मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — अष्टमस्कन्धः, अध्याय २०

3
अष्टमस्कन्धः · 20

विश्वरूपदर्शनम्

श्रीमद्भागवत महापुराण अष्टमः स्कन्धः - विंशोऽध्यायः बलिकर्तृकं पदत्रयमितभूमिदानं भगवतो विराड्रूपग्रहणं च -श्रीशुक उवाच - (अनुष्टुप्) बलिरेवं गृहपतिः कुलाचार्येण भाषितः ।

तूष्णीं भूत्वा क्षणं राजन् उवाचावहितो गुरुम्

॥१॥

श्रीबलिरुवाच

सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम् ।

अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित्

॥२॥

स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् ।

प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा

॥३॥

न ह्यसत्यात्परोऽधर्म इति होवाच भूरियम् ।

सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम्

॥४॥

नाहं बिभेमि निरयान् नाधन्यादसुखार्णवात् ।

न स्थानच्यवनान् मृत्योः यथा विप्रप्रलम्भनात्

॥५॥

यद् यद्धास्यति लोकेऽस्मिन् संपरेतं धनादिकम् ।

तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत्

॥६॥

श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः ।

दध्यङ्गशिबिप्रभृतयः को विकल्पो धरादिषु

॥७॥

यैरियं बुभुजे ब्रह्मन् दैत्येन्द्रैरनिवर्तिभिः ।

तेषां कालोऽग्रसीत् लोकान् न यशोऽधिगतं भुवि

॥८॥

सुलभा युधि विप्रर्षे हिइ, अनिवृत्तास्तनुत्यजः ।

न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः

॥९॥

मनस्विनः कारुणिकस्य शोभनं यदर्थिकामोपनयेन दुर्गतिः ।

कुतः पुनर्ब्रह्मविदां भवादृशां ततो वटोरस्य ददामि वाञ्छितम्

॥१०॥

यजन्ति यज्ञं क्रतुभिर्यमादृता भवन्त आम्नायविधानकोविदाः ।

स एव विष्णुर्वरदोऽस्तु वा परो दास्याम्यमुष्मै क्षितिमीप्सितां मुने

॥११॥

(अनुष्टुप्) यद्यपि असौ अधर्मेण मां बध्नीयाद् अनागसम् ।

तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम्

॥१२॥

एष वा उत्तमश्लोको न जिहासति यद् यशः ।

हत्वा मैनां हरेद् युद्धे शयीत निहतो मया

॥१३॥

श्रीशुक उवाच

एवं अश्रद्धितं शिष्यं अनादेशकरं गुरुः ।

शशाप दैवप्रहितः सत्यसन्धं मनस्विनम्

॥१४॥

दृढं पण्डितमान्यज्ञः स्तब्धोऽस्यस्मद् उपेक्षया ।

मच्छासनातिगो यस्त्वं अचिराद्भ्रश्यसे श्रियः

॥१५॥

एवं शप्तः स्वगुरुणा सत्यान्न चलितो महान् ।

वामनाय ददौ एनां अर्चित्वोदकपूर्वकम्

॥१६॥

विन्ध्यावलिस्तदागत्य पत्नी जालकमालिनी ।

आनिन्ये कलशं हैमं अवनेजन्यपां भृतम्

॥१७॥

यजमानः स्वयं तस्य श्रीमत्पादयुगं मुदा ।

अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनीः

॥१८॥

तदासुरेन्द्रं दिवि देवतागणा गन्धर्वविद्याधरसिद्धचारणाः ।

तत्कर्म सर्वेऽपि गृणन्त आर्जवं प्रसूनवर्षैर्ववृषुर्मुदान्विताः

॥१९॥

नेदुर्मुहुर्दुन्दुभयः सहस्रशो गन्धर्वकिम्पूरुषकिन्नरा जगुः ।

मनस्विनानेन कृतं सुदुष्करं विद्वानदाद्यद्रिपवे जगत्त्रयम्

॥२०॥

तद्वामनं रूपमवर्धताद्भुतं हरेरनन्तस्य गुणत्रयात्मकम् ।

भूः खं दिशो द्यौर्विवराः पयोधयः तिर्यङ्नृदेवा ऋषयो यदासत

॥२१॥

काये बलिस्तस्य महाविभूतेः सहर्त्विगाचार्यसदस्य एतत् ।

ददर्श विश्वं त्रिगुणं गुणात्मके भूतेन्द्रियार्थाशयजीवयुक्तम्

॥२२॥

रसामचष्टाङ्घ्रितलेऽथ पादयोः महीं महीध्रान्पुरुषस्य जंघयोः ।

पतत्त्रिणो जानुनि विश्वमूर्तेः ऊर्वोर्गणं मारुतमिन्द्रसेनः

॥२३॥

सन्ध्यां विभोर्वाससि गुह्य ऐक्षत् प्रजापतीन्जघने आत्ममुख्यान् ।

नाभ्यां नभः कुक्षिषु सप्तसिन्धून् उरुक्रमस्योरसि चर्क्षमालाम्

॥२४॥

हृद्यंग धर्मं स्तनयोर्मुरारेः ऋतं च सत्यं च मनस्यथेन्दुम् ।

श्रियं च वक्षस्यरविन्दहस्तां कण्ठे च सामानि समस्तरेफान्

॥२५॥

इन्द्रप्रधानानमरान्भुजेषु तत्कर्णयोः ककुभो द्यौश्च मूर्ध्नि ।

केशेषु मेघान्छ्वसनं नासिकायां अक्ष्णोश्च सूर्यं वदने च वह्निम्

॥२६॥

वाण्यां च छन्दांसि रसे जलेशं भ्रुवोर्निषेधं च विधिं च पक्ष्मसु ।

अहश्च रात्रिं च परस्य पुंसो मन्युं ललाटेऽधर एव लोभम्

॥२७॥

स्पर्शे च कामं नृप रेतसाम्भः पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् ।

छायासु मृत्युं हसिते च मायां तनूरुहेष्वोषधिजातयश्च

॥२८॥

नदीश्च नाडीषु शिला नखेषु बुद्धावजं देवगणान् ऋषींश्च ।

प्राणेषु गात्रे स्थिरजंगमानि सर्वाणि भूतानि ददर्श वीरः

॥२९॥

सर्वात्मनीदं भुवनं निरीक्ष्य सर्वेऽसुराः कश्मलमापुरंग ।

सुदर्शनं चक्रमसह्यतेजो धनुश्च शार्ङ्ग स्तनयित्नुघोषम्

॥३०॥

पर्जन्यघोषो जलजः पाञ्चजन्यः कौमोदकी विष्णुगदा तरस्विनी ।

विद्याधरोऽसिः शतचन्द्रयुक्तः तूणोत्तमावक्षयसायकौ च

॥३१॥

सुनन्दमुख्या उपतस्थुरीशं पार्षदमुख्याः सहलोकपालाः ।

स्फुरत्किरीटाङ्गदमीनकुण्डलः श्रीवत्सरत्नोत्तममेखलाम्बरैः

॥३२॥

मधुव्रतस्रग्वनमालयावृतो रराज राजन्भगवानुरुक्रमः ।

क्षितिं पदैकेन बलेर्विचक्रमे नभः शरीरेण दिशश्च बाहुभिः

॥३३॥

पदं द्वितीयं क्रमतस्त्रिविष्टपं न वै तृतीयाय तदीयमण्वपि ।

उरुक्रमस्याङ्घ्रिरुपर्युपर्यथो महर्जनाभ्यां तपसः परं गतः

॥३४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे विश्वरूपदर्शनं नाम विंशोऽध्यायः ॥ २० ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु