मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — द्वादशस्कन्धः, अध्याय ७

3
द्वादशस्कन्धः · 7

संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान्

सूत उवाच

(अनुष्टुप्) अथर्ववित्सुमन्तुश्च शिष्यम् अध्यापयत् स्वकाम् ।

संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान्

॥१॥

शौक्लायनिर्ब्रह्मबलिः मादोषः पिप्पलायनिः ।

वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो श्रृणु ।

कुमुदः शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित्

॥२॥

बभ्रुः शिष्योऽथांगिरसः सैन्धवायन एव च ।

अधीयेतां संहिते द्वे सावर्णाद्यास्तथापरे

॥३॥

नक्षत्रकल्पः शान्तिश्च कश्यपाङ्गिरसादयः ।

एते आथर्वणाचार्याः श्रृणु पौराणिकान् मुने

॥४॥

त्रय्यारुणिः कश्यपश्च सावर्णिः अकृतव्रणः ।

वैशंपायनहारीतौ षड् वै पौराणिका इमे

॥५॥

अधीयन्त व्यासशिष्यात् संहितां मत्पितुर्मुखात् ।

एकैकाम् अहमेतेषां शिष्यः सर्वाः समध्यगाम्

॥६॥

कश्यपोऽहं च सावर्णी रामशिष्योऽकृतव्रणः ।

अधीमहि व्यासशिष्यात् चत्वारो मूलसंहिताः

॥७॥

पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिः निरूपितम् ।

श्रृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः

॥८॥

सर्गोऽस्याथ विसर्गश्च वृत्तिरक्षान्तराणि च ।

वंशो वंशानुचरितं संस्था हेतुरपाश्रयः

॥९॥

दशभिः लक्षणैर्युक्तं पुराणं तद्विदो विदुः ।

केचित्पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया

॥१०॥

अव्याकृतगुणक्षोभान् महतस्त्रिवृतोऽहमः ।

भूतसूक्ष्मेन्द्रियार्थानां संभवः सर्ग उच्यते

॥११॥

पुरुषानुगृहीतानाम् एतेषां वासनामयः ।

विसर्गोऽयं समाहारो बीजाद्बीजं चराचरम्

॥१२॥

वृत्तिर्भूतानि भूतानां चराणाम् अचराणि च ।

कृता स्वेन नृणां तत्र कामात् चोदनयापि वा

॥१३॥

रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे ।

तिर्यङ्मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विषः

॥१४॥

मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वराः ।

ऋषयोंऽशावताराश्च हरेः षड्विधमुच्यते

॥१५॥

राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः ।

वंशानुचरितं तेषां वृत्तं वंशधराश्च ये

॥१६॥

नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः ।

संस्थेति कविभिः प्रोक्तः चतुर्धास्य स्वभावतः

॥१७॥

हेतुर्जीवोऽस्य सर्गादेः अविद्याकर्मकारकः ।

यं चानुशायिनं प्राहुः अव्याकृतमुतापरे

॥१८॥

व्यतिरेकान्वयो यस्य जाग्रत् स्वप्नसुषुप्तिषु ।

मायामयेषु तद्ब्रह्म जीववृत्तिष्वपाश्रयः

॥१९॥

पदार्थेषु यथा द्रव्यं सन्मात्रं रूपनामसु ।

बीजादिपञ्चतान्तासु ह्यवस्थासु युतायुतम्

॥२०॥

विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम् ।

योगेन वा तदात्मानं वेदेहाया निवर्तते

॥२१॥

एवं लक्षणलक्ष्याणि पुराणानि पुराविदः ।

मुनयोऽष्टादश प्राहुः क्षुल्लकानि महान्ति च

॥२२॥

ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं सगारुडं ।

नारदीयं भागवतं आग्नेयं स्कान्दसंज्ञितम्

॥२३॥

भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् ।

वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट्

॥२४॥

ब्रह्मन्निदं समाख्यातं शाखाप्रणयनं मुनेः ।

शिष्यशिष्यप्रशिष्याणां ब्रह्मतेजोविवर्धनम्

॥२५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु