मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — प्रथमस्कन्धः, अध्याय २

3
प्रथमस्कन्धः · 2

प्रतिपूज्य वचस्तेषां प्रवक्तुं उपचक्रमे

व्यास उवाच

इति संप्रश्नसंहृष्टो विप्राणां रौमहर्षणिः ।

प्रतिपूज्य वचस्तेषां प्रवक्तुं उपचक्रमे

॥१॥

सूत उवाच

(वसंततिलका) यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव ।

पुत्रेति तन्मयतया तरवोऽभिनेदुः तं सर्वभूतहृदयं मुनिमानतोऽस्मि

॥२॥

यः स्वानुभावमखिल श्रुतिसारमेकं अध्यात्मदीपं अतितितीर्षतां तमोऽन्धम् ।

संसारिणां करुणयाऽऽह पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनाम्

॥३॥

(अनुष्टुप्) नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्

॥४॥

मुनयः साधु पृष्टोऽहं भवद्भिः लोकमङ्गलम् ।

यत्कृतः कृष्णसंप्रश्नो येनात्मा सुप्रसीदति

॥५॥

स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे ।

अहैतुक्यप्रतिहता ययात्मा संप्रसीदति

॥६॥

वासुदेवे भगवति भक्तियोगः प्रयोजितः ।

जनयत्याशु वैराग्यं ज्ञानं च यद् अहैतुकम्

॥७॥

धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः ।

नोत्पादयेद् यदि रतिं श्रम एव हि केवलम्

॥८॥

धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते ।

नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः

॥९॥

कामस्य नेन्द्रियप्रीतिः लाभो जीवेत यावता ।

जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः

॥१०॥

वदन्ति तत् तत्त्वविदः तत्त्वं यत् ज्ञानमद्वयम् ।

ब्रह्मेति परमात्मेति भगवानिति शब्द्यते

॥११॥

तत् श्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया ।

पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया

॥१२॥

अतः पुम्भिः द्विजश्रेष्ठा वर्णाश्रमविभागशः ।

स्वनुष्ठितस्य धर्मस्य संसिद्धिः हरितोषणम्

॥१३॥

तस्मादेकेन मनसा भगवान् सात्वतां पतिः ।

श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा

॥१४॥

यद् अदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम् ।

छिन्दन्ति कोविदास्तस्य को न कुर्यात् कथारतिम्

॥१५॥

शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः ।

स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात्

॥१६॥

श्रृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः ।

हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम्

॥१७॥

नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया ।

भगवति उत्तमश्लोके भक्तिर्भवति नैष्ठिकी

॥१८॥

तदा रजस्तमोभावाः कामलोभादयश्च ये ।

चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति

॥१९॥

एवं प्रसन्नमनसो भगवद्भक्तियोगतः ।

भगवत् तत्त्वविज्ञानं मुक्तसङ्गस्य जायते

॥२०॥

भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे

॥२१॥

अतो वै कवयो नित्यं भक्तिं परमया मुदा ।

वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम्

॥२२॥

(वसंततिलका) सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैः युक्तः परः पुरुष एक इहास्य धत्ते ।

स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोः नृणां स्युः

॥२३॥

(अनुष्टुप्) पार्थिवाद् दारुणो धूमः तस्मादग्निस्त्रयीमयः ।

तमसस्तु रजस्तस्मात् सत्त्वं यद् ब्रह्मदर्शनम्

॥२४॥

भेजिरे मुनयोऽथाग्रे भगवन्तं अधोक्षजम् ।

सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह

॥२५॥

मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ ।

नारायणकलाः शान्ता भजन्ति ह्यनसूयवः

॥२६॥

रजस्तमःप्रकृतयः समशीला भजन्ति वै ।

पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः

॥२७॥

वासुदेवपरा वेदा वासुदेवपरा मखाः ।

वासुदेवपरा योगा वासुदेवपराः क्रियाः

॥२८॥

वासुदेवपरं ज्ञानं वासुदेवपरं तपः ।

वासुदेवपरो धर्मो वासुदेवपरा गतिः

॥२९॥

स एवेदं ससर्जाग्रे भगवान् आत्ममायया ।

सद् असद् रूपया चासौ गुणमय्यागुणो विभुः

॥३०॥

तया विलसितेष्वेषु गुणेषु गुणवानिव ।

अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः

॥३१॥

यथा ह्यवहितो वह्निः दारुष्वेकः स्वयोनिषु ।

नानेव भाति विश्वात्मा भूतेषु च तथा पुमान्

॥३२॥

असौ गुणमयैर्भावैः भूत सूक्ष्मेन्द्रियात्मभिः ।

स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान्

॥३३॥

भावयत्येष सत्त्वेन लोकान्वै लोकभावनः ।

लीलावतारानुरतो देवतिर्यङ् नरादिषु

॥३४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने द्वितीयोऽध्यायः ॥ २ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ fr:Le Bhâgavata Purâna/Livre I/Chapitre 2