skipLink.label

सूक्तम् 11 — आ (5 मन्त्राः)

सूक्त 11

५ मैत्रावरुणिर्वसिष्ठ:। अग्नि: । त्रिष्टुप् ।

म॒हाँ अ॑स्यध्व॒रस्य॑ प्रके॒तो न ऋ॒ते त्वद॒मृता॑ मादयन्ते ।

आ विश्वे॑भिः स॒रथं॑ याहि दे॒वैर्न्य॑ग्ने॒ होता॑ प्रथ॒मः स॑दे॒ह

॥१॥

त्वामी॑ळते अजि॒रं दू॒त्या॑य ह॒विष्म॑न्त॒: सद॒मिन्मानु॑षासः ।

यस्य॑ दे॒वैरास॑दो ब॒र्हिर॒ग्नेऽहा॑न्यस्मै सु॒दिना॑ भवन्ति

॥२॥

त्रिश्चि॑द॒क्तोः प्र चि॑कितु॒र्वसू॑नि॒ त्वे अ॒न्तर्दा॒शुषे॒ मर्त्या॑य ।

म॒नु॒ष्वद॑ग्न इ॒ह य॑क्षि दे॒वान्भवा॑ नो दू॒तो अ॑भिशस्ति॒पावा॑

॥३॥

अ॒ग्निरी॑शे बृह॒तो अ॑ध्व॒रस्या॒ऽग्निर्विश्व॑स्य ह॒विष॑: कृ॒तस्य॑ ।

क्रतुं॒ ह्य॑स्य॒ वस॑वो जु॒षन्ताऽथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म्

॥४॥

आग्ने॑ वह हवि॒रद्या॑य दे॒वानिन्द्र॑ज्येष्ठास इ॒ह मा॑दयन्ताम् ।

इ॒मं य॒ज्ञं दि॒वि दे॒वेषु॑ धेहि यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः

॥५॥