।

सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गैः ।

सुग्रीवनीलहनुमत् प्रमुखैरनीकैः ।

लङ्कां विभीषणदृशाविशदग्रदग्धाम्

॥१६॥

सा वानरेन्द्रबलरुद्धविहारकोष्ठ ।

श्रीद्वारगोपुरसदोवलभीविटङ्का ।

निर्भज्यमानधिषणध्वजहेमकुम्भ ।

श्रृङ्गाटका गजकुलैर्ह्रदिनीव घूर्णा

॥१७॥

रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ ।

धूम्राक्ष दुर्मुख सुरान्तनरान्तकादीन् ।

पुत्रं प्रहस्त मतिकाय विकम्पनादीन् ।

सर्वानुगान् समहिनोदथ कुम्भकर्णम्

॥१८॥

तां यातुधानपृतनामसिशूलचाप ।

प्रासर्ष्टिशक्तिशरतोमर खड्गदुर्गाम् ।

सुग्रीवलक्ष्मण मरुत्सुतगन्धमाद ।

नीलाङ्गदर्क्षपनसादिभिः अन्वितोऽगात्

॥१९॥

तेऽनीकपा रघुपतेरभिपत्य सर्वे ।

द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः ।

जघ्नुर्द्रुमैः गिरिगदेषुभिरङ्गदाद्याः ।

सीताभिमर्षहतमङ्गल रावणेशान्

॥२०॥

रक्षःपतिः स्वबलनष्टिमवेक्ष्य रुष्ट ।

आरुह्य यानकमथाभिससार रामम् ।

स्वःस्यन्दने द्युमति मातलिनोपनीते ।

विभ्राजमानमहनन्निशितैः क्षुरप्रैः

॥२१॥

रामस्तमाह पुरुषादपुरीष यन्नः ।

कान्तासमक्षमसतापहृता श्ववत् ते ।

त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य ।

यच्छामि काल इव कर्तुरलंघ्यवीर्यः

॥२२॥

एवं क्षिपन्धनुषि संधितमुत्ससर्ज ।

बाणं स वज्रमिव तद्हृदयं बिभेद ।

सोऽसृग् वमन् दशमुखैर्न्यपतद् विमानाद् ।

हाहेति जल्पति जने सुकृतीव रिक्तः

॥२३॥

(अनुष्टुप्) ततो निष्क्रम्य लंकाया यातुधान्यः सहस्रशः ।

मन्दोदर्या समं तस्मिन् प्ररुदन्त्य उपाद्रवन्

॥२४॥

स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिरर्दितान् ।

रुरुदुः सुस्वरं दीना घ्नन्त्य आत्मानमात्मना

॥२५॥

हा हताः स्म वयं नाथ लोकरावण रावण ।

कं यायाच्छरणं लंका त्वद्विहीना परार्दिता

॥२६॥

न वै वेद महाभाग भवान् कामवशं गतः ।

तेजोऽनुभावं सीताया येन नीतो दशामिमाम्

॥२७॥

कृतैषा विधवा लंका वयं च कुलनन्दन ।

देहः कृतोऽन्नं गृध्राणां आत्मा नरकहेतवे

॥२८॥

श्रीशुक उवाच

स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदितः ।

पितृमेधविधानेन यदुक्तं सांपरायिकम्

॥२९॥

ततो ददर्श भगवान् अशोकवनिकाश्रमे ।

क्षामां स्वविरहव्याधिं शिंशपामूलमास्थिताम्

॥३०॥

रामः प्रियतमां भार्यां दीनां वीक्ष्यान्वकंपत ।

आत्मसंदर्शनाह्लाद विकसन् मुखपंकजाम्

॥३१॥

आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युतः ।

विभीषणाय भगवान् दत्त्वा रक्षोगणेशताम्

॥३२॥

लंकामायुश्च कल्पान्तं ययौ चीर्णव्रतः पुरीम् ।

अवकीर्यमाणः कुसुमैः लोकपालार्पितैः पथि

॥३३॥

उपगीयमानचरितः शतधृत्यादिभिर्मुदा ।

गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम्

॥३४॥

महाकारुणिकोऽतप्यत् जटिलं स्थण्डिलेशयम् ।

भरतः प्राप्तमाकर्ण्य पौरामात्यपुरोहितैः

॥३५॥

पादुके शिरसि न्यस्य रामं प्रत्युद्यतोऽग्रजम् ।

नन्दिग्रामात् स्वशिबिराद् गीतवादित्रनिःस्वनैः

॥३६॥

ब्रह्मघोषेण च मुहुः पठद्भिः ब्रह्मवादिभिः ।

स्वर्णकक्षपताकाभिः हैमैश्चित्रध्वजै रथैः

॥३७॥

सदश्वै रुक्मसन्नाहैः भटैः पुरटवर्मभिः ।

श्रेणीभिर्वारमुख्याभिः भृत्यैश्चैव पदानुगैः

॥३८॥

पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च ।

पादयोर्न्यपतत् प्रेम्णा प्रक्लिन्नहृदयेक्षणः

॥३९॥

पादुके न्यस्य पुरतः प्राञ्जलिर्बाष्पलोचनः ।

तमाश्लिष्य चिरं दोर्भ्यां स्नापयन् नेत्रजैर्जलैः

॥४०॥

रामो लक्ष्मणसीताभ्यां विप्रेभ्यो येऽर्हसत्तमाः ।

तेभ्यः स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृतः

॥४१॥

धुन्वन्त उत्तरासङ्गान् पतिं वीक्ष्य चिरागतम् ।

उत्तराः कोसला माल्यैः किरन्तो ननृतुर्मुदा

॥४२॥

पादुके भरतोऽगृह्णात् चामरव्यजनोत्तमे ।

विभीषणः ससुग्रीवः श्वेतच्छत्रं मरुत्सुतः

॥४३॥

धनुर्निषङ्गान् शत्रुघ्नः सीता तीर्थकमण्डलुम् ।

अबिभ्रदङ्गदः खड्गं हैमं चर्मर्क्षराण् नृप

॥४४॥

पुष्पकस्थोऽन्वितः स्त्रीभिः स्तूयमानश्च वन्दिभिः ।

विरेजे भगवान् राजन् ग्रहैश्चन्द्र इवोदितः

॥४५॥

भ्रात्राभिर्नन्दितः सोऽपि सोत्सवां प्राविशत् पुरीम् ।

प्रविश्य राजभवनं गुरुपत्नीः स्वमातरम्

॥४६॥

गुरून् वयस्यावरजान् पूजितः प्रत्यपूजयत् ।

वैदेही लक्ष्मणश्चैव यथावत् समुपेयतुः

॥४७॥

पुत्रान् स्वमातरस्तास्तु प्राणांस्तन्व इवोत्थिताः ।

आरोप्याङ्केऽभिषिञ्चन्त्यो बाष्पौघैर्विजहुः शुचः

॥४८॥

जटा निर्मुच्य विधिवत् कुलवृद्धैः समं गुरुः ।

अभ्यषिञ्चद् यथैवेन्द्रं चतुःसिन्धुजलादिभिः

॥४९॥

एवं कृतशिरःस्नानः सुवासाः स्रग्व्यलंकृतः ।

स्वलंकृतैः सुवासोभिः भ्रातृभिर्भार्यया बभौ

॥५०॥

अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादितः ।

प्रजाः स्वधर्मनिरता वर्णाश्रमगुणान्विताः ।

जुगोप पितृवद् रामो मेनिरे पितरं च तम्

॥५१॥

त्रेतायां वर्तमानायां कालः कृतसमोऽभवत् ।

रामे राजनि धर्मज्ञे सर्वभूतसुखावहे

॥५२॥

वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धवः ।

सर्वे कामदुघा आसन् प्रजानां भरतर्षभ

॥५३॥

नाधिव्याधिजराग्लानि दुःखशोकभयक्लमाः ।

मृत्युश्च अनिच्छतां नासीद् रामे राजन्यधोक्षजे

॥५४॥

एकपत्नीव्रतधरो राजर्षिचरितः शुचिः ।

स्वधर्मं गृहमेधीयं शिक्षयन् स्वयमाचरत्

॥५५॥

प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती ।

भिया ह्रिया च भावज्ञा भर्तुः सीताहरन्मनः

॥५६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे दशमोऽध्यायः ॥ १० ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु