मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — अष्टमस्कन्धः, अध्याय २२

3
अष्टमस्कन्धः · 22

भिद्यमानोऽप्यभिन्नात्मा प्रत्याहाविक्लवं वचः

श्रीमद्भागवत महापुराण अष्टमः स्कन्धः - द्वाविंशोऽध्यायः बलिवचनं ब्रह्मणो वचनं भगवकृतं बलेः प्रशसनं तस्मै वरदानं च -श्रीशुक उवाच - (अनुष्टुप्) एवं विप्रकृतो राजन् बलिर्भगवतासुरः ।

भिद्यमानोऽप्यभिन्नात्मा प्रत्याहाविक्लवं वचः

॥१॥

श्रीबलिरुवाच

यद्युत्तमश्लोक भवान्ममेरितं वचो व्यलीकं सुरवर्य मन्यते ।

करोम्यृतं तन्न भवेत्प्रलम्भनं पदं तृतीयं कुरु शीर्ष्णि मे निजम्

॥२॥

बिभेमि नाहं निरयात् पदच्युतो न पाशबन्धाद्व्यसनाद् दुरत्ययात् ।

नैवार्थकृच्छ्राद्भवतो विनिग्रहाद् असाधुवादाद्भृशमुद्विजे यथा

॥३॥

(अनुष्टुप्) पुंसां श्लाघ्यतमं मन्ये दण्डमर्हत्तमार्पितम् ।

यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि

॥४॥

त्वं नूनमसुराणां नः परोक्षः परमो गुरुः ।

यो नोऽनेकमदान्धानां विभ्रंशं चक्षुरादिशत्

॥५॥

यस्मिन् वैरानुबन्धेन व्यूढेन विबुधेतराः ।

बहवो लेभिरे सिद्धिं यामु हैकान्तयोगिनः

॥६॥

तेनाहं निगृहीतोऽस्मि भवता भूरिकर्मणा ।

बद्धश्च वारुणैः पाशैः नातिव्रीडे न च व्यथे

॥७॥

पितामहो मे भवदीयसम्मतः प्रह्राद आविष्कृतसाधुवादः ।

भवद्विपक्षेण विचित्रवैशसं संप्रापितस्त्वं परमः स्वपित्रा

॥८॥

किमात्मनानेन जहाति योऽन्ततः किं रिक्थहारैः स्वजनाख्यदस्युभिः ।

किं जायया संसृतिहेतुभूतया मर्त्यस्य गेहैः किमिहायुषो व्ययः

॥९॥

इत्थं स निश्चित्य पितामहो महान् अगाधबोधो भवतः पादपद्मम् ।

ध्रुवं प्रपेदे ह्यकुतोभयं जनाद् भीतः स्वपक्षक्षपणस्य सत्तम

॥१०॥

अथाहमप्यात्मरिपोस्तवान्तिकं दैवेन नीतः प्रसभं त्याजितश्रीः ।

इदं कृतान्तान्तिकवर्ति जीवितं ययाध्रुवं स्तब्धमतिर्न बुध्यते

॥११॥

श्रीशुक उवाच

(अनुष्टुप्) तस्येत्थं भाषमाणस्य प्रह्रादो भगवत्प्रियः ।

आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थितः

॥१२॥

तमिन्द्रसेनः स्वपितामहं श्रिया विराजमानं नलिनायतेक्षणम् ।

प्रांशुं पिशंगांबरमञ्जनत्विषं प्रलंबबाहुं शुभगर्षभमैक्षत

॥१३॥

तस्मै बलिर्वारुणपाशयन्त्रितः समर्हणं नोपजहार पूर्ववत् ।

ननाम मूर्ध्नाश्रुविलोललोचनः सव्रीडनीचीनमुखो बभूव ह

॥१४॥

स तत्र हासीनमुदीक्ष्य सत्पतिं हरिं सुनन्दाद्यनुगैरुपासितम् ।

उपेत्य भूमौ शिरसा महामना ननाम मूर्ध्ना पुलकाश्रुविक्लवः

॥१५॥

श्रीप्रह्राद उवाच

त्वयैव दत्तं पदमैन्द्रमूर्जितं हृतं तदेवाद्य तथैव शोभनम् ।

मन्ये महानस्य कृतो ह्यनुग्रहो विभ्रंशितो यच्छ्रिय आत्ममोहनात्

॥१६॥

यया हि विद्वानपि मुह्यते यतः तत् को विचष्टे गतिमात्मनो यथा ।

तस्मै नमस्ते जगदीश्वराय वै नारायणायाखिललोकसाक्षिणे

॥१७॥

श्रीशुक उवाच

(अनुष्टुप्) तस्यानुश्रृवतो राजन् प्रह्रादस्य कृताञ्जलेः ।

हिरण्यगर्भो भगवान् उवाच मधुसूदनम्

॥१८॥

बद्धं वीक्ष्य पतिं साध्वी तत्पत्नी भयविह्वला ।

प्राञ्जलिः प्रणतोपेन्द्रं बभाषेऽवांमुखी नृप

॥१९॥

श्रीविन्ध्यावलिरुवाच

क्रीडार्थमात्मन इदं त्रिजगत्कृतं ते स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्युः ।

कर्तुः प्रभोस्तव किमस्यत आवहन्ति त्यक्तह्रियस्त्वदवरोपितकर्तृवादाः

॥२०॥

श्रीब्रह्मोवाच

(अनुष्टुप्) भूतभावन भूतेश देवदेव जगन्मय ।

मुञ्चैनं हृतसर्वस्वं नायमर्हति निग्रहम्

॥२१॥

कृत्स्ना तेऽनेन दत्ता भूर्लोकाः कर्मार्जिताश्च ये ।

निवेदितं च सर्वस्वं आत्माविक्लवया धिया

॥२२॥

यत्पादयोरशठधीः सलिलं प्रदाय दूर्वाङ्कुरैरपि विधाय सतीं सपर्याम् ।

अप्युत्तमां गतिमसौ भजते त्रिलोकीं दाश्वानविक्लवमनाः कथमार्तिमृच्छेत्

॥२३॥

श्रीभगवानुवाच

(अनुष्टुप्) ब्रह्मन् यमनुगृह्णामि तद्विशो विधुनोम्यहम् ।

यन्मदः पुरुषः स्तब्धो लोकं मां चावमन्यते

॥२४॥

यदा कदाचित् जीवात्मा संसरन्निजकर्मभिः ।

नानायोनिष्वनीशोऽयं पौरुषीं गतिमाव्रजेत्

॥२५॥

जन्मकर्मवयोरूप विद्यैश्वर्यधनादिभिः ।

यद्यस्य न भवेत् स्तंभः तत्रायं मदनुग्रहः

॥२६॥

मानस्तम्भनिमित्तानां जन्मादीनां समन्ततः ।

सर्वश्रेयःप्रतीपानां हन्त मुह्येन्न मत्परः

॥२७॥

एष दानवदैत्यानामग्रनीः कीर्तिवर्धनः ।

अजैषीदजयां मायां सीदन्नपि न मुह्यति

॥२८॥

क्षीणरिक्थश्च्युतः स्थानात्क्षिप्तो बद्धश्च शत्रुभिः ।

ज्ञातिभिश्च परित्यक्तो यातनामनुयापितः

॥२९॥

गुरुणा भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः ।

छलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक्

॥३०॥

एष मे प्रापितः स्थानं दुष्प्रापं अमरैरपि ।

सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रयः

॥३१॥

तावत् सुतलमध्यास्तां विश्वकर्मविनिर्मितम् ।

यदाधयो व्याधयश्च क्लमस्तन्द्रा पराभवः ।

नोपसर्गा निवसतां सम्भवन्ति ममेक्षया

॥३२॥

इन्द्रसेन महाराज याहि भो भद्रमस्तु ते ।

सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः

॥३३॥

न त्वां अभिभविष्यन्ति लोकेशाः किमुतापरे ।

त्वत् शासनातिगान् दैत्यान् चक्रं मे सूदयिष्यति

॥३४॥

रक्षिष्ये सर्वतोऽहं त्वां सानुगं सपरिच्छदम् ।

सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान्

॥३५॥

तत्र दानवदैत्यानां संगात् ते भाव आसुरः ।

दृष्ट्वा मदनुभावं वै सद्यः कुण्ठो विनंक्ष्यति

॥३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे वामनप्रादुर्भवे बलिवामनसंवादे द्वाविंशोऽध्यायः ॥ २२ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु