मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — नवमस्कन्धः, अध्याय ३

3
नवमस्कन्धः · 3

शर्यातिवंशः, सुकन्याख्यानं रेवतकन्याख्यानं च

श्रीशुक उवाच

शर्यातिर्मानवो राजा ब्रह्मिष्ठः संबभूव ह ।

यो वा अंगिरसां सत्रे द्वितीयं अह ऊचिवान्

॥१॥

सुकन्या नाम तस्यासीत् कन्या कमललोचना ।

तया सार्धं वनगतो हि अगमत् व्यवनाश्रमम्

॥२॥

सा सखीभिः परिवृता विचिन्वन्त्यंघ्रिपान् वने ।

वल्मीकरन्ध्रे ददृशे खद्योते इव ज्योतिषी

॥३॥

ते दैवचोदिता बाला ज्योतिषी कण्टकेन वै ।

अविध्यन् मुग्धभावेन सुस्रावासृक् ततो बहिः

॥४॥

शकृत् मूत्रनिरोधोऽभूत् सैनिकानां च तत्क्षणात् ।

राजर्षिः तं उपालक्ष्य पुरुषान् विस्मितोऽब्रवीत्

॥५॥

अप्यभद्रं न युष्माभिः भार्गवस्य विचेष्टितम् ।

व्यक्तं केनापि नस्तस्य कृतं आश्रमदूषणम्

॥६॥

सुकन्या प्राह पितरं भीता किञ्चित् कृतं मया ।

द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै

॥७॥

दुहितुस्तद् वचः श्रुत्वा शर्यातिर्जातसाध्वसः ।

मुनिं प्रसादयामास वल्मीकान्तर्हितं शनैः

॥८॥

तद् अभिप्रायमाज्ञाय प्रादाद् दुहितरं मुनेः ।

कृच्छ्रात् मुक्तः तमामंत्र्य पुरं प्रायात् समाहितः

॥९॥

सुकन्या च्यवनं प्राप्य पतिं परमकोपनम् ।

प्रीणयामास चित्तज्ञा अप्रमत्तानुवृत्तिभिः

॥१०॥

कस्यचित् त्वथ कालस्य नासत्यावाश्रमागतौ ।

तौ पूजयित्वा प्रोवाच वयो मे दत्तमीश्वरौ

॥११॥

ग्रहं ग्रहीष्ये सोमस्य यज्ञे वामप्यसोमपोः ।

क्रियतां मे वयो रूपं प्रमदानां यदीप्सितम्

॥१२॥

बाढं इति ऊचतुर्विप्रं अभिनन्द्य भिषक्तमौ ।

निमज्जतां भवान् अस्मिन् ह्रदे सिद्धविनिर्मिते

॥१३॥

इत्युक्त्वा जरया ग्रस्त देहो धमनिसन्ततः ।

ह्रदं प्रवेशितोऽश्विभ्यां वलीपलित विप्रियः

॥१४॥

पुरुषास्त्रय उत्तस्थुः अपीव्या वनिताप्रियाः ।

पद्मस्रजः कुण्डलिनः तुल्यरूपाः सुवाससः

॥१५॥

तान् निरीक्ष्य वरारोहा सरूपान् सूर्यवर्चसः ।

अजानती पतिं साध्वी अश्विनौ शरणं ययौ

॥१६॥

दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ ।

ऋषिमामन्त्र्य ययतुः विमानेन त्रिविष्टपम्

॥१७॥

यक्ष्यमाणोऽथ शर्यातिः च्यवनस्याश्रमं गतः ।

ददर्श दुहितुः पार्श्वे पुरुषं सूर्यवर्चसम्

॥१८॥

राजा दुहितरं प्राह कृतपादाभिवन्दनाम् ।

आशिषश्चाप्रयुञ्जानो नातिप्रीतिमना इव

॥१९॥

चिकीर्षितं ते किमिदं पतिस्त्वया प्रलम्भितो लोकनमस्कृतो मुनिः ।

यत्त्वं जराग्रस्तमसत्यसम्मतं विहाय जारं भजसेऽमुमध्वगम्

॥२०॥

कथं मतिस्तेऽवगतान्यथा सतां कुलप्रसूते कुलदूषणं त्विदम् ।

बिभर्षि जारं यदपत्रपा कुलं पितुश्च भर्तुश्च नयस्यधस्तमः

॥२१॥

एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता ।

उवाच तात जामाता तवैष भृगुनन्दनः

॥२२॥

शशंस पित्रे तत् सर्वं वयोरूपाभिलम्भनम् ।

विस्मितः परमप्रीतः तनयां परिषस्वजे

॥२३॥

सोमेन याजयन् वीरं ग्रहं सोमस्य चाग्रहीत् ।

असोमपोः अपि अश्विनोः च्यवनः स्वेन तेजसा

॥२४॥

हन्तुं तमाददे वज्रं सद्यो मन्युरमर्षितः ।

सवज्रं स्तम्भयामास भुजं इन्द्रस्य भार्गवः

॥२५॥

अन्वजानन् ततः सर्वे ग्रहं सोमस्य चाश्विनोः ।

भिषजाविति यत् पूर्वं सोमाहुत्या बहिष्कृतौ

॥२६॥

उत्तानबर्हिरानर्तो भूरिषेण इति त्रयः ।

शर्यातेरभवन् पुत्रा आनर्ताद् रेवतोऽभवत्

॥२७॥

सोऽन्तःसमुद्रे नगरीं विनिर्माय कुशस्थलीम् ।

आस्थितोऽभुङ्क्त विषयान् आनर्तादीन् अरिन्दम

॥२८॥

तस्य पुत्रशतं जज्ञे ककुद्मि ज्येष्ठमुत्तमम् ।

ककुद्मी रेवतीं कन्यां स्वां आदाय विभुं गतः

॥२९॥

पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकं अपावृतम् ।

आवर्तमाने गान्धर्वे स्थितोऽलब्धक्षणः क्षणम्

॥३०॥

तदन्त आद्यमानम्य स्वाभिप्रायं न्यवेदयत् ।

तत् श्रुत्वा भगवान् ब्रह्मा प्रहस्य तमुवाच ह

॥३१॥

अहो राजन् निरुद्धास्ते कालेन हृदि ये कृताः ।

तत्पुत्रपौत्र नप्तॄणां गोत्राणि च न श्रृण्महे

॥३२॥

कालोऽभियातस्त्रिणव चतुर्युगविकल्पितः ।

तद्गच्छ देवदेवांशो बलदेवो महाबलः

॥३३॥

कन्यारत्नमिदं राजन् नररत्नाय देहि भोः ।

भुवो भारावताराय भगवान् भूतभावनः

॥३४॥

अवतीर्णो निजांशेन पुण्यश्रवणकीर्तनः ।

इत्यादिष्टोऽभिवन्द्याजं नृपः स्वपुरमागतः ।

त्यक्तं पुण्यजनत्रासाद्भ्रातृभिर्दिक्ष्ववस्थितैः

॥३५॥

सुतां दत्त्वानवद्याङ्गीं बलाय बलशालिने ।

बदर्याख्यं गतो राजा तप्तुं नारायणाश्रमम्

॥३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे तृतीयोऽध्यायः ॥ ३ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु