मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — द्वादशस्कन्धः, अध्याय ३

3
द्वादशस्कन्धः · 3

अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः

श्रीशुक उवाच

(अनुष्टुप्) दृष्ट्वाऽऽत्मनि जये व्यग्रान् नृपान् हसति भूरियम् ।

अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः

॥१॥

काम एष नरेन्द्राणां मोघः स्याद् विदुषामपि ।

येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपाः

॥२॥

पूर्वं निर्जित्य षड्वर्गं जेष्यामो राजमन्त्रिणः ।

ततः सचिवपौराप्तकरीन्द्रानस्य कण्टकान्

॥३॥

एवं क्रमेण जेष्यामः पृथ्वीं सागरमेखलाम् ।

इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम्

॥४॥

समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा ।

कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम्

॥५॥

यां विसृज्यैव मनवः तत्सुताश्च कुरूद्वह ।

गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धयः

॥६॥

मत्कृते पितृपुत्राणां भ्रातृणां चापि विग्रहः ।

जायते ह्यसतां राज्ये ममता-बद्धचेतसाम्

॥७॥

ममैवेयं मही कृत्स्ना न ते मूढेति वादिनः ।

स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपाः

॥८॥

पृथुः पुरूरवा गाधिः नहुषो भरतोऽर्जुनः ।

मान्धाता सगरो रामः खट्वाङ्गो धुन्धुहा रघुः

॥९॥

तृणबिन्दुर्ययातिश्च शर्यातिः शन्तनुर्गयः ।

भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः

॥१०॥

हिरण्यकशिपुर्वृत्रो रावणो लोकरावणः ।

नमुचिः शम्बरो भौमो हिरण्याक्षोऽथ तारकः

॥११॥

अन्ये च बहवो दैत्या राजानो ये महेश्वराः ।

सर्वे सर्वविदः शूराः सर्वे सर्वजितोऽजिताः

॥१२॥

ममतां मय्यवर्तन्त कृत्वोच्चैर्मर्त्यधर्मिणः ।

कथावशेषाः कालेन ह्यकृतार्थाः कृता विभो

॥१३॥

(मिश्र-१२) कथा इमास्ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम् ।

विज्ञानवैराग्यविवक्षया विभो वचोविभूतीर्न तु पारमार्थ्यम्

॥१४॥

(इंद्रवज्रा) यस्तु उत्तमश्लोकगुणानुवादः संगीयतेऽभीक्ष्णममङ्गलघ्नः ।

तमेव नित्यं श्रृणुयादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समानः

॥१५॥

श्रीराजोवाच

(अनुष्टुप्) केनोपायेन भगवन् कलेर्दोषान् कलौ जनाः ।

विधमिष्यन्त्युपचितान् तन्मे ब्रूहि यथा मुने

॥१६॥

युगानि युगधर्मांश्च मानं प्रलयकल्पयोः ।

कालस्येश्वररूपस्य गतिं विष्णोर्महात्मनः

॥१७॥

श्रीशुक उवाच

कृते प्रवर्तते धर्मः चतुष्पात् तज्जनैर्धृतः ।

सत्यं दया तपो दानं इति पादा विभोर्नृप

॥१८॥

सन्तुष्टाः करुणा मैत्राः शान्ता दान्ताः तितिक्षवः ।

आत्मारामाः समदृशः प्रायशः श्रमणा जनाः

॥१९॥

त्रेतायां धर्मपादानां तुर्यांशो हीयते शनैः ।

अधर्मपादैः अनृत हिंसासंतोषविग्रहैः

॥२०॥

तदा क्रियातपोनिष्ठा नातिहिंस्रा न लम्पटाः ।

त्रैवर्गिकास्त्रयीवृद्धा वर्णा ब्रह्मोत्तरा नृप

॥२१॥

तपःसत्यदयादानेषु अर्धं ह्रस्वति द्वापरे ।

हिंसातुष्ट्यनृतद्वेषैः धर्मस्याधर्मलक्षणैः

॥२२॥

यशस्विनो महाशीलाः स्वाध्यायाध्ययने रताः ।

आढ्याः कुटुम्बिनो हृष्टा वर्णाः क्षत्रद्विजोत्तराः

॥२३॥

कलौ तु धर्महेतूनां तुर्यांशोऽधर्महेतुभिः ।

एधमानैः क्षीयमाणो ह्यन्ते सोऽपि विनङ्क्ष्यति

॥२४॥

तस्मिन् लुब्धा दुराचारा निर्दयाः शुष्कवैरिणः ।

दुर्भगा भूरितर्षाश्च शूद्रदासोत्तराः प्रजाः

॥२५॥

सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः ।

कालसञ्चोदितास्ते वै परिवर्तन्त आत्मनि

॥२६॥

प्रभवन्ति यदा सत्त्वे मनोबुद्धीन्द्रियाणि च ।

तदा कृतयुगं विद्यात् ज्ञाने तपसि यद्रुचिः

॥२७॥

यदा धर्मार्थ कामेषु भक्तिर्यशसि देहिनाम् ।

तदा त्रेता रजोवृत्तिः इति जानीहि बुद्धिमन्

॥२८॥

यदा लोभस्तु असन्तोषो मानो दम्भोऽथ मत्सरः ।

कर्मणां चापि काम्यानां द्वापरं तद् रजस्तमः

॥२९॥

यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् ।

शोकमोहौ भयं दैन्यं स कलिस्तामसः स्मृतः

॥३०॥

यस्मात् क्षुद्रदृशो मर्त्याः क्षुद्रभाग्या महाशनाः ।

कामिनो वित्तहीनाश्च स्वैरिण्यश्च स्त्रियोऽसतीः

॥३१॥

दस्यूत्कृष्टा जनपदा वेदाः पाषण्डदूषिताः ।

राजानश्च प्रजाभक्षाः शिश्नोदरपरा द्विजाः

॥३२॥

अव्रता वटवोऽशौचा भिक्षवश्च कुटुम्बिनः ।

तपस्विनो ग्रामवासा न्यासिनोऽत्यर्थलोलुपाः

॥३३॥

ह्रस्वकाया महाहारा भूर्यपत्या गतह्रियः ।

शश्वत्कटुकभाषिण्यः चौर्यमायोरुसाहसाः

॥३४॥

पणयिष्यन्ति वै क्षुद्राः किराटाः कूटकारिणः ।

अनापद्यपि मंस्यन्ते वार्तां साधु जुगुप्सिताम्

॥३५॥

पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्याप्यखिलोत्तमम् ।

भृत्यं विपन्नं पतयः कौलं गाश्चापयस्विनीः

॥३६॥

पितृभ्रातृसुहृत्ज्ञातीन् हित्वा सौरतसौहृदाः ।

ननान्दृश्यालसंवादा दीनाः स्त्रैणाः कलौ नराः

॥३७॥

शूद्राः प्रतिग्रहीष्यन्ति तपोवेषोपजीविनः ।

धर्मं वक्ष्यन्त्यधर्मज्ञा अधिरुह्योत्तमासनम्

॥३८॥

नित्यमुद्विग्नमनसो दुर्भिक्षकरकर्शिताः ।

निरन्ने भूतले राजन् अनावृष्टिभयातुराः

॥३९॥

वासोऽन्नपानशयनव्यवायस्नानभूषणैः ।

हीनाः पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजाः

॥४०॥

कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः ।

त्यक्ष्यन्ति च प्रियान्प्राणान् हनिष्यन्ति स्वकानपि

॥४१॥

न रक्षिष्यन्ति मनुजाः स्थविरौ पितरौ अपि ।

पुत्रान् सर्वार्थकुशलान् क्षुद्राः शिश्नोदरम्भराः

॥४२॥

(मिश्र-१२) कलौ न राजन् जगतां परं गुरुं त्रिलोकनाथानतपादपङ्कजम् ।

प्रायेण मर्त्या भगवन्तमच्युतं यक्ष्यन्ति पाषण्डविभिन्नचेतसः

॥४३॥

यन्नामधेयं म्रियमाण आतुरः पतन् स्खलन् वा विवशो गृणन् पुमान् ।

विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः

॥४४॥

(अनुष्टुप्) पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसंभवान् ।

सर्वान् हरति चित्तस्थो भगवान् पुरुषोत्तमः

॥४५॥

श्रुतः सङ्कीर्तितो ध्यातः पूजितश्चादृतोऽपि वा ।

नृणां धुनोति भगवान् हृत्स्थो जन्मायुताशुभम्

॥४६॥

यथा हेम्नि स्थितो वह्निः दुर्वर्णं हन्ति धातुजम् ।

एवं आत्मगतो विष्णुः योगिनां अशुभाशयम्

॥४७॥

(इंद्रवज्रा) विद्यातपःप्राणनिरोधमैत्री तीर्थाभिषेकव्रतदानजप्यैः ।

नात्यन्तशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्थे भगवत्यनन्ते

॥४८॥

(अनुष्टुप्) तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् ।

म्रियमाणो ह्यवहितः ततो यासि परां गतिम्

॥४९॥

म्रियमाणैरभिध्येयो भगवान् परमेश्वरः ।

आत्मभावं नयत्यङ्ग सर्वात्मा सर्वसंश्रयः

॥५०॥

कलेर्दोषनिधे राजन् अस्ति ह्येको महान् गुणः ।

कीर्तनात् एव कृष्णस्य मुक्तसङ्गः परं व्रजेत्

॥५१॥

कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः ।

द्वापरे परिचर्यायां कलौ तद् हरिकीर्तनात्

॥५२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे तृतीयोऽध्यायः ॥ २ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु