मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — द्वितीयस्कन्धः, अध्याय ५

3
द्वितीयस्कन्धः · 5

देवदेव नमस्तेऽस्तु भूतभावन पूर्वज

नारद उवाच

देवदेव नमस्तेऽस्तु भूतभावन पूर्वज ।

तद्विजानीहि यद् ज्ञानं आत्मतत्त्वनिदर्शनम्

॥१॥

यद् रूपं यद् अधिष्ठानं यतः सृष्टमिदं प्रभो ।

यत्संस्थं यत्परं यच्च तत् तत्त्वं वद तत्त्वतः

॥२॥

सर्वं ह्येतद् भवान् वेद भूतभव्यभवत्प्रभुः ।

करामलकवद् विश्वं विज्ञानावसितं तव

॥३॥

यद् विज्ञानो यद् आधारो यत् परस्त्वं यदात्मकः ।

एकः सृजसि भूतानि भूतैरेवात्ममायया

॥४॥

आत्मन् भावयसे तानि न पराभावयन् स्वयम् ।

आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः

॥५॥

नाहं वेद परं ह्यस्मिन् नापरं न समं विभो ।

नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यतः

॥६॥

स भवानचरद् घोरं यत्तपः सुसमाहितः ।

तेन खेदयसे नस्त्वं पराशङ्कां च यच्छसि

॥७॥

एतन्मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर ।

विजानीहि यथैवेदं अहं बुध्येऽनुशासितः

॥८॥

ब्रह्मोवाच

सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् ।

यदहं चोदितः सौम्य भगवद्वीर्यदर्शने

॥९॥

नानृतं तव तच्चापि यथा मां प्रब्रवीषि भोः ।

अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे

॥१०॥

येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् ।

यथार्कोऽग्निः यथा सोमो यथा ऋक्षग्रहतारकाः

॥११॥

तस्मै नमो भगवते वासुदेवाय धीमहि ।

यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम्

॥१२॥

विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ।

विमोहिता विकत्थन्ते ममाहमिति दुर्धियः

॥१३॥

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।

वासुदेवात्परो ब्रह्मन् न चान्योऽर्थोऽस्ति तत्त्वतः

॥१४॥

नारायणपरा वेदा देवा नारायणाङ्गजाः ।

नारायणपरा लोका नारायणपरा मखाः

॥१५॥

नारायणपरो योगो नारायणपरं तपः ।

नारायणपरं ज्ञानं नारायणपरा गतिः

॥१६॥

तस्यापि द्रष्टुः ईशस्य कूटस्थस्याखिलात्मनः ।

सृज्यं सृजामि सृष्टोऽहं ईक्षयैवाभिचोदितः

॥१७॥

सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः ।

स्थितिसर्गनिरोधेषु गृहीता मायया विभोः

॥१८॥

कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः ।

बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः

॥१९॥

स एष भगवान् लिङ्गैः त्रिभिरेतैरधोक्षजः ।

स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वरः

॥२०॥

कालं कर्म स्वभावं च मायेशो मायया स्वया ।

आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे

॥२१॥

कालाद् गुणव्यतिकरः परिणामः स्वभावतः ।

कर्मणो जन्म महतः पुरुषाधिष्ठितात् अभूत्

॥२२॥

महतस्तु विकुर्वाणाद् रजःसत्त्वोपबृंहितात् ।

तमःप्रधानस्त्वभवद् द्रव्यज्ञानक्रियात्मकः

॥२३॥

सोऽहङ्कार इति प्रोक्तो विकुर्वन्समभूत् त्रिधा ।

वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा ।

द्रव्यशक्तिः क्रियाशक्तिः ज्ञानशक्तिरिति प्रभो

॥२४॥

तामसादपि भूतादेः विकुर्वाणाद् अभूत् नभः ।

तस्य मात्रा गुणः शब्दो लिङ्गं यद् द्रष्टृदृश्ययोः

॥२५॥

नभसोऽथ विकुर्वाणाद् अभूत् स्पर्शगुणोऽनिलः ।

परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम्

॥२६॥

वायोरपि विकुर्वाणात् कालकर्मस्वभावतः ।

उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत्

॥२७॥

तेजसस्तु विकुर्वाणाद् आसीत् अम्भो रसात्मकम् ।

रूपवत् स्पर्शवच्चाम्भो घोषवच्च परान्वयात्

॥२८॥

विशेषस्तु विकुर्वाणाद् अम्भसो गन्धवानभूत् ।

परान्वयाद् रसस्पर्श शब्दरूपगुणान्वितः

॥२९॥

वैकारिकान्मनो जज्ञे देवा वैकारिका दश ।

दिग्वातार्कप्रचेतोऽश्वि वह्नीन्द्रोपेन्द्रमित्रकाः

॥३०॥

तैजसात्तु विकुर्वाणाद् इंद्रियाणि दशाभवन् ।

ज्ञानशक्तिः क्रियाशक्तिः बुद्धिः प्राणश्च तैजसौ ।

श्रोत्रं त्वग् घ्राण दृग् जिह्वा वाग् दोर्मेढ्राङ्घ्रिपायवः

॥३१॥

यदैतेऽसङ्गता भावा भूतेन्द्रियमनोगुणाः ।

यदाऽऽयतननिर्माणे न शेकुर्ब्रह्मवित्तम

॥३२॥

तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः ।

सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यदः

॥३३॥

वर्षपूगसहस्रान्ते तदण्डमुदके शयम् ।

कालकर्मस्वभावस्थो जीवोऽजीवमजीवयत्

॥३४॥

स एव पुरुषः तस्माद् अण्डं निर्भिद्य निर्गतः ।

सहस्रोर्वङ्घ्रिबाह्वक्षः सहस्राननशीर्षवान्

॥३५॥

यस्येहावयवैर्लोकान् काल्पयन्ति मनीषिणः ।

कट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः

॥३६॥

पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः ।

ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रोऽभ्यजायत

॥३७॥

भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः ।

हृदा स्वर्लोक उरसा महर्लोको महात्मनः

॥३८॥

ग्रीवायां जनलोकोऽस्य तपोलोकः स्तनद्वयात् ।

मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः

॥३९॥

तत्कट्यां चातलं कॢप्तं ऊरूभ्यां वितलं विभोः ।

जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम्

॥४०॥

महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् ।

पातालं पादतलत इति लोकमयः पुमान्

॥४१॥

भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः ।

स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना

॥४२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे पञ्चमोऽध्यायः ॥ ५ ॥

fr:Le Bhâgavata Purâna/Livre II/Chapitre 5