मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — प्रथमस्कन्धः, अध्याय ११

3
प्रथमस्कन्धः · 11

श्रीकृष्णद्वारकाप्रवेशः

सूत उवाच

आनर्तान् स उपव्रज्य स्वृद्धाञ्जनपदान् स्वकान् ।

दध्मौ दरवरं तेषां विषादं शमयन्निव

॥१॥

स उच्चकाशे धवलोदरो दरोऽपि उरुक्रमस्य अधरशोण शोणिमा ।

दाध्मायमानः करकञ्जसम्पुटे यथाब्जखण्डे कलहंस उत्स्वनः

॥२॥

तमुपश्रुत्य निनदं जगद्भयभयावहम् ।

प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः

॥३॥

तत्रोपनीतबलयो रवेर्दीपमिवादृताः ।

आत्मारामं पूर्णकामं निजलाभेन नित्यदा

॥४॥

प्रीत्युत्फुल्लमुखाः प्रोचुः हर्षगद्गदया गिरा ।

पितरं सर्वसुहृदं अवितारं इवार्भकाः

॥५॥

नताः स्म ते नाथ सदाङ्घ्रिपङ्कजं विरिञ्चवैरिञ्च्य सुरेन्द्र वन्दितम् ।

परायणं क्षेममिहेच्छतां परं न यत्र कालः प्रभवेत्परः प्रभुः

॥६॥

भवाय नस्त्वं भव विश्वभावन त्वमेव माताथ सुहृत्पतिः पिता ।

त्वं सद्गुरुर्नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम

॥७॥

अहो सनाथा भवता स्म यद्वयं त्रैविष्टपानामपि दूरदर्शनम् ।

प्रेमस्मित स्निग्ध निरीक्षणाननं पश्येम रूपं तव सर्वसौभगम्

॥८॥

यर्ह्यम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद् दिदृक्षया ।

तत्राब्दकोटिप्रतिमः क्षणो भवेद् रविं विनाक्ष्णोरिव नस्तवाच्युत

॥९॥

इति चोदीरिता वाचः प्रजानां भक्तवत्सलः ।

शृण्वानोऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत्पुरम्

॥१०॥

मधुभोजदशार्हार्ह कुकुरान्धक वृष्णिभिः ।

आत्मतुल्य बलैर्गुप्तां नागैर्भोगवतीमिव

॥११॥

सर्वर्तु सर्वविभव पुण्यवृक्षलताश्रमैः ।

उद्यानोपवनारामैः वृत पद्माकर श्रियम्

॥१२॥

गोपुरद्वारमार्गेषु कृतकौतुक तोरणाम् ।

चित्रध्वजपताकाग्रैः अन्तः प्रतिहतातपाम्

॥१३॥

सम्मार्जित महामार्ग रथ्यापणक चत्वराम् ।

सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः

॥१४॥

द्वारि द्वारि गृहाणां च दध्यक्षत फलेक्षुभिः ।

अलङ्कृतां पूर्णकुम्भैः बलिभिः धूपदीपकैः

॥१५॥

निशम्य प्रेष्ठमायान्तं वसुदेवो महामनाः ।

अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः

॥१६॥

प्रद्युम्नः चारुदेष्णश्च साम्बो जाम्बवतीसुतः ।

प्रहर्षवेग उच्छशित शयनासन भोजनाः

॥१७॥

वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः ।

शङ्खतूर्य निनादेन ब्रह्मघोषेण चादृताः ।

प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागत साध्वसाः

॥१८॥

वारमुख्याश्च शतशो यानैः तत् दर्शनोत्सुकाः ।

लसत्कुण्डल निर्भात कपोल वदनश्रियः

॥१९॥

नटनर्तकगन्धर्वाः सूत मागध वन्दिनः ।

गायन्ति चोत्तमश्लोक चरितानि अद्भुतानि च

॥२०॥

भगवान् तत्र बन्धूनां पौराणां अनुवर्तिनाम् ।

यथाविधि उपसङ्गम्य सर्वेषां मानमादधे

॥२१॥

प्रह्वाभिवादन आश्लेष करस्पर्श स्मितेक्षणैः ।

आश्वास्य चाश्वपाकेभ्यो वरैश्च अभिमतैर्विभुः

॥२२॥

स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि ।

आशीर्भिः युज्यमानोऽन्यैः वन्दिभिश्चाविशत् पुरम्

॥२३॥

राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः ।

हर्म्याण्यारुरुहुर्विप्र तदीक्षण महोत्सवाः

॥२४॥

नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् ।

न वितृप्यन्ति हि दृशः श्रियो धामाङ्गमच्युतम्

॥२५॥

श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् ।

बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम्

॥२६॥

सितातपत्रव्यजनैः उपस्कृतः नवर्षैः अभिवर्षितः पथि ।

पिशङ्गवासा वनमालया बभौ यथार्कोडुप चाप वैद्युतैः

॥२७॥

प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः ।

ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा

॥२८॥

ताः पुत्रमङ्कं आरोप्य स्नेहस्नुत पयोधराः ।

हर्षविह्वलितात्मानः सिषिचुः नेत्रजैर्जलैः

॥२९॥

अथाविशत् स्वभवनं सर्वकाममनुत्तमम् ।

प्रासादा यत्र पत्नीनां सहस्राणि च षोडश

॥३०॥

पत्न्यः पतिं प्रोष्य गृहानुपागतं क्य सञ्जात मनोमहोत्सवाः ।

उत्तस्थुरारात् सहसासनाशयात् व्रतैः व्रीडित लोचनाननाः

॥३१॥

तं आत्मजैः दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम् ।

निरुद्धमप्यास्रवदम्बु नेत्रयोः विलज्जतीनां भृगुवर्य वैक्लवात्

॥३२॥

यद्यप्यसौ पार्श्वगतो रहोगतः तथापि तस्याङ्घ्रियुगं नवं नवम् ।

पदे पदे का विरमेत तत्पदात् चलापि यच्छ्रीर्न जहाति कर्हिचित्

॥३३॥

एवं नृपाणां क्षितिभारजन्मनां अक्षौहिणीभिः परिवृत्ततेजसाम् ।

विधाय वैरं श्वसनो यथानलं मिथो वधेनोपरतो निरायुधः

॥३४॥

स एष नरलोकेऽस्मिन् अवतीर्णः स्वमायया ।

रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा

॥३५॥

उद्दामभाव पिशुनामल वल्गुहास ।

व्रीडावलोकनिहतो मदनोऽपि यासाम् ।

सम्मुह्य चापमजहात् प्रमदोत्तमास्ता ।

यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः

॥३६॥

तमयं मन्यते लोको ह्यसङ्गमपि सङ्गिनम् ।

आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः

॥३७॥

एतत् ईशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः ।

न युज्यते सदाऽत्मस्थैः यथा बुद्धिस्तदाश्रया

॥३८॥

तं मेनिरेऽबला मूढाः स्त्रैणं चानुव्रतं रहः ।

अप्रमाणविदो भर्तुः ईश्वरं मतयो यथा

॥३९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने श्रीकृष्णद्वारकाप्रवेशो नाम एकादशोऽध्यायः ॥ ११ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ fr:Le Bhâgavata Purâna/Livre I/Chapitre 11