मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — द्वितीयस्कन्धः, अध्याय ६

3
द्वितीयस्कन्धः · 6

वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवः

ब्रह्मोवाच

वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवः ।

हव्यकव्यामृत अन्नानां जिह्वा सर्व रसस्य च

॥१॥

सर्वा असूनां च वायोश्च तत् नासे परमायणे ।

अश्विनोः ओषधीनां च घ्राणो मोद प्रमोदयोः

॥२॥

रूपाणां तेजसां चक्षुः दिवः सूर्यस्य चाक्षिणी ।

कर्णौ दिशां च तीर्थानां श्रोत्रं आकाश शब्दयोः ।

तद्गात्रं वस्तुसाराणां सौभगस्य च भाजनम्

॥३॥

त्वगस्य स्पर्शवायोश्च सर्व मेधस्य चैव हि ।

रोमाणि उद्भिज्ज जातीनां यैर्वा यज्ञस्तु सम्भृतः

॥४॥

केश श्मश्रु नखान्यस्य शिलालोहाभ्र विद्युताम् ।

बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम्

॥५॥

विक्रमो भूर्भुवःस्वश्च क्षेमस्य शरणस्य च ।

सर्वकाम वरस्यापि हरेश्चरण आस्पदम्

॥६॥

अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः ।

पुंसः शिश्न उपस्थस्तु प्रजात्यानन्द निर्वृतेः

॥७॥

पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद ।

हिंसाया निर्ऋतेर्मृत्यो निरयस्य गुदः स्मृतः

॥८॥

पराभूतेः अधर्मस्य तमसश्चापि पश्चिमः ।

नाड्यो नदनदीनां च गोत्राणां अस्थिसंहतिः

॥९॥

अव्यक्त रससिन्धूनां भूतानां निधनस्य च ।

उदरं विदितं पुंसो हृदयं मनसः पदम्

॥१०॥

धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च ।

विज्ञानस्य च सत्त्वस्य परस्याऽऽत्मा परायणम्

॥११॥

अहं भवान् भवश्चैव त इमे मुनयोऽग्रजाः ।

सुरासुरनरा नागाः खगा मृगसरीसृपाः

॥१२॥

गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगाः ।

पशवः पितरः सिद्धा विद्याध्राश्चारणा द्रुमाः

॥१३॥

अन्ये च विविधा जीवाः जल स्थल नभौकसः ।

ग्रह ऋक्ष केतवस्ताराः तडितः स्तनयित्नवः

॥१४॥

सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत् ।

तेनेदं आवृतं विश्वं वितस्तिं अधितिष्ठति

॥१५॥

स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ ।

एवं विराजं प्रतपन् तपत्यन्तः बहिः पुमान्

॥१६॥

सोऽमृतस्याभयस्येशो मर्त्यं अन्नं यदत्यगात् ।

महिमा एष ततो ब्रह्मन् पुरुषस्य दुरत्ययः

॥१७॥

पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः ।

अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु

॥१८॥

पादास्त्रयो बहिश्चासन् अप्रजानां य आश्रमाः ।

अन्तः त्रिलोक्यास्त्वपरो गृहमेधोऽबृहद्व्रतः

॥१९॥

सृती विचक्रमे विश्वङ् साशनानशने उभे ।

यद् अविद्या च विद्या च पुरुषस्तु उभयाश्रयः

॥२०॥

यस्माद् अण्डं विराड् जज्ञे भूतेन्द्रिय गुणात्मकः ।

तद् द्रव्यं अत्यगाद् विश्वं गोभिः सूर्य इवाऽतपन्

॥२१॥

यदास्य नाभ्यान्नलिनाद् अहं आसं महात्मनः ।

नाविंदं यज्ञसम्भारान् पुरुषा अवयवात् ऋते

॥२२॥

तेषु यज्ञस्य पशवः सवनस्पतयः कुशाः ।

इदं च देवयजनं कालश्चोरु गुणान्वितः

॥२३॥

वस्तूनि ओषधयः स्नेहा रस-लोह-मृदो जलम् ।

ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम

॥२४॥

नामधेयानि मंत्राश्च दक्षिणाश्च व्रतानि च ।

देवतानुक्रमः कल्पः सङ्कल्पः तन्त्रमेव च

॥२५॥

गतयो मतयश्चैव प्रायश्चित्तं समर्पणम् ।

पुरुषा अवयवैः एते संभाराः संभृता मया

॥२६॥

इति संभृतसंभारः पुरुषा अवयवैः अहम् ।

तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम्

॥२७॥

ततस्ते भ्रातर इमे प्रजानां पतयो नव ।

अयजन् व्यक्तमव्यक्तं पुरुषं सुसमाहिताः

॥२८॥

ततश्च मनवः काले ईजिरे ऋषयोऽपरे ।

पितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम्

॥२९॥

नारायणे भगवति तदिदं विश्वमाहितम् ।

गृहीत माया उरुगुणः सर्गादौ अगुणः स्वतः

॥३०॥

सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः ।

विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक्

॥३१॥

इति तेऽभिहितं तात यथेदं अनुपृच्छसि ।

न अन्यत् भगवतः किञ्चिद् भाव्यं सद्-असदात्मकम्

॥३२॥

न भारती मेऽङ्ग मृषोपलक्ष्यते न वै क्वचिन्मे मनसो मृषा गतिः ।

न मे हृषीकाणि पतन्त्यसत्पथे यन्मे हृदौत्कण्ठ्ययवता धृतो हरिः

॥३३॥

सोऽहं समाम्नायमयः तपोमयः प्रजापतीनां अभिवन्दितः पतिः ।

आस्थाय योगं निपुणं समाहितः तं नाध्यगच्छं यत आत्मसंभवः

॥३४॥

नतोऽस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम् ।

यो ह्यात्ममायाविभवं स्म पर्यगाद् यथा नभः स्वान्तमथापरे कुतः

॥३५॥

नाहं न यूयं यदृतां गतिं विदुः न वामदेवः किमुतापरे सुराः ।

तन्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चात्मसमं विचक्ष्महे

॥३६॥

यस्यावतारकर्माणि गायंति ह्यस्मदादयः ।

न यं विदंति तत्त्वेन तस्मै भगवते नमः

॥३७॥

स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः ।

आत्मा आत्मनि आत्मनाऽऽत्मानं, स संयच्छति पाति च

॥३८॥

विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यग् अवस्थितम् ।

सत्यं पूर्णं अनाद्यन्तं निर्गुणं नित्यमद्वयम्

॥३९॥

ऋषे विदंति मुनयः प्रशान्तात्मेन्द्रियाशयाः ।

यदा तद् एव असत् तर्कैः तिरोधीयेत विप्लुतम्

॥४०॥

आद्योऽवतारः पुरुषः परस्य कालः स्वभावः सद्-असन्मनश्च ।

द्रव्यं विकारो गुण इन्द्रियाणि विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः

॥४१॥

अहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदादयश्च ।

स्वर्लोकपालाः खगलोकपाला नृलोकपालाः तललोकपालाः

॥४२॥

गन्धर्वविद्याधरचारणेशा ये यक्षरक्षोरग नागनाथाः ।

ये वा ऋषीणां ऋषभाः पितॄणां दैत्येन्द्रसिद्धेश्वरदानवेंद्राः

॥४३॥

अन्ये च ये प्रेतपिशाचभूत कूष्माण्ड यादः मृगपक्षि-अधीशाः ।

यत्किञ्च लोके भगवन् महस्वत् ओजः सहस्वद् बलवत् क्षमावत् ।

श्रीह्रीविभूत्यात्मवद् अद्भुतार्णं तत्त्वं परं रूपवद् अस्वरूपम्

॥४४॥

प्राधान्यतो या नृष आमनन्ति लीलावतारान् पुरुषस्य भूम्नः ।

आपीयतां कर्णकषायशोषान् अनुक्रमिष्ये त इमान् सुपेशान्

॥४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे षष्ठोऽध्यायः ॥ ६ ॥

fr:Le Bhâgavata Purâna/Livre II/Chapitre 6