मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — प्रथमस्कन्धः, अध्याय १८

3
प्रथमस्कन्धः · 18

यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः

सूत उवाच

यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः ।

अनुग्रहाद् भगवतः कृष्णस्याद्भुतकर्मणः

॥१॥

ब्रह्मकोपोत्थिताद् यस्तु तक्षकात् प्राणविप्लवात् ।

न सम्मुमोहोरुभयाद् भगवत्यर्पिताशयः

॥२॥

उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः ।

वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम्

॥३॥

नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् ।

स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम्

॥४॥

तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वतः ।

यावदीशो महानुर्व्यां आभिमन्यव एकराट्

॥५॥

यस्मिन्नहनि यर्ह्येव भगवान् उत्ससर्ज गाम् ।

तदैवेहानुवृत्तोऽसौ अधर्मप्रभवः कलिः

॥६॥

नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् ।

कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत्

॥७॥

किं नु बालेषु शूरेण कलिना धीरभीरुणा ।

अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते

॥८॥

उपवर्णितमेतद् वः पुण्यं पारीक्षितं मया ।

वासुदेव कथोपेतं आख्यानं यदपृच्छत

॥९॥

या याः कथा भगवतः कथनीयोरुकर्मणः ।

गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः

॥१०॥

ऋषय ऊचुः

सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः ।

यस्त्वं शंससि कृष्णस्य मर्त्यानां अमृतं हि नः

॥११॥

कर्मण्यस्मिन् अनाश्वासे धूमधूम्रात्मनां भवान् ।

आपाययति गोविन्द पादपद्मासवं मधु

॥१२॥

तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।

भगवत् सङ्गिसंगस्य मर्त्यानां किमुताशिषः

॥१३॥

को नाम तृप्येद् रसवित्कथायां महत्तमैकान्त परायणस्य ।

नान्तं गुणानां अगुणस्य जग्मुः योगेश्वरा ये भवपाद्ममुख्याः

॥१४॥

तन्नो भवान् वै भगवत्प्रधानो महत्तमैकान्त परायणस्य ।

हरेरुदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन्

॥१५॥

स वै महाभागवतः परीक्षिद् येनापवर्गाख्यमदभ्रबुद्धिः ।

ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम्

॥१६॥

तन्नः परं पुण्यमसंवृतार्थं आख्यानमत्यद्भुत योगनिष्ठम् ।

आख्याह्यनन्ता चरितोपपन्नं पारीक्षितं भागवताभिरामम्

॥१७॥

सूत उवाच

अहो वयं जन्मभृतोऽद्य हास्म वृद्धानुवृत्त्यापि विलोमजाताः ।

दौष्कुल्यमाधिं विधुनोति शीघ्रं महत्तमानामभिधानयोगः

॥१८॥

कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्त परायणस्य ।

योऽनन्तशक्तिः भगवाननन्तो महद्गुणत्वाद् यमनन्तमाहुः

॥१९॥

एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य ।

हित्वेतरान् प्रार्थयतो विभूतिः यस्याङ्घ्रिरेणुं जुषतेऽनभीप्सोः

॥२०॥

अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः ।

सेशं पुनात्यन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः

॥२१॥

यत्रानुरक्ताः सहसैव धीरा व्यपोह्य देहादिषु सङ्गमूढम् ।

व्रजन्ति तत्पारमहंस्यमन्त्यं यस्मिन्नहिंसोपशमः स्वधर्मः

॥२२॥

अहं हि पृष्टोऽर्यमणो भवद्भिः आचक्ष आत्मावगमोऽत्र यावान् ।

नभः पतन्त्यात्मसमं पतत्त्रिणः तथा समं विष्णुगतिं विपश्चितः

॥२३॥

एकदा धनुरुद्यम्य विचरन्मृगयां वने ।

मृगाननुगतः श्रान्तः क्षुधितस्तृषितो भृशम्

॥२४॥

जलाशयमचक्षाणः प्रविवेश तमाश्रमम् ।

ददर्श मुनिमासीनं शान्तं मीलितलोचनम्

॥२५॥

प्रतिरुद्धेन्द्रियप्राण मनोबुद्धिमुपारतम् ।

स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम्

॥२६॥

विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च ।

विशुष्यत्तालुरुदकं तथाभूतमयाचत

॥२७॥

अलब्धतृणभूम्यादिः असम्प्राप्तार्घ्यसूनृतः ।

अवज्ञातं इवात्मानं मन्यमानश्चुकोप ह

॥२८॥

अभूतपूर्वः सहसा क्षुत्तृड्भ्यामर्दितात्मनः ।

ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च

॥२९॥

स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा ।

विनिर्गच्छन् धनुष्कोट्या निधाय पुरमागत्

॥३०॥

एष किं निभृताशेष करणो मीलितेक्षणः ।

मृषा समाधिराहोस्वित् किं नु स्यात् क्षत्रबन्धुभिः

॥३१॥

तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकैः ।

राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत्

॥३२॥

अहो अधर्मः पालानां पीव्नां बलिभुजामिव ।

स्वामिन्यघं यद् दासानां द्वारपानां शुनामिव

॥३३॥

ब्राह्मणैः क्षत्रबन्धुर्हि गृहपालो निरूपितः ।

स कथं तद्गृहे द्वाःस्थः सभाण्डं भोक्तुमर्हति

॥३४॥

कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् ।

तद् भिन्नसेतूनद्याहं शास्मि पश्यत मे बलम्

॥३५॥

इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषिबालकः ।

कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह

॥३६॥

इति लङ्घितमर्यादं तक्षकः सप्तमेऽहनि ।

दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम्

॥३७॥

ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् ।

पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह

॥३८॥

स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् ।

उन्मील्य शनकैर्नेत्रे दृष्ट्वा चांसे मृतोरगम्

॥३९॥

विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि ।

केन वा तेऽपकृतं इत्युक्तः स न्यवेदयत्

॥४०॥

निशम्य शप्तमतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजमभ्यनन्दत् ।

अहो बतांहो महदद्य ते कृतं अल्पीयसि द्रोह उरुर्दमो धृतः

॥४१॥

न वै नृभिर्नरदेवं पराख्यं सम्मातुमर्हस्यविपक्वबुद्धे ।

यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतोभयाः प्रजाः

॥४२॥

अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयमङ्ग लोकः ।

तदा हि चौरप्रचुरो विनङ्क्ष्यति अरक्ष्यमाणोऽविव रूथवत् क्षणात्

॥४३॥

तदद्य नः पापमुपैत्यनन्वयं यन्नष्टनाथस्य वसोर्विलुम्पकात् ।

परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थाम् पुरुदस्यवो जनाः

॥४४॥

तदाऽऽर्यधर्मः प्रविलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमयः ।

ततोऽर्थकामाभिनिवेशितात्मनां शुनां कपीनामिव वर्णसङ्करः

॥४५॥

धर्मपालो नरपतिः स तु सम्राड् बृहच्छ्रवाः ।

साक्षान् महाभागवतो राजर्षिर्हयमेधयाट्

॥४६॥

क्षुत्तृट्श्रमयुतो दीनो नैवास्मच्छापमर्हति

॥५॥

अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना ।

पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति

॥४७॥

तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि ।

नास्य तत्प्रतिकुर्वन्ति तद्भक्ताः प्रभवोऽपि हि

॥४८॥

इति पुत्रकृताघेन सोऽनुतप्तो महामुनिः ।

स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत्

॥४९॥

प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः ।

न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः

॥५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे विप्रशापोपलम्भनं नाम्ना अष्टादशोऽध्यायः ॥ १८ ॥

fr:Le Bhâgavata Purâna/Livre I/Chapitre 18