मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — द्वितीयस्कन्धः, अध्याय २

3
द्वितीयस्कन्धः · 2

एवं पुरा धारणयाऽऽत्मयोनिः नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात्

श्रीशुक उवाच

एवं पुरा धारणयाऽऽत्मयोनिः नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् ।

तथा ससर्जेदममोघदृष्टिः यथाप्ययात् प्राक् व्यवसायबुद्धिः

॥१॥

शाब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीरपार्थैः ।

परिभ्रमन् तत्र न विन्दतेऽर्थान् मायामये वासनया शयानः

॥२॥

अतः कविर्नामसु यावदर्थः स्याद् अप्रमत्तो व्यवसायबुद्धिः ।

सिद्धेऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाणः

॥३॥

सत्यां क्षितौ किं कशिपोः प्रयासैः बाहौ स्वसिद्धे ह्युपबर्हणैः किम् ।

सत्यञ्जलौ किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलैः

॥४॥

चीराणि किं पथि न सन्ति दिशन्ति भिक्षां ।

नैवाङ्घ्रिपाः परभृतः सरितोऽप्यशुष्यन् ।

रुद्धा गुहाः किमजितोऽवति नोपसन्नान् ।

कस्माद् भजंति कवयो धनदुर्मदान्धान्

॥५॥

एवं स्वचित्ते स्वत एव सिद्ध आत्मा प्रियोऽर्थो भगवान अनंतः ।

तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र

॥६॥

कस्तां त्वनादृत्य परानुचिन्तां ऋते पशून् असतीं नाम कुर्यात् ।

पश्यञ्जनं पतितं वैतरण्यां स्वकर्मजान् परितापान् जुषाणम्

॥७॥

केचित् स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् ।

चतुर्भुजं कञ्जरथाङ्गशङ्ख गदाधरं धारणया स्मरन्ति

॥८॥

प्रसन्नवक्त्रं नलिनायतेक्षणं कदंबकिञ्जल्कपिशङ्गवाससम् ।

लसन्महारत्नहिरण्मयाङ्गदं स्फुरन् महारत्नकिरीटकुण्डलम्

॥९॥

उन्निद्रहृत्पङ्कजकर्णिकालये योगेश्वरास्थापितपादपल्लवम् ।

श्रीलक्षणं कौस्तुभरत्नकन्धरं अम्लानलक्ष्म्या वनमालयाचितम्

॥१०॥

विभूषितं मेखलयाऽङ्गुलीयकैः महाधनैर्नूपुरकङ्कणादिभिः ।

स्निग्धामलाकुञ्चितनीलकुन्तलैः विरोचमानाननहासपेशलम्

॥११॥

अदीनलीलाहसितेक्षणोल्लसद् भ्रूभङ्गसंसूचितभूर्यनुग्रहम् ।

ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयाऽवतिष्ठते

॥१२॥

एकैकशोऽङ्गानि धियानुभावयेत् पादादि यावद् हसितं गदाभृतः ।

जितं जितं स्थानमपोह्य धारयेत् परं परं शुद्ध्यति धीर्यथा यथा

॥१३॥

यावन्न जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः ।

तावत् स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत

॥१४॥

स्थिरं सुखं चासनमास्थितो यतिः यदा जिहासुरिममङ्ग लोकम् ।

काले च देशे च मनो न सज्जयेत् प्राणान् नियच्छेन्मनसा जितासुः

॥१५॥

मनः स्वबुद्ध्याऽमलया नियम्य क्षेत्रज्ञ एतां निनयेत् तमात्मनि ।

आत्मानमात्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेत कृत्यात्

॥१६॥

न यत्र कालोऽनिमिषां परः प्रभुः कुतो नु देवा जगतां य ईशिरे ।

न यत्र सत्त्वं न रजस्तमश्च न वै विकारो न महान् प्रधानम्

॥१७॥

परं पदं वैष्णवमामनन्ति तद् यन्नेति नेतीत्यतदुत्सिसृक्षवः ।

विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यार्हपदं पदे पदे

॥१८॥

इत्थं मुनिस्तूपरमेद् व्यवस्थितो विज्ञानदृग्वीर्य सुरन्धिताशयः ।

स्वपार्ष्णिनऽपीड्य गुदं ततोऽनिलं स्थानेषु षट्सून्नमयेज्जितक्लमः

॥१९॥

नाभ्यां स्थितं हृद्यधिरोप्य तस्माद् उदुदानगत्योरसि तं नयेन्मुनिः ।

ततोऽनुसन्धाय धिया मनस्वी स्वतालुमूलं शनकैर्नयेत

॥२०॥

तस्माद् भ्रुवोरन्तरमुन्नयेत निरुद्धसप्तायतनोऽनपेक्षः ।

स्थित्वा मुहूर्तार्धमकुण्ठदृष्टिः निर्भिद्य मूर्धन् विसृजेत् परं गतः

॥२१॥

यदि प्रयास्यन् नृप पारमेष्ठ्यं वैहायसानामुत यद् विहारम् ।

अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन्मनसेन्द्रियैश्च

॥२२॥

योगेश्वराणां गतिमाहुरन्तः बहिस्त्रिलोक्याः पवनान्तरात्मनाम् ।

न कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम्

॥२३॥

वैश्वानरं याति विहायसा गतः सुषुम्नया ब्रह्मपथेन शोचिषा ।

विधूतकल्कोऽथ हरेरुदस्तात् प्रयाति चक्रं नृप शैशुमारम्

॥२४॥

[ योऽन्तः पचति भूतानां यस्तपत्यण्डमध्यगः ।

सोऽग्निर्वैश्वानरो मार्गो देवानां पितृणां मुनेः ।

देवयानं पिङ्गलाभिः हन्येति शतायुषा ।

रात्रीरिडाभिः पितृणां विषुवत्तां सुषुम्नया ।

] These two shlokas are found only in Madhwa school edition and Shri Vijayadhwajatirtha commented on these. तद्विश्वनाभिं त्वतिवर्त्य विष्णोः अणीयसा विरजेनात्मनैकः ।

नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यद् विबुधा रमन्ते

॥२५॥

अथो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम् ।

निर्याति सिद्धेश्वरयुष्टधिष्ण्यं यद् द्वैपरार्ध्यं तदु पारमेष्ठ्यम्

॥२६॥

न यत्र शोको न जरा न मृत्युः न आर्तिः न चोद्वेग ऋते कुतश्चित् ।

यच्चित्ततोऽदः कृपयानिदं विदां दुरन्तदुःखप्रभवानुदर्शनात्

॥२७॥

ततो विशेषं प्रतिपद्य निर्भयः तेनात्मनापोऽनलमूर्तिरत्वरन् ।

ज्योतिर्मयो वायुमुपेत्य काले वाय्वात्मना खं बृहदात्मलिङ्गम्

॥२८॥

घ्राणेन गन्धं रसनेन वै रसं रूपं च दृष्ट्या श्वसनं त्वचैव ।

श्रोत्रेण चोपेत्य नभोगुणत्वं प्राणेन चाकूतिमुपैति योगी

॥२९॥

स भूतसूक्ष्मेन्द्रियसन्निकर्षं मनोमयं देवमयं विकार्यम् ।

संसाद्य गत्या सह तेन याति विज्ञानतत्त्वं गुणसंनिरोधम्

॥३०॥

तेनात्मनात्मानमुपैति शान्तं आनंदमानंदमयोऽवसाने ।

एतां गतिं भागवतीं गतो यः स वै पुनर्नेह विषज्जतेऽङ्ग

॥३१॥

एते सृती ते नृप वेदगीते त्वयाभिपृष्टे च सनातने च ।

ये वै पुरा ब्रह्मण आह तुष्ट आराधितो भगवान् वासुदेवः

॥३२॥

न ह्यतोऽन्यः शिवः पन्था विशतः संसृताविह ।

वासुदेवे भगवति भक्तियोगो यतो भवेत्

॥३३॥

भगवान्ब्रह्म कार्त्स्न्येन त्रिरन् वीक्ष्य मनीषया ।

तदध्यवस्यत् कूटस्थो रतिरात्मन् यतो भवेत्

॥३४॥

भगवान् सर्वभूतेषु लक्षितः स्वात्मना हरिः ।

दृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैः अनुमापकैः

॥३५॥

तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा ।

श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान् नृणाम्

॥३६॥

पिबन्ति ये भगवत आत्मनः सतां कथामृतं श्रवणपुटेषु सम्भृतम् ।

पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम्

॥३७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे द्वितीयोऽध्यायः ॥ २ ॥

fr:Le Bhâgavata Purâna/Livre II/Chapitre 2