मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — द्वितीयस्कन्धः, अध्याय ३

3
द्वितीयस्कन्धः · 3

एवमेतन्निगदितं पृष्टवान् यद् भवान् मम

श्रीशुक उवाच

एवमेतन्निगदितं पृष्टवान् यद् भवान् मम ।

नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम्

॥१॥

ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणस्पतिम् ।

इन्द्रं इन्द्रियकामस्तु प्रजाकामः प्रजापतीन्

॥२॥

देवीं मायां तु श्रीकामः तेजस्कामो विभावसुम् ।

वसुकामो वसून् रुद्रान् वीर्यकामोऽथ वीर्यवान्

॥३॥

अन्नाद्यकामस्तु अदितिं स्वर्गकामोऽदितेः सुतान् ।

विश्वान् देवान् राज्यकामः साध्यान् संसाधको विशाम्

॥४॥

आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत् ।

प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ

॥५॥

रूपाभिकामो गन्धर्वान् स्त्रीकामोऽप्सर उर्वशीम् ।

आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम्

॥६॥

यज्ञं यजेत् यशस्कामः कोशकामः प्रचेतसम् ।

विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम्

॥७॥

धर्मार्थ उत्तमश्लोकं तन्तुं तन्वन् पितॄन् यजेत् ।

रक्षाकामः पुण्यजनान् ओजस्कामो मरुद्गणान्

॥८॥

राज्यकामो मनून् देवान् निर्ऋतिं त्वभिचरन् यजेत् ।

कामकामो यजेत्सोमं अकामः पुरुषं परम्

॥९॥

अकामः सर्वकामो वा मोक्षकाम उदारधीः ।

तीव्रेण भक्तियोगेन यजेत पुरुषं परम्

॥१०॥

एतावानेव यजतां इह निःश्रेयसोदयः ।

भगवत्यचलो भावो यद्भागवतसङ्गतः

॥११॥

ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्रम् ।

आत्मप्रसाद उत यत्र गुणेष्वसङ्गः ।

कैवल्यसम्मतपथस्त्वथ भक्तियोगः ।

को निर्वृतो हरिकथासु रतिं न कुर्यात्

॥१२॥

शौनक उवाच

इत्यभिव्याहृतं राजा निशम्य भरतर्षभः ।

किमन्यत् पृष्टवान् भूयो वैयासकिं ऋषिं कविम्

॥१३॥

एतद् शुश्रूषतां विद्वन् सूत नोऽर्हसि भाषितुम् ।

कथा हरिकथोदर्काः सतां स्युः सदसि ध्रुवम्

॥१४॥

स वै भागवतो राजा पाण्डवेयो महारथः ।

बालक्रीडनकैः क्रीडन् कृष्णक्रीडां य आददे

॥१५॥

वैयासकिश्च भगवान् वासुदेवपरायणः ।

उरुगायगुणोदाराः सतां स्युर्हि समागमे

॥१६॥

आयुर्हरति वै पुंसां उद्यन्नस्तं च यन्नसौ ।

तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया

॥१७॥

तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत ।

न खादन्ति न मेहन्ति किं ग्रामपशवोऽपरे

॥१८॥

श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः ।

न यत्कर्णपथोपेतो जातु नाम गदाग्रजः

॥१९॥

बिले बतोरुक्रमविक्रमान् ये न शृण्वतः कर्णपुटे नरस्य ।

जिह्वासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः

॥२०॥

भारः परं पट्टकिरीटजुष्टं अप्युत्तमाङ्गं न नमेन् मुकुंदम् ।

शावौ करौ नो कुरुते सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा

॥२१॥

बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये ।

पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ

॥२२॥

जीवन् शवो भागवताङ्घ्रिरेणुं न जातु मर्त्योऽभिलभेत यस्तु ।

श्रीविष्णुपद्या मनुजस्तुलस्याः श्वसन् शवो यस्तु न वेद गन्धम्

॥२३॥

तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः ।

न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः

॥२४॥

अथाभिधेह्यङ्ग मनोऽनुकूलं प्रभाषसे भागवतप्रधानः ।

यदाह वैयासकिरात्मविद्या विशारदो नृपतिं साधु पृष्टः

॥२५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे तृतीयोऽध्यायः ॥ ३ ॥

fr:Le Bhâgavata Purâna/Livre II/Chapitre 3