मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — अष्टमस्कन्धः, अध्याय १४

3
अष्टमस्कन्धः · 14

यस्मिन्कर्मणि ये येन नियुक्ताः तद् वदस्व मे

श्रीमद्भागवत महापुराण अष्टमः स्कन्धः - चतुर्दशोऽध्यायः मन्वादीनां पृथक् पृथक् कर्मनिरूपणम् -श्रीराजोवाच - (अनुष्टुप्) मन्वन्तरेषु भगवन् यथा मन्वादयस्त्विमे ।

यस्मिन्कर्मणि ये येन नियुक्ताः तद् वदस्व मे

॥१॥

श्रीऋषिरुवाच

मनवो मनुपुत्राश्च मुनयश्च महीपते ।

इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः

॥२॥

यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप ।

मन्वादयो जगद् यात्रां नयन्त्याभिः प्रचोदिताः

॥३॥

चतुर्युगान्ते कालेन ग्रस्तान् श्रुतिगणान्यथा ।

तपसा ऋषयोऽपश्यन् यतो धर्मः सनातनः

॥४॥

ततो धर्मं चतुष्पादं मनवो हरिणोदिताः ।

युक्ताः सञ्चारयन्ति अद्धा स्वे स्वे काले महीं नृप

॥५॥

पालयन्ति प्रजापाला यावदन्तं विभागशः ।

यज्ञभागभुजो देवा ये च तत्र अन्विताश्च तैः

॥६॥

इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम् ।

भुञ्जानः पाति लोकान् त्रीन् कामं लोके प्रवर्षति

॥७॥

ज्ञानं चानुयुगं ब्रूते हरिः सिद्धस्वरूपधृक् ।

ऋषिरूपधरः कर्म योगं योगेशरूपधृक्

॥८॥

सर्गं प्रजेशरूपेण दस्यून् हन्यात् स्वराड्वपुः ।

कालरूपेण सर्वेषां अभावाय पृथग्गुणः

॥९॥

स्तूयमानो जनैरेभिः मायया नामरूपया ।

विमोहितात्मभिर्नाना दर्शनैर्न च दृश्यते

॥१०॥

एतत्कल्पविकल्पस्य प्रमाणं परिकीर्तितम् ।

यत्र मन्वन्तराण्याहुः चतुर्दश पुराविदः

॥११॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु