मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — द्वादशस्कन्धः, अध्याय ९

3
द्वादशस्कन्धः · 9

मायादर्शनम्

सूत उवाच

(अनुष्टुप्) संस्तुतो भगवानित्थं मार्कण्डेयेन धीमता ।

नारायणो नरसखः प्रीत आह भृगूद्वहम्

॥१॥

श्रीभगवानुवाच

भो भो ब्रह्मर्षिवर्योऽसि सिद्ध आत्मसमाधिना ।

मयि भक्त्यानपायिन्या तपःस्वाध्यायसंयमैः

॥२॥

वयं ते परितुष्टाः स्म त्वद्बृहद्व्रतचर्यया ।

वरं प्रतीच्छ भद्रं ते वरदेशादभीप्सितम्

॥३॥

श्रीऋषिरुवाच

जितं ते देवदेवेश प्रपन्नार्तिहराच्युत ।

वरेणैतावतालं नो यद् भवान् समदृश्यत

॥४॥

गृहीत्वाजादयो यस्य श्रीमत् पादाब्जदर्शनम् ।

मनसा योगपक्वेन स भवान् मेऽक्षगोचरः

॥५॥

अथाप्यम्बुजपत्राक्ष पुण्यश्लोकशिखामणे ।

द्रक्ष्ये मायां यया लोकः सपालो वेद सद्भिदाम्

॥६॥

सूत उवाच

इतीडितोऽर्चितः कामम् ऋषिणा भगवान् मुने ।

तथेति स स्मयन् प्रागाद् बदर्याश्रममीश्वरः

॥७॥

तमेव चिन्तयन्नर्थम् ऋषिः स्वाश्रम एव सः ।

वसन् अग्न्यर्कसोमाम्बु भूवायुवियदात्मसु

॥८॥

ध्यायन् सर्वत्र च हरिं भावद्रव्यैरपूजयत् ।

क्वचित् पूजां विसस्मार प्रेमप्रसरसम्प्लुतः

॥९॥

तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे मुनेः ।

उपासीनस्य सन्ध्यायां ब्रह्मन् वायुरभून्महान्

॥१०॥

(मिश्र-११) तं चण्डशब्दं समुदीरयन्तं बलाहका अन्वभवन् करालाः ।

अक्षस्थविष्ठा मुमुचुस्तडिद्भिः स्वनन्त उच्चैरभिवर्षधाराः

॥११॥

ततो व्यदृश्यन्त चतुःसमुद्राः समन्ततः क्ष्मातलमाग्रसन्तः ।

समीरवेगोर्मिभिरुग्रनक्र- महाभयावर्तगभीरघोषाः

॥१२॥

(मिश्र-१२) अन्तर्बहिश्चाद्भिरतिद्युभिः खरैः शतह्रदाभिरुपतापितं जगत् ।

चतुर्विधं वीक्ष्य सहात्मना मुनिः जलाप्लुतां क्ष्मां विमनाः समत्रसत्

॥१३॥

तस्यैवमुद्वीक्षत ऊर्मिभीषणः प्रभञ्जनाघूर्णितवार्महार्णवः ।

आपूर्यमाणो वरषद्भिरम्बुदैः क्ष्मामप्यधाद् द्वीपवर्षाद्रिभिः समम्

॥१४॥

सक्ष्मान्तरिक्षं सदिवं सभागणं त्रैलोक्यमासीत् सह दिग्भिराप्लुतम् ।

स एक एवोर्वरितो महामुनिः बभ्राम विक्षिप्य जटा जडान्धवत्

॥१५॥

क्षुत्तृट्परीतो मकरैस्तिमिङ्गिलैः उपद्रुतो वीचिनभस्वताहतः ।

तमस्यपारे पतितो भ्रमन् दिशो न वेद खं गां च परिश्रमेषितः

॥१६॥

(अनुष्टुप्) क्वचिद् गतो महावर्ते तरलैस्ताडितः क्वचित् ।

यादोभिर्भक्ष्यते क्वापि स्वयं अन्योन्यघातिभिः

॥१७॥

क्वचिच्छोकं क्वचिन्मोहं क्वचिद् दुखं सुखं भयम् ।

क्वचित् मृत्युमवाप्नोति व्याध्यादिभिरुतार्दितः

॥१८॥

अयुतायतवर्षाणां सहस्राणि शतानि च ।

व्यतीयुर्भ्रमतः तस्मिन् विष्णुमायावृतात्मनः

॥१९॥

स कदाचिद् भ्रमन् तस्मिन् पृथिव्याः ककुदि द्विजः ।

न्याग्रोधपोतं ददृशे फलपल्लवशोभितम्

॥२०॥

प्रागुत्तरस्यां शाखायां तस्यापि ददृशे शिशुम् ।

शयानं पर्णपुटके ग्रसन्तं प्रभया तमः

॥२१॥

महामरकतश्यामं श्रीमद्वदनपङ्कजम् ।

कम्बुग्रीवं महोरस्कं सुनासं सुन्दरभ्रुवम्

॥२२॥

श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिमम् ।

विद्रुमाधरभासेषत् शोणायित सुधास्मितम्

॥२३॥

पद्मगर्भारुणापाङ्गं हृद्यहासावलोकनम् ।

श्वासैजद्बलिसंविग्ननिम्ननाभिदलोदरम्

॥२४॥

चार्वङ्गुलिभ्यां पाणिभ्याम् उन्नीय चरणाम्बुजम् ।

मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः

॥२५॥

(मिश्र-१२) तद्दर्शनाद् वीतपरिश्रमो मुदा प्रोत्फुल्लहृत्पद्मविलोचनाम्बुजः ।

प्रहृष्टरोमाद्भुतभावशङ्कितः प्रष्टुं पुरस्तं प्रससार बालकम्

॥२६॥

तावच्छिशोर्वै श्वसितेन भार्गवः सोऽन्तः शरीरं मशको यथाविशत् ।

तत्राप्यदो न्यस्तमचष्ट कृत्स्नशो यथा पुरामुह्यदतीव विस्मितः

॥२७॥

खं रोदसी भागणानद्रिसागरान् द्वीपान् सवर्षान् ककुभः सुरासुरान् ।

वनानि देशान् सरितः पुराकरान् खेटान् व्रजानाश्रमवर्णवृत्तयः

॥२८॥

महान्ति भूतान्यथ भौतिकान्यसौ कालं च नानायुग कल्पकल्पनम् ।

यत्किञ्चिदन्यद् व्यवहारकारणं ददर्श विश्वं सदिवावभासितम्

॥२९॥

(मिश्र ११-१२) हिमालयं पुष्पवहां च तां नदीं निजाश्रमं तत्र ऋषीन् अपश्यत ।

विश्वं विपश्यञ्छ्वसिताच्छिशोर्वै बहिर्निरस्तो न्यपतल्लयाब्धौ

॥३०॥

(मिश्र-११) तस्मिन् पृथिव्याः ककुदि प्ररूढं वटं च तत्पर्णपुटे शयानम् ।

तोकं च तत्प्रेमसुधास्मितेन निरीक्षितोऽपाङ्गनिरीक्षणेन

॥३१॥

(अनुष्टुप्) अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि ।

अभ्ययादतिसङ्क्लिष्टः परिष्वक्तुं अधोक्षजम्

॥३२॥

तावत्स भगवान् साक्षात् योगाधीशो गुहाशयः ।

अन्तर्दधे ऋषेः सद्यो यथेहानीशनिर्मिता

॥३३॥

तमन्वथ वटो ब्रह्मन् सलिलं लोकसम्प्लवः ।

तिरोधायि क्षणादस्य स्वाश्रमे पूर्ववन् स्थितः

॥३४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे मायादर्शनं नाम नवमोऽध्यायः ॥ ९ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु