मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — द्वादशस्कन्धः, अध्याय ४

3
द्वादशस्कन्धः · 4

कथितो युगमानं च श्रृणु कल्पलयावपि

श्रीशुक उवाच

(अनुष्टुप्) कालस्ते परमाण्वादिः द्विपरार्धावधिर्नृप ।

कथितो युगमानं च श्रृणु कल्पलयावपि

॥१॥

चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते ।

स कल्पो यत्र मनवः चतुर्दश विशांपते

॥२॥

तदन्ते प्रलयस्तावान् ब्राह्मी रात्रिरुदाहृता ।

त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि ।

एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक् ।

शेतेऽनन्तासनो विश्वं आत्मसात् कृत्य चात्मभूः

॥४॥

द्विपरार्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः ।

तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै

॥५॥

एष प्राकृतिको राजन् प्रलयो यत्र लीयते ।

अण्डकोषस्तु सङ्घातो विघाट उपसादिते

॥६॥

पर्जन्यः शतवर्षाणि भूमौ राजन्न वर्षति ।

तदा निरन्ने ह्यन्योन्यं भक्ष्यमाणाः क्षुधार्दिताः

॥७॥

क्षयं यास्यन्ति शनकैः कालेनोपद्रुताः प्रजाः ।

सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः

॥८॥

रश्मिभिः पिबते घोरैः सर्वं नैव विमुञ्चति ततः संवर्तको वह्निः सङ्कर्षणमुखोत्थितः

॥९॥

दहत्यनिलवेगोत्थः शून्यान् भूविवरानथ ।

उपर्यधः समन्ताच्च शिखाभिर्वह्निसूर्ययोः

॥१०॥

दह्यमानं विभात्यण्डं दग्धगोमयपिण्डवत् ।

ततः प्रचण्डपवनो वर्षाणामधिकं शतम्

॥११॥

परः सांवर्तको वाति धूम्रं खं रजसाऽऽवृतम् ।

ततो मेघकुलान्यङ्ग चित्र वर्णान्यनेकशः

॥१२॥

शतं वर्षाणि वर्षन्ति नदन्ति रभसस्वनैः ।

तत एकोदकं विश्वं ब्रह्माण्डविवरान्तरम्

॥१३॥

तदा भूमेर्गन्धगुणं ग्रसन्त्याप उदप्लवे ।

ग्रस्तगन्धा तु पृथिवी प्रलयत्वाय कल्पते

॥१४॥

अपां रसमथो तेजः ता लीयन्तेऽथ नीरसाः ।

ग्रसते तेजसो रूपं वायुस्तद्रहितं तदा

॥१५॥

लीयते चानिले तेजो वायोः खं ग्रसते गुणम् ।

स वै विशति खं राजन् ततश्च नभसो गुणम्

॥१६॥

शब्दं ग्रसति भूतादिः नभस्तमनु लीयते ।

तैजसश्चेन्द्रियाण्यङ्ग देवान्वैकारिको गुणैः

॥१७॥

महान् ग्रसत्यहङ्कारं गुणाः सत्त्वादयश्च तम् ।

ग्रसतेऽव्याकृतं राजन् गुणान् कालेन चोदितम्

॥१८॥

न तस्य कालावयवैः परिणामादयो गुणाः ।

अनाद्यनन्तमव्यक्तं नित्यं कारणमव्ययम्

॥१९॥

(मिश्र-११) न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महदादयोऽमी ।

न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः

॥२०॥

न स्वप्नजाग्रन्न च तत्सुषुप्तं न खं जलं भूरनिलोऽग्निरर्कः ।

संसुप्तवत् शून्यवदप्रतर्क्यं तन्मूलभूतं पदमामनन्ति

॥२१॥

(अनुष्टुप्) लयः प्राकृतिको ह्येष पुरुषाव्यक्तयोर्यदा ।

शक्तयः सम्प्रलीयन्ते विवशाः कालविद्रुताः

॥२२॥

बुद्धीन्द्रियार्थरूपेण ज्ञानं भाति तदाश्रयम् ।

दृश्यत्वाव्यतिरेकाभ्यां आद्यन्तवदवस्तु यत्

॥२३॥

दीपश्चक्षुश्च रूपं च ज्योतिषो न पृथग्भवेत् ।

एवं धीः खानि मात्राश्च न स्युरन्यतमादृतात्

॥२४॥

बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति चोच्यते ।

मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि

॥२५॥

यथा जलधरा व्योम्नि भवन्ति न भवन्ति च ।

ब्रह्मणीदं तथा विश्वमवयव्युदयाप्ययात्

॥२६॥

सत्यं ह्यवयवः प्रोक्तः सर्वावयविनामिह ।

विनार्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः

॥२७॥

यत्सामान्यविशेषाभ्यां उपलभ्येत स भ्रमः ।

अन्योन्यापाश्रयात् सर्वमाद्यन्तवदवस्तु यत्

॥२८॥

विकारः ख्यायमानोऽपि प्रत्यगात्मानमन्तरा ।

न निरूप्योऽस्त्यणुरपि स्याच्चेच्चित्सम आत्मवत्

॥२९॥

न हि सत्यस्य नानात्वमविद्वान्यदि मन्यते ।

नानात्वं छिद्रयोर्यद्वत् ज्योतिषोर्वातयोरिव

॥३०॥

(मिश्र-१२) यथा हिरण्यं बहुधा समीयते नृभिः क्रियाभिर्व्यवहारवर्त्मसु ।

एवं वचोभिर्भगवानधोक्षजो व्याख्यायते लौकिकवैदिकैर्जनैः

॥३१॥

यथा घनोऽर्कप्रभवोऽर्कदर्शितो ह्यर्कांशभूतस्य च चक्षुषस्तमः ।

एवं त्वहं ब्रह्मगुणस्तदीक्षितो ब्रह्मांशकस्यात्मन आत्मबन्धनः

॥३२॥

घनो यदार्कप्रभवो विदीर्यते चक्षुः स्वरूपं रविमीक्षते तदा ।

यदा ह्यहङ्कार उपाधिरात्मनो जिज्ञासया नश्यति तर्ह्यनुस्मरेत्

॥३३॥

यदैवमेतेन विवेकहेतिना मायामयाहङ्करणात्मबन्धनम् ।

छित्त्वाच्युतात्मानुभवोऽवतिष्ठते तमाहुरात्यन्तिकमङ्ग सम्प्लवम्

॥३४॥

(अनुष्टुप्) नित्यदा सर्वभूतानां ब्रह्मादीनां परन्तप ।

उत्पत्तिप्रलयौ एके सूक्ष्मज्ञाः सम्प्रचक्षते

॥३५॥

कालस्रोतोजवेनाशु ह्रियमाणस्य नित्यदा ।

परिणामिनामवस्थास्ता जन्मप्रलयहेतवः

॥३६॥

अनाद्यन्तवतानेन कालेनेश्वरमूर्तिना ।

अवस्था नैव दृश्यन्ते वियति ज्योतिषामिव

॥३७॥

नित्यो नैमित्तिकश्चैव तथा प्राकृतिको लयः ।

आत्यन्तिकश्च कथितः कालस्य गतिरीदृशी

॥३८॥

(मिश्र-११) एताः कुरुश्रेष्ठ जगद्विधातुः नारायणस्याखिलसत्त्वधाम्नः ।

लीलाकथास्ते कथिताः समासतः कार्त्स्न्येन नाजोऽप्यभिधातुमीशः

॥३९॥

(वसंततिलका) संसारसिन्धुमतिदुस्तरमुत्तितीर्षोः नान्यः प्लवो भगवतः पुरुषोत्तमस्य ।

लीलाकथारसनिषेवणमन्तरेण पुंसो भवेद्विविधदुःखदवार्दितस्य

॥४०॥

(अनुष्टुप्) पुराणसंहितामेताम् ऋषिर्नारायणोऽव्ययः ।

नारदाय पुरा प्राह कृष्णद्वैपायनाय सः

॥४१॥

स वै मह्यं महाराज भगवान् बादरायणः ।

इमां भागवतीं प्रीतः संहितां वेदसम्मिताम्

॥४२॥

इमां वक्ष्यत्यसौ सूत ऋषिभ्यो नैमिषालये ।

दीर्घसत्रे कुरुश्रेष्ठ सम्पृष्टः शौनकादिभिः

॥४३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु