मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — द्वादशस्कन्धः, अध्याय ८

3
द्वादशस्कन्धः · 8

तमस्यपारे भ्रमतां नॄणां त्वं पारदर्शनः

श्रीशौनक उवाच

(अनुष्टुप्) सूत जीव चिरं साधो वद नो वदतां वर ।

तमस्यपारे भ्रमतां नॄणां त्वं पारदर्शनः

॥१॥

आहुश्चिरायुषमृषिं मृकण्डुतनयं जनाः ।

यः कल्पान्ते उर्वरितो येन ग्रस्तमिदं जगत्

॥२॥

स वा अस्मत् कुलोत्पन्नः कल्पेऽस्मिन् भार्गवर्षभः ।

नैवाधुनापि भूतानां सम्प्लवः कोऽपि जायते

॥३॥

एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल ।

वटपत्रपुटे तोकं शयानं त्वेकमद्भुतम्

॥४॥

एष नः संशयो भूयान् सूत कौतूहलं यतः ।

तं नश्छिन्धि महायोगिन् पुराणेष्वपि सम्मतः

॥५॥

सूत उवाच

प्रश्नस्त्वया महर्षेऽयं कृतो लोकभ्रमापहः ।

नारायणकथा यत्र गीता कलिमलापहा

॥६॥

प्राप्तद्विजातिसंस्कारो मार्कण्डेयः पितुः क्रमात् ।

छन्दांस्यधीत्य धर्मेण तपःस्वाध्यायसंयुतः

॥७॥

बृहद्व्रतधरः शान्तो जटिलो वल्कलाम्बरः ।

बिभ्रत्कमण्डलुं दण्डमुपवीतं समेखलम्

॥८॥

कृष्णाजिनं साक्षसूत्रं कुशांश्च नियमर्द्धये ।

अग्न्यर्कगुरुविप्रात्मस्वर्चयन् सन्ध्ययोर्हरिम्

॥९॥

सायं प्रातः स गुरवे भैक्ष्यमाहृत्य वाग्यतः ।

बुभुजे गुर्वनुज्ञातः सकृन्नो चेदुपोषितः

॥१०॥

एवं तपःस्वाध्यायपरो वर्षाणामयुतायुतम् ।

आराधयन् हृषीकेशं जिग्ये मृत्युं सुदुर्जयम्

॥११॥

ब्रह्मा भृगुर्भवो दक्षो ब्रह्मपुत्राश्च ये परे ।

नृदेवपितृभूतानि तेनासन् अतिविस्मिताः

॥१२॥

इत्थं बृहद्व्रतधरः तपःस्वाध्यायसंयमैः ।

दध्यावधोक्षजं योगी ध्वस्तक्लेशान्तरात्मना

॥१३॥

तस्यैवं युञ्जतश्चित्तं महायोगेन योगिनः ।

व्यतीयाय महान् कालो मन्वन्तरषडात्मकः

॥१४॥

एतत् पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन् किलान्तरे ।

तपोविशङ्कितो ब्रह्मन् आरेभे तद्विघातनम्

॥१५॥

गन्धर्वाप्सरसः कामं वसन्तमलयानिलौ ।

मुनये प्रेषयामास रजस्तोकमदौ तथा

॥१६॥

ते वै तदाश्रमं जग्मुः हिमाद्रेः पार्श्व उत्तरे ।

पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो

॥१७॥

तदाश्रमपदं पुण्यं पुण्यद्रुमलताञ्चितम् ।

पुण्यद्विजकुलाकीर्णं पुण्यामलजलाशयम्

॥१८॥

मत्तभ्रमरसङ्गीतं मत्तकोकिलकूजितम् ।

मत्तबर्हिनटाटोपं मत्तद्विजकुलाकुलम्

॥१९॥

वायुः प्रविष्ट आदाय हिमनिर्झरशीकरान् ।

सुमनोभिः परिष्वक्तो ववावुत्तम्भयन् स्मरम्

॥२०॥

उद्यच्चन्द्रनिशावक्त्रः प्रवालस्तबकालिभिः ।

गोपद्रुमलताजालैः तत्रासीत् कुसुमाकरः

॥२१॥

अन्वीयमानो गन्धर्वैः गीतवादित्रयूथकैः ।

अदृश्यतात्तचापेषुः स्वःस्त्रीयूथपतिः स्मरः

॥२२॥

हुत्वाग्निं समुपासीनं ददृशुः शक्रकिङ्कराः ।

मीलिताक्षं दुराधर्षं मूर्तिमन्तमिवानलम्

॥२३॥

ननृतुस्तस्य पुरतः स्त्रियोऽथो गायका जगुः ।

मृदङ्गवीणापणवैः वाद्यं चक्रुर्मनोरमम्

॥२४॥

सन्दधेऽस्त्रं स्वधनुषि कामः पञ्चमुखं तदा ।

मधुर्मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन्

॥२५॥

क्रीडन्त्याः पुञ्जिकस्थल्याः कन्दुकैः स्तनगौरवात् ।

भृशमुद्विग्नमध्यायाः केशविस्रंसितस्रजः

॥२६॥

इतस्ततो भ्रमद्दृष्टेः चलन्त्या अनु कन्दुकम् ।

वायुर्जहार तद्वासः सूक्ष्मं त्रुटितमेखलम्

॥२७॥

