मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — प्रथमस्कन्धः, अध्याय ४

3
प्रथमस्कन्धः · 4

वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत्

व्यास उवाच

(अनुष्टुप्) इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् ।

वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत्

॥१॥

शौनक उवाच

सूत सूत महाभाग वद नो वदतां वर ।

कथां भागवतीं पुण्यां यदाह भगवान् शुकः

॥२॥

कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना ।

कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः

॥३॥

तस्य पुत्रो महायोगी समदृङ् निर्विकल्पकः ।

एकान्तमतिः उन्निद्रो गूढो मूढ इवेयते

॥४॥

(वसंततिलका) दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् ।

तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः

॥५॥

(अनुष्टुप्) कथमालक्षितः पौरैः संप्राप्तः कुरुजाङ्गलान् ।

उन्मत्तमूकजडवद् विचरन् गजसाह्वये

॥६॥

कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह ।

संवादः समभूत् तात यत्रैषा सात्वती श्रुतिः

॥७॥

स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् ।

अवेक्षते महाभागः तीर्थीकुर्वन् तदाश्रमम्

॥८॥

अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् ।

तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः

॥९॥

स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः ।

प्रायोपविष्टो गङ्गायां अनादृत्य अधिराट् श्रियम्

॥१०॥

(वंशस्थ) नमन्ति यत्पादनिकेतमात्मनः शिवाय हानीय धनानि शत्रवः ।

कथं स वीरः श्रियमङ्ग दुस्त्यजां युवैषतोत् स्रष्टुमहो सहासुभिः

॥११॥

शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनाः ।

जीवन्ति नात्मार्थमसौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम्

॥१२॥

(अनुष्टुप्) तत्सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन ।

मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात्

॥१३॥

सूत उवाच

द्वापरे समनुप्राप्ते तृतीये युगपर्यये ।

जातः पराशराद् योगी वासव्यां कलया हरेः

॥१४॥

स कदाचित् सरस्वत्या उपस्पृश्य जलं शुचिः ।

विविक्तदेश आसीन उदिते रविमण्डले

॥१५॥

परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा ।

युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे

॥१६॥

भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् ।

अश्रद्दधानान्निःसत्त्वान् दुर्मेधान् ह्रसितायुषः

॥१७॥

दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा ।

सर्ववर्णाश्रमाणां यद् दध्यौ हितममोघदृक्

॥१८॥

चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् ।

व्यदधाद् यज्ञसन्तत्यै वेदमेकं चतुर्विधम्

॥१९॥

ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः ।

इतिहासपुराणं च पञ्चमो वेद उच्यते

॥२०॥

तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः ।

वैशंपायन एवैको निष्णातो यजुषामुत

॥२१॥

अथर्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः ।

इतिहासपुराणानां पिता मे रोमहर्षणः

॥२२॥

त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा ।

शिष्यैः प्रशिष्यैः तत् शिष्यैः वेदास्ते शाखिनोऽभवन्

॥२३॥

त एव वेदा दुर्मेधैः धार्यन्ते पुरुषैर्यथा ।

एवं चकार भगवान् व्यासः कृपणवत्सलः

॥२४॥

स्त्रीशूद्रद्विजबंधूनां त्रयी न श्रुतिगोचरा ।

कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह ।

इति भारतमाख्यानं कृपया मुनिना कृतम्

॥२५॥

एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः ।

सर्वात्मकेनापि यदा नातुष्यत् हृदयं ततः

॥२६॥

नातिप्रसीदद् हृदयः सरस्वत्यास्तटे शुचौ ।

वितर्कयन् विविक्तस्थ इदं प्रोवाच धर्मवित्

॥२७॥

धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः ।

मानिता निर्व्यलीकेन गृहीतं चानुशासनम्

॥२८॥

भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः ।

दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत

॥२९॥

तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः ।

असंपम्पन्न इवाभाति ब्रह्मवर्चस्य सत्तमः

॥३०॥

किं वा भागवता धर्मा न प्रायेण निरूपिताः ।

प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः

॥३१॥

तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः ।

कृष्णस्य नारदोऽभ्यागाद् आश्रमं प्रागुदाहृतम्

॥३२॥

तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः ।

पूजयामास विधिवत् नारदं सुरपूजितम्

॥३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने चतुर्थोऽध्यायः ॥ ४ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ fr:Le Bhâgavata Purâna/Livre I/Chapitre 4