skipLink.label

सूक्तम् 70 — अश्वो (7 मन्त्राः)

सूक्त 70

७ मैत्रावरुणिर्वसिष्ठ:। अश्विनौ । त्रिष्टुप् ।

आ वि॑श्ववाराश्विना गतं न॒: प्र तत्स्थान॑मवाचि वां पृथि॒व्याम् ।

अश्वो॒ न वा॒जी शु॒नपृ॑ष्ठो अस्था॒दा यत्से॒दथु॑र्ध्रु॒वसे॒ न योनि॑म्

॥१॥

सिष॑क्ति॒ सा वां॑ सुम॒तिश्चनि॒ष्ठाऽता॑पि घ॒र्मो मनु॑षो दुरो॒णे ।

यो वां॑ समु॒द्रान्त्स॒रित॒: पिप॒र्त्येत॑ग्वा चि॒न्न सु॒युजा॑ युजा॒नः

॥२॥

यानि॒ स्थाना॑न्यश्विना द॒धाथे॑ दि॒वो य॒ह्वीष्वोष॑धीषु वि॒क्षु ।

नि पर्व॑तस्य मू॒र्धनि॒ सद॒न्तेषं॒ जना॑य दा॒शुषे॒ वह॑न्ता

॥३॥

च॒नि॒ष्टं दे॑वा॒ ओष॑धीष्व॒प्सु यद्यो॒ग्या अ॒श्नवै॑थे॒ ऋषी॑णाम् ।

पु॒रूणि॒ रत्ना॒ दध॑तौ॒ न्य१स्मे अनु॒ पूर्वा॑णि चख्यथुर्यु॒गानि॑

॥४॥

शु॒श्रु॒वांसा॑ चिदश्विना पु॒रूण्य॒भि ब्रह्मा॑णि चक्षाथे॒ ऋषी॑णाम् ।

प्रति॒ प्र या॑तं॒ वर॒मा जना॑या॒ऽस्मे वा॑मस्तु सुम॒तिश्चनि॑ष्ठा

॥५॥

यो वां॑ य॒ज्ञो ना॑सत्या ह॒विष्मा॑न्कृ॒तब्र॑ह्मा सम॒र्यो॒३ भवा॑ति ।

उप॒ प्र या॑तं॒ वर॒मा वसि॑ष्ठमि॒मा ब्रह्मा॑ण्यृच्यन्ते यु॒वभ्या॑म्

॥६॥

इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् ।

इ॒मा ब्रह्मा॑णि युव॒यून्य॑ग्मन्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः

॥७॥