विससर्ज तदा बाणं मत्वा तं स्वजितं स्मरः ।

सर्वं तत्राभवन् मोघमनीशस्य यथोद्यमः

॥२८॥

त इत्थमपकुर्वन्तो मुनेस्तत्तेजसा मुने ।

दह्यमाना निववृतुः प्रबोध्याहिमिवार्भकाः

॥२९॥

इतीन्द्रानुचरैर्ब्रह्मन् धर्षितोऽपि महामुनिः ।

यन्नागादहमो भावं न तच्चित्रं महत्सु हि

॥३०॥

दृष्ट्वा निस्तेजसं कामं सगणं भगवान् स्वराट् ।

श्रुत्वानुभावं ब्रह्मर्षेः विस्मयं समगात् परम्

॥३१॥

तस्यैवं युञ्जतश्चित्तं तपःस्वाध्यायसंयमैः ।

अनुग्रहायाविरासीत् नरनारायणो हरिः

॥३२॥

(मिश्र-१२) तौ शुक्लकृष्णौ नवकञ्जलोचनौ चतुर्भुजौ रौरववल्कलाम्बरौ ।

पवित्रपाणी उपवीतकं त्रिवृत् कमण्डलुं दण्डमृजुं च वैणवम्

॥३३॥

पद्माक्षमालामुत जन्तुमार्जनं वेदं च साक्षात् तप एव रूपिणौ ।

तपत् तडिद्वर्णपिशङ्गरोचिषा प्रांशू दधानौ विबुधर्षभार्चितौ

॥३४॥

(अनुष्टुप्) ते वै भगवतो रूपे नरनारायणौ ऋषी ।

दृष्ट्वोत्थायादरेणोच्चैः ननामाङ्गेन दण्डवत्

॥३५॥

स तत् सन्दर्शनानन्द निर्वृतात्मेन्द्रियाशयः ।

हृष्टरोमाश्रुपूर्णाक्षो न सेहे तावुदीक्षितुम्

॥३६॥

उत्थाय प्राञ्जलिः प्रह्व औत्सुक्यादाश्लिषन्निव ।

नमो नम इतीशानौ बभाषे गद्गदाक्षरम्

॥३७॥

तयोरासनमादाय पादयोरवनिज्य च ।

अर्हणेनानुलेपेन धूपमाल्यैरपूजयत्

॥३८॥

सुखमासनमासीनौ प्रसादाभिमुखौ मुनी ।

पुनरानम्य पादाभ्यां गरिष्ठाविदमब्रवीत्

॥३९॥

श्रीमार्कण्डेय उवाच

(वसंततिलका) किं वर्णये तव विभो यदुदीरितोऽसुः संस्पन्दते तमनु वाङ्मन इन्द्रियाणि ।

स्पन्दन्ति वै तनुभृतामजशर्वयोश्च स्वस्याप्यथापि भजतामसि भावबन्धुः

॥४०॥

मूर्ती इमे भगवतो भगवन् त्रिलोक्याः क्षेमाय तापविरमाय च मृत्युजित्यै ।

नाना बिभर्ष्यवितुमन्यतनूर्यथेदं सृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभिः

॥४१॥

तस्यावितुः स्थिरचरेशितुरङ्घ्रिमूलं यत्स्थं न कर्मगुणकालरुजः स्पृशन्ति ।

यद्वै स्तुवन्ति निनमन्ति यजन्त्यभीक्ष्णं ध्यायन्ति वेदहृदया मुनयस्तदाप्त्यै

॥४२॥

नान्यं तवाङ्घ्र्युपनयादपवर्गमूर्तेः क्षेमं जनस्य परितोभिय ईश विद्मः ।

ब्रह्मा बिभेत्यलमतो द्विपरार्धधिष्ण्यः कालस्य ते किमुत तत्कृतभौतिकानाम्

॥४३॥

तद् वै भजाम्यृतधियस्तव पादमूलं हित्वेदमात्मच्छदि चात्मगुरोः परस्य ।

देहाद्यपार्थमसदन्त्यमभिज्ञमात्रं विन्देत ते तर्हि सर्वमनीषितार्थम्

॥४४॥

सत्त्वं रजस्तम इतीश तवात्मबन्धो मायामयाः स्थितिलयोदयहेतवोऽस्य ।

लीला धृता यदपि सत्त्वमयी प्रशान्त्यै नान्ये नृणां व्यसनमोहभियश्च याभ्याम्

॥४५॥

तस्मात्तवेह भगवन्नथ तावकानां शुक्लां तनुं स्वदयितां कुशला भजन्ति ।

यत्सात्वताः पुरुषरूपमुशन्ति सत्त्वं लोको यतोऽभयमुतात्मसुखं न चान्यत्

॥४६॥

तस्मै नमो भगवते पुरुषाय भूम्ने विश्वाय विश्वगुरवे परदैवतायै ।

नारायणाय ऋषये च नरोत्तमाय हंसाय संयतगिरे निगमेश्वराय

॥४७॥

यं वै न वेद वितथाक्षपथैर्भ्रमद्धीः सन्तं स्वखेष्वसुषु हृद्यपि दृक्पथेषु ।

तन्माययावृतमतिः स उ एव साक्षाद् आद्यस्तवाखिलगुरोरुपसाद्य वेदम्

॥४८॥

यद्दर्शनं निगम आत्मरहःप्रकाशं मुह्यन्ति यत्र कवयोऽजपरा यतन्तः ।

तं सर्ववादविषयप्रतिरूपशीलं वन्दे महापुरुषमात्मनिगूढबोधम्

॥४९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु