द्वादशस्कन्धार्थनिरूपणम्
सूत उवाच
(अनुष्टुप्) नमो धर्माय महते नमः कृष्णाय वेधसे ।
ब्रह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान्
॥१॥एतद् वः कथितं विप्रा विष्णोश्चरितमद्भुतम् ।
भवद्भिः यदहं पृष्टो नराणां पुरुषोचितम्
॥२॥अत्र सङ्कीर्तितः साक्षात् सर्वपापहरो हरिः ।
नारायणो हृषीकेशो भगवान् सात्वतां पतिः
॥३॥अत्र ब्रह्म परं गुह्यं जगतः प्रभवाप्ययम् ।
ज्ञानं च तदुपाख्यानं प्रोक्तं विज्ञानसंयुतम्
॥४॥भक्तियोगः समाख्यातो वैराग्यं च तदाश्रयम् ।
पारीक्षितं उपाख्यानं नारदाख्यानमेव च
॥५॥प्रायोपवेशो राजर्षेः विप्रशापात् परीक्षितः ।
शुकस्य ब्रह्मर्षभस्य संवादश्च परीक्षितः
॥६॥योगधारणयोत्क्रान्तिः संवादो नारदाजयोः ।
अवतारानुगीतं च सर्गः प्राधानिकोऽग्रतः
॥७॥विदुरोद्धवसंवादः क्षत्तृमैत्रेययोस्ततः ।
पुराणसंहिताप्रश्नो महापुरुषसंस्थितिः
॥८॥ततः प्राकृतिकः सर्गः सप्त वैकृतिकाश्च ये ।
ततो ब्रह्माण्डसम्भूतिः वैराजः पुरुषो यतः
॥९॥कालस्य स्थूलसूक्ष्मस्य गतिः पद्मसमुद्भवः ।
भुव उद्धरणेऽम्भोधेः हिरण्याक्षवधो यथा
॥१०॥ऊर्ध्वतिर्यगवाक्सर्गो रुद्रसर्गस्तथैव च ।
अर्धनारीश्वरस्याथ यतः स्वायंभुवो मनुः
॥११॥शतरूपा च या स्त्रीणां आद्या प्रकृतिरुत्तमा ।
सन्तानो धर्मपत्नीनां कर्दमस्य प्रजापतेः
॥१२॥अवतारो भगवतः कपिलस्य महात्मनः ।
देवहूत्याश्च संवादः कपिलेन च धीमता
॥१३॥नवब्रह्मसमुत्पत्तिः दक्षयज्ञविनाशनम् ।
ध्रुवस्य चरितं पश्चात् पृथोः प्राचीनबर्हिषः
॥१४॥नारदस्य च संवादः ततः प्रैयव्रतं द्विजाः ।
नाभेस्ततोऽनुचरितं ऋषभस्य भरतस्य च
॥१५॥द्वीपवर्षसमुद्राणां गिरिनद्युपवर्णनम् ।
ज्योतिश्चक्रस्य संस्थानं पातालनरकस्थितिः
॥१६॥दक्षजन्म प्रचेतोभ्यः तत्पुत्रीणां च सन्ततिः ।
यतो देवासुरनराः तिर्यङ्नगखगादयः
॥१७॥त्वाष्ट्रस्य जन्मनिधनं पुत्रयोश्च दितेर्द्विजाः ।
दैत्येश्वरस्य चरितं प्रह्रादस्य महात्मनः
॥१८॥मन्वन्तरानुकथनं गजेन्द्रस्य विमोक्षणम् ।
मन्वन्तरावताराश्च विष्णोर्हयशिरादयः
॥१९॥कौर्मं धान्वतरं मात्स्यं वामनं च जगत्पतेः ।
क्षीरोदमथनं तद्वद् अमृतार्थे दिवौकसाम्
॥२०॥देवासुरमहायुद्धं राजवंशानुकीर्तनम् ।
इक्ष्वाकुजन्म तद्वंशः सुद्युम्नस्य महात्मनः
॥२१॥इलोपाख्यानमत्रोक्तं तारोपाख्यानमेव च ।
सूर्यवंशानुकथनं शशादाद्या नृगादयः
॥२२॥सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः ।
खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च
॥२३॥रामस्य कोशलेन्द्रस्य चरितं किल्बिषापहम् ।
निमेरङ्गपरित्यागो जनकानां च सम्भवः
॥२४॥रामस्य भार्गवेन्द्रस्य निःक्षतृईकरणं भुवः ।
ऐलस्य सोमवंशस्य ययातेर्नहुषस्य च
॥२५॥दौष्मन्तेर्भरतस्यापि शान्तनोस्तत्सुतस्य च ।
ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशोऽनुकीर्तितः
॥२६॥यत्रावतीर्णो भगवान् कृष्णाख्यो जगदीश्वरः ।
वसुदेवगृहे जन्म ततो वृद्धिश्च गोकुले
॥२७॥तस्य कर्माण्यपाराणि कीर्तितान्यसुरद्विषः ।
पूतनासुपयःपानं शकटोच्चाटनं शिशोः
॥२८॥तृणावर्तस्य निष्पेषः तथैव बकवत्सयोः ।
धेनुकस्य सहभ्रातुः प्रलम्बस्य च संक्षयः
॥२९॥गोपानां च परित्राणं दावाग्नेः परिसर्पतः ।
दमनं कालियस्याहेः महाहेर्नन्दमोक्षणम्
॥३०॥व्रतचर्या तु कन्यानां यत्र तुष्टोऽच्युतो व्रतैः ।
प्रसादो यज्ञपत्नीभ्यो विप्राणां चानुतापनम्
॥३१॥गोवर्धनोद्धारणं च शक्रस्य सुरभेरथ ।
यज्ञभिषेकं कृष्णस्य स्त्रीभिः क्रीडा च रात्रिषु
॥३२॥शङ्खचूडस्य दुर्बुद्धेः वधोऽरिष्टस्य केशिनः ।
अक्रूरागमनं पश्चात् प्रस्थानं रामकृष्णयोः
॥३३॥व्रजस्त्रीणां विलापश्च मथुरालोकनं ततः ।
गजमुष्टिकचाणूर कंसादीनां तथा वधः
॥३४॥मृतस्यानयनं सूनोः पुनः सान्दीपनेर्गुरोः ।
मथुरायां निवसता यदुचक्रस्य यत्प्रियम् ।
कृतमुद्धवरामाभ्यां युतेन हरिणा द्विजाः
॥३५॥जरासन्धसमानीत सैन्यस्य बहुशो वधः ।
घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम्
॥३६॥आदानं पारिजातस्य सुधर्मायाः सुरालयात् ।
रुक्मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरेः
॥३७॥हरस्य जृम्भणं युद्धे बाणस्य भुजकृन्तनम् ।
प्राग्ज्योतिषपतिं हत्वा कन्यानां हरणं च यत्
॥३८॥चैद्यपौण्ड्रकशाल्वानां दन्तवक्रस्य दुर्मतेः ।
शम्बरो द्विविदः पीठो मुरः पञ्चजनादयः
॥३९॥माहात्म्यं च वधस्तेषां वाराणस्याश्च दाहनम् ।
भारावतरणं भूमेः निमित्तीकृत्य पाण्डवान्
॥४०॥विप्रशापापदेशेन संहारः स्वकुलस्य च ।
उद्धवस्य च संवादो वसुदेवस्य चाद्भुतः
॥४१॥यत्रात्मविद्या ह्यखिला प्रोक्ता धर्मविनिर्णयः ।
ततो मर्त्यपरित्याग आत्मयोगानुभावतः
॥४२॥युगलक्षणवृत्तिश्च कलौ नॄणामुपप्लवः ।
चतुर्विधश्च प्रलय उत्पत्तिस्त्रिविधा तथा
॥४३॥देहत्यागश्च राजर्षेः विष्णुरातस्य धीमतः ।
शाखाप्रणयनं ऋषेः मार्कण्डेयस्य सत्कथा ।
महापुरुषविन्यासः सूर्यस्य जगदात्मनः
॥४४॥इति चोक्तं द्विजश्रेष्ठा यत्पृष्टोऽहं इहास्मि वः ।
लीलावतारकर्माणि कीर्तितानीह सर्वशः
॥४५॥पतितः स्खलितश्चार्तः क्षुत्त्वा वा विवशो ब्रुवन् ।
हरये नम इत्युच्चैः मुच्यते सर्वपातकात्
॥४६॥(उपेंद्रवज्रा) सङ्कीर्त्यमानो भगवान् अनन्तः श्रुतानुभावो व्यसनं हि पुंसाम् ।
प्रविश्य चित्तं विधुनोत्यशेषं यथा तमोऽर्कोऽभ्रमिवातिवातः
॥४७॥(मिश्र-१२) मृषा गिरस्ता ह्यसतीरसत्कथा न कथ्यते यद्भगवानधोक्षजः ।
तदेव सत्यं तदुहैव मङ्गलं तदेव पुण्यं भगवद्गुणोदयम्
॥४८॥तदेव रम्यं रुचिरं नवं नवं तदेव शश्वन्मनसो महोत्सवम् ।
तदेव शोकार्णवशोषणं नृणां यदुत्तमःश्लोकयशोऽनुगीयते
॥४९॥न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् ।
तद् ध्वाङ्क्षतीर्थं न तु हंससेवितं यत्राच्युतस्तत्र हि साधवोऽमलाः
॥५०॥तद्वाग्विसर्गो जनताघसंप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।
नामान्यनन्तस्य यशोऽङ्कितानि यत् श्रृण्वन्ति गायन्ति गृणन्ति साधवः
॥५१॥नैष्कर्म्यमप्यच्युत भाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् ।
कुतः पुनः शश्वदभद्रमीश्वरे न ह्यर्पितं कर्म यदप्यनुत्तमम्
॥५२॥यशःश्रियामेव परिश्रमः परो वर्णाश्रमाचारतपःश्रुतादिषु ।
अविस्मृतिः श्रीधरपादपद्मयोः गुणानुवादश्रवणादरादिभिर्हरेः
॥५३॥(मिश्र-११,१२) अविस्मृतिः कृष्णपदारविन्दयोः क्षिणोत्यभद्राणि च शं तनोति च ।
सत्त्वस्य शुद्धिं परमात्मभक्तिं ज्ञानं च विज्ञानविरागयुक्तम्
॥५४॥(इंद्रवज्रा) यूयं द्विजाग्र्या बत भूरिभागा यच्छश्वदात्मन्यखिलात्मभूतम् ।
नारायणं देवमदेवमीशं अजस्रभावा भजताविवेश्य
॥५५॥(मिश्र-११,१२) अहं च संस्मारित आत्मतत्त्वं श्रुतं पुरा मे परमर्षिवक्त्रात् ।
प्रायोपवेशे नृपतेः परीक्षितः सदस्यृषीणां महतां च श्रृण्वताम्
॥५६॥(अनुष्टुप्) एतद्वः कथितं विप्राः कथनीयोरुकर्मणः ।
माहात्म्यं वासुदेवस्य सर्वाशुभविनाशनम्
॥५७॥य एतत्श्रावयेन्नित्यं यामक्षणमनन्यधीः ।
श्रद्धावान् योऽनुश्रृणुयात् पुनात्यात्मानमेव सः
॥५८॥द्वादश्यामेकादश्यां वा श्रृण्वन्नायुष्यवान् भवेत् ।
पठत्यनश्नन् प्रयतः ततो भवत्यपातकी
॥५९॥पुष्करे मथुरायां च द्वारवत्यां यतात्मवान् ।
उपोष्य संहितामेतां पठित्वा मुच्यते भयात्
॥६०॥देवता मुनयः सिद्धाः पितरो मनवो नृपाः ।
यच्छन्ति कामान् गृणतः श्रृण्वतो यस्य कीर्तनात्
॥६१॥ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते ।
मधुकुल्या घृतकुल्याः पयःकुल्याश्च तत्फलम्
॥६२॥पुराणसंहितां एतां अधीत्य प्रयतो द्विजः ।
प्रोक्तं भगवता यत्तु तत्पदं परमं व्रजेत्
॥६३॥विप्रोऽधीत्याप्नुयात् प्रज्ञां राजन्योदधिमेखलाम् ।
वैश्यो निधिपतित्वं च शूद्रः शुध्येत पातकात्
॥६४॥(unknown) कलिमलसंहतिकालनोऽखिलेशो हरिरितरत्र न गीयते ह्यभीक्ष्णम् ।
इह तु पुनर्भगवानशेषमूर्तिः परिपठितोऽनुपदं कथाप्रसङ्गैः
॥६५॥(पुष्पिताग्रा) तमहमजमनन्तमात्मतत्त्वं जगदुदयस्थितिसंयमात्मशक्तिम् ।
द्युपतिभिरजशक्रशङ्कराद्यैः दुरवसितस्तवमच्युतं नतोऽस्मि
॥६६॥उपचितनवशक्तिभिः स्व आत्मनि उपरचितस्थिरजङ्गमालयाय ।
भगवत उपलब्धिमात्रधाम्ने सुरऋषभाय नमः सनातनाय
॥६७॥(मालिनी) स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावोऽपि अजितरुचिरलीलाकृष्टसारस्तदीयम् ।
व्यतनुत कृपया यः तत्त्वदीपं पुराणं तमखिलवृजिनघ्नं व्याससूनुं नतोऽस्मि
॥६८॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे द्वादशस्कन्धार्थनिरूपणं नाम द्वादशोऽध्यायः ॥ १२ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु