मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — द्वादशस्कन्धः, अध्याय ५

3
द्वादशस्कन्धः · 5

ब्रह्मोपदेशः

श्रीशुक उवाच

(अनुष्टुप्) अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान् हरिः ।

यस्य प्रसादजो ब्रह्मा रुद्रः क्रोधसमुद्भवः

॥१॥

त्वं तु राजन् मरिष्येति पशुबुद्धिमिमां जहि ।

न जातः प्रागभूतोऽद्य देहवत्त्वं न नङ्क्ष्यसि

॥२॥

न भविष्यसि भूत्वा त्वं पुत्रपौत्रादिरूपवान् ।

बीजाङ्कुरवद् देहादेः व्यतिरिक्तो यथानलः

॥३॥

स्वप्ने यथा शिरश्छेदं पञ्चत्वाद्यात्मनः स्वयम् ।

यस्मात्पश्यति देहस्य तत आत्मा ह्यजोऽमरः

॥४॥

घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा ।

एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः

॥५॥

मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः ।

तन्मनः सृजते माया ततो जीवस्य संसृतिः

॥६॥

स्नेहाधिष्ठानवर्त्यग्नि संयोगो यावदीयते ।

ततो दीपस्य दीपत्वं एवं देहकृतो भवः ।

रजःसत्त्वतमोवृत्त्या जायतेऽथ विनश्यति

॥७॥

न तत्रात्मा स्वयंज्योतिः यो व्यक्ताव्यक्तयोः परः ।

आकाश इव चाधारो ध्रुवोऽनन्तोपमस्ततः

॥८॥

एवमात्मानमात्मस्थम् आत्मनैवामृश प्रभो ।

बुद्ध्यानुमानगर्भिण्या वासुदेवानुचिन्तया

॥९॥

चोदितो विप्रवाक्येन न त्वां धक्ष्यति तक्षकः ।

मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युमीश्वरम्

॥१०॥

अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् ।

एवं समीक्ष्य चात्मानम् आत्मन्याधाय निष्कले

॥११॥

दशन्तं तक्षकं पादे लेलिहानं विषाननैः ।

न द्रक्ष्यसि शरीरं च विश्वं च पृथगात्मनः

॥१२॥

एतत्ते कथितं तात यदात्मा पृष्टवान् नृप ।

हरेर्विश्वात्मनश्चेष्टां किं भूयः श्रोतुमिच्छसि

॥१३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे ब्रह्मोपदेशो नाम पंचमोऽध्यायः ॥ ५ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु