मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — प्रथमस्कन्धः, अध्याय १७

3
प्रथमस्कन्धः · 17

कलिनिग्रहः

सूत उवाच

तत्र गोमिथुनं राजा हन्यमानमनाथवत् ।

दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनम्

॥१॥

वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् ।

वेपमानं पदैकेन सीदन्तं शूद्रताडितम्

॥२॥

गां च घर्मदुघां दीनां भृशं शूद्रपदाहताम् ।

विवत्सामाश्रुवदनां क्षामां यवसमिच्छतीम्

॥३॥

पप्रच्छ रथमारूढः कार्तस्वरपरिच्छदम् ।

मेघगम्भीरया वाचा समारोपितकार्मुकः

॥४॥

कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली ।

नरदेवोऽसि वेषेण नटवत्कर्मणाद्विजः

॥५॥

यस्त्वं कृष्णे गते दूरं सहगाण्डीवधन्वना ।

शोच्योऽस्यशोच्यान् रहसि प्रहरन् वधमर्हसि

॥६॥

त्वं वा मृणालधवलः पादैर्न्यूनः पदा चरन् ।

वृषरूपेण किं कश्चिद्देवो नः परिखेदयन्

॥७॥

न जातु कौरवेन्द्राणां दोर्दण्डपरिरम्भिते ।

भूतलेऽनुपतन्त्यस्मिन् विना ते प्राणिनां शुचः

॥८॥

मा सौरभेयात्र शुचो व्येतु ते वृषलाद्भयम् ।

मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि

॥९॥

यस्य राष्ट्रे प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः ।

तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः

॥१०॥

एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रहः ।

अत एनं वधिष्यामि भूतद्रुहमसत्तमम्

॥११॥

कोऽवृश्चत्तव पादांस्त्रीन् सौरभेय चतुष्पद ।

मा भूवंस्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम्

॥१२॥

आख्याहि वृष भद्रं वः साधूनामकृतागसाम् ।

आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम्

॥१३॥

जनेऽनागस्यघं युञ्जन् सर्वतोऽस्य च मद्भयम् ।

साधूनां भद्रमेव स्यादसाधुदमने कृते

॥१४॥

अनागःस्विह भूतेषु य आगस्कृन्निरङ्कुशः ।

आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम्

॥१५॥

राज्ञो हि परमो धर्मः स्वधर्मस्थानुपालनम् ।

शासतोऽन्यान् यथाशास्त्रमनापद्युत्पथानिह

॥१६॥

धर्म उवाच

एतद्वः पाण्डवेयानां युक्तमार्ताभयं वचः ।

येषां गुणगणैः कृष्णो दौत्यादौ भगवान् कृतः

॥१७॥

न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ ।

पुरुषं तं विजानीमो वाक्यभेदविमोहिताः

॥१८॥

केचिद्विकल्पवसना आहुरात्मानमात्मनः ।

दैवमन्येऽपरे कर्म स्वभावमपरे प्रभुम्

॥१९॥

अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः ।

अत्रानुरूपं राजर्षे विमृश स्वमनीषया

॥२०॥

सूत उवाच

एवं धर्मे प्रवदति स सम्राड्द्विजसत्तमाः ।

समाहितेन मनसा विखेदः पर्यचष्ट तम्

॥२१॥

राजोवाच

धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् ।

यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत्

॥२२॥

अथवा देवमायाया नूनं गतिरगोचरा ।

चेतसो वचसश्चापि भूतानामिति निश्चयः

॥२३॥

तपः शौचं दया सत्यमिति पादाः कृते कृताः ।

अधर्मांशैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव

॥२४॥

इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यतः ।

तं जिघृक्षत्यधर्मोऽयमनृतेनैधितः कलिः

॥२५॥

इयं च भूमिर्भगवता न्यासितोरुभरा सती ।

श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका

॥२६॥

शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिता सती ।

अब्रह्मण्या नृपव्याजाः शूद्रा भोक्ष्यन्ति मामिति

॥२७॥

इति धर्मं महीं चैव सान्त्वयित्वा महारथः ।

निशातमाददे खड्गं कलयेऽधर्महेतवे

॥२८॥

तं जिघांसुमभिप्रेत्य विहाय नृपलाञ्छनम् ।

तत्पादमूलं शिरसा समगाद्भयविह्वलः

॥२९॥

पतितं पादयोर्वीरः कृपया दीनवत्सलः ।

शरण्यो नावधीच्छ्लोक्य आह चेदं हसन्निव

॥३०॥

राजोवाच

न ते गुडाकेशयशोधराणां बद्धाञ्जलेर्वै भयमस्ति किञ्चित् ।

न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वमधर्मबन्धुः

॥३१॥

त्वां वर्तमानं नरदेवदेहेष्वनुप्रवृत्तोऽयमधर्मपूगः ।

लोभोऽनृतं चौर्यमनार्यमंहो ज्येष्ठा च माया कलहश्च दम्भः

॥३२॥

न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये ।

ब्रह्मावर्ते यत्र यजन्ति यज्ञैर्यज्ञेश्वरं यज्ञवितानविज्ञाः

॥३३॥

यस्मिन् हरिर्भगवानिज्यमान इज्यात्ममूर्तिर्यजतां शं तनोति ।

कामानमोघान् स्थिरजङ्गमानामन्तर्बहिर्वायुरिवैष आत्मा

॥३४॥

सूत उवाच

परीक्षितैवमादिष्टः स कलिर्जातवेपथुः ।

तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम्

॥३५॥

कलिरुवाच

यत्र क्व वाथ वत्स्यामि सार्वभौम तवाज्ञया ।

लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम्

॥३६॥

तन्मे धर्मभृतां श्रेष्ठ स्थानं निर्देष्टुमर्हसि ।

यत्रैव नियतो वत्स्य आतिष्ठंस्तेऽनुशासनम्

॥३७॥

सूत उवाच

अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ ।

द्यूतं पानं स्त्रियः सूना यत्राधर्मश्चतुर्विधः

॥३८॥

पुनश्च याचमानाय जातरूपमदात्प्रभुः ।

ततोऽनृतं मदं कामं रजो वैरं च पञ्चमम्

॥३९॥

अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः ।

औत्तरेयेण दत्तानि न्यवसत्तन्निदेशकृत्

॥४०॥

अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित् ।

विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः

॥४१॥

वृषस्य नष्टांस्त्रीन् पादान् तपः शौचं दयामिति ।

प्रतिसन्दध आश्वास्य महीं च समवर्धयत्

॥४२॥

स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम् ।

पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता

॥४३॥

आस्तेऽधुना स राजर्षिः कौरवेन्द्रश्रियोल्लसन् ।

गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवाः

॥४४॥

इत्थम्भूतानुभावोऽयमभिमन्युसुतो नृपः ।

यस्य पालयतः क्षौणीं यूयं सत्राय दीक्षिताः

॥४५॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां प्रथमस्कन्धे कलिनिग्रहो नाम सप्तदशोऽध्यायः ॥ १७ ॥

fr:Le Bhâgavata Purâna/Livre I/Chapitre 17