मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — द्वितीयस्कन्धः, अध्याय ७

3
द्वितीयस्कन्धः · 7

यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत्

ब्रह्मोवाच

यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत् ।

क्रौडीं तनुं सकलयज्ञमयीमनन्तः ।

अन्तर्महार्णव उपागतमादिदैत्यं ।

तं दंष्ट्रयाऽद्रिमिव वज्रधरो ददार

॥१॥

जातो रुचेरजनयत् सुयमान् सुयज्ञ ।

आकूतिसूनुः अमरान् अथ दक्षिणायाम् ।

लोकत्रयस्य महतीं अहरद् यदार्तिं ।

स्वायम्भुवेन मनुना हरिरित्यनूक्तः

॥२॥

जज्ञे च कर्दमगृहे द्विज देवहूत्यां ।

स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे ।

ऊचे ययाऽत्मशमलं गुणसङ्गपङ्कम् ।

अस्मिन् विधूय कपिलस्य गतिं प्रपेदे

॥३॥

अत्रेः अपत्यमभिकाङ्क्षत आह तुष्टो ।

दत्तो मयाहमिति यद् भगवान् स दत्तः ।

यत् पादपङ्कजपराग पवित्रदेहा ।

योगर्द्धिमापुरुभयीं यदुहैहयाद्याः

॥४॥

तप्तं तपो विविधलोकसिसृक्षया मे ।

आदौ सनात् स्वतपसः स चतुःसनोऽभूत् ।

प्राक्कल्प संप्लवविनष्टमिह आत्मतत्त्वं ।

सम्यग् जगाद मुनयो यदचक्षतात्मन्

॥५॥

धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां ।

नारायणो नर इति स्वतपः प्रभावः ।

दृष्ट्वात्मनो भगवतो नियमावलोपं ।

देव्यस्त्वनङ्गपृतना घटितुं न शेकुः

॥६॥

कामं दहन्ति कृतिनो ननु रोषदृष्ट्या ।

रोषं दहन्तमुत ते न दहन्त्यसह्यम् ।

सोऽयं यदन्तरमलं प्रविशन् बिभेति ।

कामः कथं नु पुनरस्य मनः श्रयेत

॥७॥

विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो ।

बालोऽपि सन्नुपगतस्तपसे वनानि ।

तस्मा अदाद् ध्रुवगतिं गृणते प्रसन्नो ।

दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात्

॥८॥

यद्वेनमुत्पथगतं द्विजवाक्यवज्र ।

निष्प्लुष्टपौरुषभगं निरये पतन्तम् ।

त्रात्वाऽर्थितो जगति पुत्रपदं च लेभे ।

दुग्धा वसूनि वसुधा सकलानि येन

॥९॥

नाभेरसावृषभ आस सुदेविसूनुः ।

यो वै चचार समदृग् जडयोगचर्याम् ।

यत्पारमहंस्यमृषयः पदमामनन्ति ।

स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः

॥१०॥

सत्रे ममाऽस भगवान् हयशीर्ष एव ।

साक्षात् स यज्ञपुरुषः तपनीयवर्णः ।

छन्दोमयो मखमयोऽखिलदेवतात्मा ।

वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः

॥११॥

मत्स्यो युगान्तसमये मनुनोपलब्धः ।

क्षोणीमयो निखिलजीवनिकायकेतः ।

विस्रंसितानुरुभये सलिले मुखान्मे ।

आदाय तत्र विजहार ह वेदमार्गान्

॥१२॥

क्षीरोदधावमरदानवयूथपानाम् ।

उन्मथ्नताममृतलब्धय आदिदेवः ।

पृष्ठेन कच्छपवपुर्विदधार गोत्रं ।

निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डूः

॥१३॥

त्रैविष्टपोरुभयहा स नृसिंहरूपं ।

कृत्वा भ्रमद् भ्रुकुटिदंष्ट्रकरालवक्त्रम् ।

दैत्येन्द्रमाशु गदयाऽभिपतन्तमारात् ।

ऊरौ निपात्य विददार नखैः स्फुरन्तम्

॥१४॥

अन्तः सरस्युरुबलेन पदे गृहीतो ।

ग्राहेण यूथपतिरम्बुजहस्त आर्तः ।

आहेदमादिपुरुषाखिललोकनाथ ।

तीर्थश्रवः श्रवणमङ्गलनामधेय

॥१५॥

श्रुत्वा हरिस्तमरणार्थिनमप्रमेयः ।

चक्रायुधः पतगराजभुजाधिरूढः ।

चक्रेण नक्रवदनं विनिपाद्य तस्माद् ।

धस्ते प्रगृह्य भगवान् कृपयोज्जहार

॥१६॥

ज्यायान् गुणैरवरजोऽप्यदितेः सुतानां ।

लोकान् विचक्रम इमान् यदथाधियज्ञः ।

क्ष्मां वामनेन जगृहे त्रिपदच्छलेन ।

याच्ञामृते पथि चरन् प्रभुभिर्न चाल्यः

॥१७॥

नार्थो बलेरयमुरुक्रमपादशौचम् ।

आपः शिखाधृतवतो विबुधाधिपत्यम् ।

यो वै प्रतिश्रुतमृते न चिकीर्षदन्यद् ।

आत्मानमङ्ग शिरसा हरयेऽभिमेने

॥१८॥

तुभ्यं च नारद भृशं भगवान्विवृद्ध ।

भावेन साधु परितुष्ट उवाच योगम् ।

ज्ञानं च भागवतमात्मसतत्त्वदीपं ।

यद्वासुदेवशरणा विदुरञ्जसैव

॥१९॥

चक्रं च दिक्ष्वविहतं दशसु स्वतेजो ।

मन्वन्तरेषु मनुवंशधरो बिभर्ति ।

दुष्टेषु राजसु दमं व्यदधात्स्वकीर्तिं ।

सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रैः

॥२०॥

धन्वन्तरिश्च भगवान् स्वयमेव कीर्तिः ।

नाम्ना नृणां पुरुरुजां रुज आशु हन्ति ।

यज्ञे च भागममृतायुरवावचन्ध ।

आयुश्च वेदमनुशास्त्यवतीर्य लोके

॥२१॥

क्षत्रं क्षयाय विधिनोपभृतं महात्मा ।

ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु ।

उद्धन्त्यसाववनिकण्टकमुग्रवीर्यः ।

त्रिःसप्तकृत्व उरुधारपरश्वधेन

॥२२॥

अस्मत्प्रसादसुमुखः कलया कलेश ।

इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे ।

तिष्ठन् वनं सदयितानुज आविवेश ।

यस्मिन् विरुध्य दशकन्धर आर्तिमार्च्छत्

॥२३॥

यस्मा अदादुदधिरूढभयाङ्गवेपो ।

मार्गं सपद्यरिपुरं हरवद् दिधक्षोः ।

दूरे सुहृन्मथितरोष सुशोणदृष्ट्या ।

तातप्यमानमकरोरगनक्रचक्रः

॥२४॥

वक्षःस्थलस्पर्शरुग्णमहेन्द्रवाह ।

दन्तैर्विडम्बितककुब्जुष ऊढहासम् ।

सद्योऽसुभिः सह विनेष्यति दारहर्तुः ।

विस्फूर्जितैर्धनुष उच्चरतोऽधि सैन्ये

॥२५॥

भूमेः सुरेतरवरूथविमर्दितायाः ।

क्लेशव्ययाय कलया सितकृष्णकेशः ।

जातः करिष्यति जनानुपलक्ष्यमार्गः ।

कर्माणि चाऽऽत्ममहिमोपनिबन्धनानि

॥२६॥

तोकेन जीवहरणं यदुलूकिकायाः ।

त्रैमासिकस्य च पदा शकटोऽपवृत्तः ।

यद् रिङ्गतान्तरगतेन दिविस्पृशोर्वा ।

उन्मूलनं त्वितरथाऽर्जुनयोर्न भाव्यम्

॥२७॥

यद्वै व्रजे व्रजपशून् विषतोयपीतान् ।

पालांस्त्वजीव यदनुग्रहदृष्टिवृष्ट्या ।

तच्छुद्धयेऽतिविषवीर्य विलोलजिह्वम् ।

उच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम्

॥२८॥

तत्कर्म दिव्यमिव यन्निशि निःशयानं ।

दावाग्निना शुचिवने परिदह्यमाने ।

उन्नेष्यति व्रजमतोऽवसितान्तकालं ।

नेत्रे पिधाप्य सबलोऽनधिगम्यवीर्यः

॥२९॥

गृह्णीत यद् यदुपबन्धममुष्य माता ।

शुल्बं सुतस्य न तु तत् तदमुष्य माति ।

यज्जृम्भतोऽस्य वदने भुवनानि गोपी ।

संवीक्ष्य शंकितमनाः प्रतिबोधिताऽऽसीत्

॥३०॥

नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशात् ।

गोपान् बिलेषु पिहितान् मयसूनुना च ।

अह्न्यापृतं निशि शयानमतिश्रमेण ।

लोकं विकुण्ठ मुपनेष्यति गोकुलं स्म

॥३१॥

गोपैर्मखे प्रतिहते व्रजविप्लवाय ।

देवेऽभिवर्षति पशून् कृपया रिरक्षुः ।

धर्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त ।

वर्षो महीध्रमनघैककरे सलीलम्

॥३२॥

क्रीडन् वने निशि निशाकररश्मिगौर्यां ।

रासोन्मुखः कलपदायतमूर्च्छितेन ।

उद्दीपितस्मररुजां व्रजभृद्वधूनां ।

हर्तुर्हरिष्यति शिरो धनदानुगस्य

॥३३॥

ये च प्रलम्बखरदर्दुरकेश्यरिष्ट ।

मल्लेभकंसयवनाः कपिपौण्ड्रकाद्याः ।

अन्ये च शाल्वकुजबल्वलदन्तवक्र ।

सप्तोक्षशम्बरविदूरथ रुक्मिमुख्याः

॥३४॥

ये वा मृधे समितिशालिन आत्तचापाः ।

काम्बोजमत्स्यकुरुकैकयसृञ्जयाद्याः ।

यास्यन्त्यदर्शनमलं बलपार्थभीम ।

व्याजाह्वयेन हरिणा निलयं तदीयम्

॥३५॥

कालेन मीलितधियामवमृश्य नॄणां ।

स्तोकायुषां स्वनिगमो बत दूरपारः ।

आविर्हितस्त्वनुयुगं स हि सत्यवत्यां ।

वेदद्रुमं विटपशो विभजिष्यति स्म

॥३६॥

देवद्विषां निगमवर्त्मनि निष्ठितानां ।

पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः ।

लोकान् घ्नतां मतिविमोहमतिप्रलोभं ।

वेषं विधाय बहु भाष्यत औपधर्म्यम्

॥३७॥

यर्ह्यालयेष्वपि सतां न हरेः कथाः स्युः ।

पाषण्डिनो द्विजजना वृषला नृदेवाः ।

स्वाहा स्वधा वषडिति स्म गिरो न यत्र ।

शास्ता भविष्यति कलेर्भगवान् युगान्ते

॥३८॥

सर्गे तपोऽहमृषयो नव ये प्रजेशाः ।

स्थाने च धर्ममखमन्वमरावनीशाः ।

अन्ते त्वधर्महरमन्युवशासुराद्या ।

मायाविभूतय इमाः पुरुशक्तिभाजः

॥३९॥

विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह ।

यः पार्थिवान्यपि कविर्विममे रजांसि ।

चस्कम्भ यः स्वरहसास्खलता त्रिपृष्ठं ।

यस्मात् त्रिसाम्यसदनाद् उरुकम्पयानम्

॥४०॥

नान्तं विदाम्यहममी मुनयोऽग्रजास्ते ।

मायाबलस्य पुरुषस्य कुतोऽपरे ये ।

गायन् गुणान् दशशतानन आदिदेवः ।

शेषोऽधुनापि समवस्यति नास्य पारम्

॥४१॥

येषां स एष भगवान् दययेदनन्तः ।

सर्वात्मनाऽश्रितपदो यदि निर्व्यलीकम् ।

ते दुस्तरामतितरन्ति च देवमायां ।

नैषां ममाहमिति धीः श्वशृगालभक्ष्ये

॥४२॥

वेदाहमङ्ग परमस्य हि योगमायां ।

यूयं भवश्च भगवानथ दैत्यवर्यः ।

पत्नी मनोः स च मनुश्च तदात्मजाश्च ।

प्राचीनबर्हि ऋभुरङ्ग उत ध्रुवश्च

॥४३॥

इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि ।

रघ्वम्बरीषसगरा गयनाहुषाद्याः ।

मान्धात्रलर्कशतधन्वनुरन्तिदेवा ।

देवव्रतो बलिरमूर्त्तरयो दिलीपः

॥४४॥

सौभर्युतङ्कशिबिदेवलपिप्पलाद ।

सारस्वतोद्धवपराशरभूरिषेणाः ।

येऽन्ये विभीषणहनूमदुपेन्द्रदत्त ।

पार्थार्ष्टिषेणविदुरश्रुतदेव वर्याः

॥४५॥

ते वै विदन्त्यतितरन्ति च देवमायां ।

स्त्रीशूद्रहूणशबरा अपि पापजीवाः ।

यद्यद्भुतक्रम परायणशीलशिक्षाः ।

तिर्यग्जना अपि किमु श्रुतधारणा ये

॥४६॥

शश्वत् प्रशान्तमभयं प्रतिबोधमात्रं ।

शुद्धं समं सदसतः परमात्मतत्त्वम् ।

शब्दो न यत्र पुरुकारकवान् क्रियार्थो ।

माया परैत्यभिमुखे च विलज्जमाना

॥४७॥

तद्वै पदं भगवतः परमस्य पुंसो ।

ब्रह्मेति यद्विदुरजस्रसुखं विशोकम् ।

सध्र्यङ् नियम्य यतयो यमकर्तहेतिं ।

जह्युः स्वराडिव निपानखनित्रमिन्द्रः

॥४८॥

स श्रेयसामपि विभुर्भगवान् यतोऽस्य ।

भावस्वभावविहितस्य सतः प्रसिद्धिः ।

देहे स्वधातुविगमेऽनुविशीर्यमाणे ।

व्योमेव तत्र पुरुषो न विशीर्यतेऽजः

॥४९॥

(अनुष्टुप्) सोऽयं तेऽभिहितस्तात भगवान् विश्वभावनः ।

समासेन हरेर्नान्यद् अन्यस्मात् सदसच्च यत्

॥५०॥

इदं भागवतं नाम यन्मे भगवतोदितम् ।

सङ्ग्रहोऽयं विभूतीनां त्वमेतद् विपुली कुरु

॥५१॥

राजोवाच

यथा हरौ भगवति नृणां भक्तिर्भविष्यति ।

सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय

॥५२॥

मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदतः ।

शृण्वतः श्रद्धया नित्यं माययाऽऽत्मा न मुह्यति

॥५३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे सप्तमोऽध्यायः ॥ ७ ॥

fr:Le Bhâgavata Purâna/Livre II/Chapitre 7