skipLink.label

सूक्तम् 102 — पर्जन्याय (3 मन्त्राः)

सूक्त 102

३ मैत्रावरुणिर्वसिष्ठ:।{ वृष्टिकाम:} कुमार आग्नेयो वा । पर्जन्य: । गायत्री, २ पादनिचृत ।

प॒र्जन्या॑य॒ प्र गा॑यत दि॒वस्पु॒त्राय॑ मी॒ळ्हुषे॑ । स नो॒ यव॑समिच्छतु

॥१॥

यो गर्भ॒मोष॑धीनां॒ गवां॑ कृ॒णोत्यर्व॑ताम् । प॒र्जन्य॑: पुरु॒षीणा॑म्

॥२॥

तस्मा॒ इदा॒स्ये॑ ह॒विर्जु॒होता॒ मधु॑मत्तमम् । इळां॑ नः सं॒यतं॑ करत्

॥३॥