मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — प्रथमस्कन्धः, अध्याय ८

3
प्रथमस्कन्धः · 8

कुन्तीस्तुतिर्युधिष्ठिरानुतापः

सूत उवाच

(अनुष्टुप्) अथ ते सम्परेतानां स्वानामुदकमिच्छताम् ।

दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः

॥१॥

ते निनीयोदकं सर्वे विलप्य च भृशं पुनः ।

आप्लुता हरिपादाब्जः अजःपूतसरिज्जले

॥२॥

तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम् ।

गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः

॥३॥

सांत्वयामास मुनिभिः हतबंधून् शुचार्पितान् ।

भूतेषु कालस्य गतिं दर्शयन् अप्रतिक्रियाम्

॥४॥

साधयित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम् ।

घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः

॥५॥

याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः ।

तद्यशः पावनं दिक्षु शतमन्योरिवातनोत्

॥६॥

आमंत्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः ।

द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः

॥७॥

गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथमास्थितः ।

उपलेभेऽभिधावन्तीं उत्तरां भयविह्वलाम्

॥८॥

उत्तरोवाच

पाहि पाहि महायोगिन् देवदेव जगत्पते ।

नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम्

॥९॥

अभिद्रवति मामीश शरस्तप्तायसो विभो ।

कामं दहतु मां नाथ मा मे गर्भो निपात्यताम्

॥१०॥

सूत उवाच

उपधार्य वचस्तस्या भगवान् भक्तवत्सलः ।

अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत

॥११॥

तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान् ।

आत्मनोऽभिमुखान् दीप्तान् आलक्ष्यास्त्राण्युपाददुः

॥१२॥

व्यसनं वीक्ष्य तत्तेषां अनन्यविषयात्मनाम् ।

सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः

॥१३॥

अन्तःस्थः सर्वभूतानां आत्मा योगेश्वरो हरिः ।

स्वमाययाऽऽवृणोद्गर्भं वैराट्याः कुरुतन्तवे

॥१४॥

यद्यप्यस्त्रं ब्रह्मशिरः त्वमोघं चाप्रतिक्रियम् ।

वैष्णवं तेज आसाद्य समशाम्यद् भृगूद्वह

॥१५॥

मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमयेऽच्युते ।

य इदं मायया देव्या सृजत्यवति हन्त्यजः

॥१६॥

ब्रह्मतेजोविनिर्मुक्तैः आत्मजैः सह कृष्णया ।

प्रयाणाभिमुखं कृष्णं इदमाह पृथा सती

॥१७॥

कुन्त्युवाच

नमस्ये पुरुषं त्वाऽऽद्यं ईश्वरं प्रकृतेः परम् ।

अलक्ष्यं सर्वभूतानां अन्तर्बहिरवस्थितम्

॥१८॥

मायाजवनिकाच्छन्नं अज्ञाधोक्षजमव्ययम् ।

न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा

॥१९॥

तथा परमहंसानां मुनीनां अमलात्मनाम् ।

भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः

॥२०॥

कृष्णाय वासुदेवाय देवकीनंदनाय च ।

नंदगोपकुमाराय गोविंदाय नमो नमः

॥२१॥

नमः पङ्कजनाभाय नमः पङ्कजमालिने ।

नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये

॥२२॥

(वंशस्थ) यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता ।

विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात्

॥२३॥

विषान्महाग्नेः पुरुषाददर्शनाद् असत्सभाया वनवासकृच्छ्रतः ।

मृधे मृधेऽनेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः

॥२४॥

(अनुष्टुप्) विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्गुरो ।

भवतो दर्शनं यत्स्याद् अपुनर्भवदर्शनम्

॥२५॥

जन्मैश्वर्यश्रुतश्रीभिः एधमानमदः पुमान् ।

नैवार्हत्यभिधातुं वै त्वां अकिञ्चनगोचरम्

॥२६॥

नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये ।

आत्मारामाय शान्ताय कैवल्यपतये नमः

॥२७॥

मन्ये त्वां कालमीशानं अनादिनिधनं विभुम् ।

समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः

॥२८॥

(वंशस्थ) न वेद कश्चिद् भगवंश्चिकीर्षितं तवेहमानस्य नृणां विडम्बनम् ।

न यस्य कश्चिद् दयितोऽस्ति कर्हिचिद् द्वेष्यश्च यस्मिन्विषमा मतिर्नृणाम्

॥२९॥

(अनुष्टुप्) जन्म कर्म च विश्वात्मन् अजस्याकर्तुरात्मनः ।

तिर्यङ् नृषिषु यादःसु तद् अत्यन्तविडम्बनम्

॥३०॥

(वसंततिलका) गोप्याददे त्वयि कृतागसि दाम तावद् या ते दशाश्रुकलिल अञ्जन संभ्रमाक्षम् ।

वक्त्रं निनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि यद्बिभेति

॥३१॥

(अनुष्टुप्) केचिद् आहुः अजं जातं पुण्यश्लोकस्य कीर्तये ।

यदोः प्रियस्य अन्ववाये मलयस्येव चन्दनम्

॥३२॥

अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् ।

अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम्

॥३३॥

भारावतारणायान्ये भुवो नाव इवोदधौ ।

सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः

॥३४॥

भवेऽस्मिन् क्लिश्यमानानां अविद्याकामकर्मभिः ।

श्रवण स्मरणार्हाणि करिष्यम् इति केचन

॥३५॥

(वंशस्थ) श्रृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः ।

त एव पश्यन्त्यचिरेण तावकं भवप्रवाहोपरमं पदाम्बुजम्

॥३६॥

अप्यद्य नस्त्वं स्वकृतेहित प्रभो जिहाससि स्वित् सुहृदोऽनुजीविनः ।

येषां न चान्यत् भवतः पदाम्बुजात् परायणं राजसु योजितांहसाम्

॥३७॥

(अनुष्टुप्) के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः ।

भवतोऽदर्शनं यर्हि हृषीकाणां इव ईशितुः

॥३८॥

नेयं शोभिष्यते तत्र यथेदानीं गदाधर ।

त्वत्पदैः अङ्किता भाति स्वलक्षणविलक्षितैः

॥३९॥

इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः ।

वनाद्रि नदी उदन्वन्तो ह्येधन्ते तव वीक्षितैः

॥४०॥

अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे ।

स्नेहपाशं इमं छिन्धि दृढं पाण्डुषु वृष्णिषु

॥४१॥

त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् ।

रतिं उद्वहतात् अद्धा गङ्गेवौघं उदन्वति

॥४२॥

(वसंततिलका) श्रीकृष्ण कृष्णसख वृष्णि ऋषभावनिध्रुग् राजन्यवंशदहन अनपवर्ग वीर्य ।

गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन् नमस्ते

॥४३॥

सूत उवाच

(अनुष्टुप्) पृथयेत्थं कलपदैः परिणूताखिलोदयः ।

मन्दं जहास वैकुण्ठो मोहयन्निव मायया

॥४४॥

तां बाढं इति उपामंत्र्य प्रविश्य गजसाह्वयम् ।

स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः

॥४५॥

व्यासाद्यैरीश्वरेहा ज्ञैः कृष्णेनाद्भुतकर्मणा ।

प्रबोधितोऽपि इतिहासैः नाबुध्यत शुचार्पितः

॥४६॥

आह राजा धर्मसुतः चिन्तयन् सुहृदां वधम् ।

प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः

॥४७॥

अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः ।

पारक्यस्यैव देहस्य बह्व्यो मेऽक्षौहिणीर्हताः

॥४८॥

बालद्विजसुहृन् मित्र पितृभ्रातृगुरु द्रुहः ।

न मे स्यात् निरयात् मोक्षो ह्यपि वर्ष अयुत आयुतैः

॥४९॥

नैनो राज्ञः प्रजाभर्तुः धर्मयुद्धे वधो द्विषाम् ।

इति मे न तु बोधाय कल्पते शासनं वचः

॥५०॥

स्त्रीणां मत् हतबंधूनां द्रोहो योऽसौ इहोत्थितः ।

कर्मभिः गृहमेधीयैः नाहं कल्पो व्यपोहितुम्

॥५१॥

यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् ।

भूतहत्यां तथैवैकां न यज्ञैः मार्ष्टुमर्हति

॥५२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे कुन्तीस्तुतिर्युधिष्ठिरानुतापो नाम अष्टमोऽध्यायः ॥ ८ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ fr:Le Bhâgavata Purâna/Livre I/Chapitre 8