मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — द्वादशस्कन्धः, अध्याय १३

3
द्वादशस्कन्धः · 13

पृष्ठे भ्राम्यदमन्दमन्दरगिरि ग्रावाग्रकण्डूयनान् निद्रालोः कमठाक…

सूत उवाच

(शार्दूलविक्रीडित) यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः ।

ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः

॥१॥

पृष्ठे भ्राम्यदमन्दमन्दरगिरि ग्रावाग्रकण्डूयनान् निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः ।

यत्संस्कारकलानुवर्तनवशाद् वेलानिभेनाम्भसां यातायातमतन्द्रितं जलनिधेः नाद्यापि विश्राम्यति

॥२॥

(अनुष्टुप्) पुराणसङ्ख्यासंभूतिं अस्य वाच्यप्रयोजने ।

दानं दानस्य माहात्म्यं पाठादेश्च निबोधत

॥३॥

ब्राह्मं दश सहस्राणि पाद्मं पञ्चोनषष्टि च ।

श्रीवैष्णवं त्रयोविंशत् चतुर्विंशति शैवकम्

॥४॥

दशाष्टौ श्रीभागवतं नारदं पञ्चविंशति ।

मार्कण्डं नव वाह्नं च दशपञ्च चतुःशतम्

॥५॥

चतुर्दश भविष्यं स्यात् तथा पञ्चशतानि च ।

दशाष्टौ ब्रह्मवैवर्तं लैङ्गमेकादशैव तु

॥६॥

चतुर्विंशति वाराहं एकाशीतिसहस्रकम् ।

स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम्

॥७॥

कौर्मं सप्तदशाख्यातं मात्स्यं तत्तु चतुर्दश ।

एकोनविंशत् सौपर्णं ब्रह्माण्डं द्वादशैव तु

॥८॥

एवं पुराणसन्दोहः चतुर्लक्ष उदाहृतः ।

तत्राष्टदशसाहस्रं श्रीभागवतं इष्यते

॥९॥

इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्कजे ।

स्थिताय भवभीताय कारुण्यात् संप्रकाशितम्

॥१०॥

आदिमध्यावसानेषु वैराग्याख्यानसंयुतम् ।

हरिलीलाकथाव्रात अमृतानन्दितसत्सुरम्

॥११॥

सर्ववेदान्तसारं यद् ब्रह्मात्मैकत्वलक्षणम् ।

वस्तु अद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम्

॥१२॥

प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् ।

ददाति यो भागवतं स याति परमां गतिम्

॥१३॥

राजन्ते तावदन्यानि पुराणानि सतां गणे ।

यावद् न दृष्यते साक्षात् श्रीमद् भागवतं परम्

॥१४॥

सर्ववेदान्तसारं हि श्रीभागवतमिष्यते ।

तद् रसामृततृप्तस्य नान्यत्र स्याद् रतिः क्वचित्

॥१५॥

निम्नगानां यथा गङ्गा देवानामच्युतो यथा ।

वैष्णवानां यथा शम्भुः पुराणानां इदं तथा

॥१६॥

क्षेत्राणां चैव सर्वेषां यथा काशी ह्यनुत्तमा ।

तथा पुराणव्रातानां श्रीमद्भागवतं द्विजाः

॥१७॥

(शार्दूलविक्रीडित) श्रीमद्भागवतं पुराणममलं यद्वैष्णवानां प्रियं यस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते ।

तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविस्कृतं तत् श्रृण्वन् विपठन् विचारणपरो भक्त्या विमुच्येन्नरः

॥१८॥

कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीपः पुरा तद् रूपेण च नारदाय मुनये कृष्णाय तद् रूपिणा ।

योगीन्द्राय तदात्मनाथ भगवत् राताय कारुण्यतः तच्छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि

॥१९॥

(अनुष्टुप्) नमस्तस्मै भगवते वासुदेवाय साक्षिणे ।

य इदं कृपया कस्मै व्याचचक्षे मुमुक्षवे

॥२०॥

योगीन्द्राय नमस्तस्मै शुकाय ब्रह्मरूपिणे ।

संसारसर्पदष्टं यो विष्णुरातममूमुचत्

॥२१॥

भवे भवे यथा भक्तिः पादयोस्तव जायते ।

तथा कुरुष्व देवेश नाथस्त्वं नो यतः प्रभो

॥२२॥

नामसङ्कीर्तनं यस्य सर्वपाप प्रणाशनम् ।

प्रणामो दुःखशमनः त नमामि हरिं परम्

॥२३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु