मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — द्वितीयस्कन्धः, अध्याय ९

3
द्वितीयस्कन्धः · 9

न घटेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसा

श्रीशुक उवाच

(अनुष्टुप्) आत्ममायामृते राजन् पन्परस्यानुभवात्मनः ।

न घटेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसा

॥१॥

बहुरूप इवाभाति मायया बहुरूपया ।

रममाणो गुणेष्वस्या ममाहमिति मन्यते

॥२॥

यर्हि वाव महिम्नि स्वे परस्मिन् कालमाययोः ।

रमेत गतसम्मोहः त्यक्त्वोदास्ते तदोभयम्

॥३॥

आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवानृतम् ।

ब्रह्मणे दर्शयन् रूपं अव्यलीकव्रतादृतः

॥४॥

स आदिदेवो जगतां परो गुरुः स्वधिष्ण्यमास्थाय सिसृक्षयैक्षत ।

तां नाध्यगछ्रद्दृशमत्र सम्मतां प्रपञ्चनिर्माणविधिर्यया भवेत्

॥५॥

स चिन्तयन् द्व्यक्षरमेकदाम्भसि उपाशृणोत् द्विर्गदितं वचो विभुः ।

स्पर्शेषु यत्षोडशमेकविंशं निष्किञ्चनानां नृप यद्धनं विदुः

॥६॥

निशम्य तद्वक्तृदिदृक्षया दिशो विलोक्य तत्रान्यदपश्यमानः ।

स्वधिष्ण्यमास्थाय विमृश्य तद्धितं तपस्युपादिष्ट इवादधे मनः

॥७॥

दिव्यं सहस्राब्दममोघदर्शनो जितानिलात्मा विजितोभयेन्द्रियः ।

अतप्यत स्माखिललोकतापनं तपस्तपीयांस्तपतां समाहितः

॥८॥

तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयामास परं न यत्परम् ।

व्यपेतसङ्क्लेशविमोहसाध्वसं स्वदृष्टवद्भिः विबुधैरभिष्टुतम्

॥९॥

प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः ।

न यत्र माया किमुतापरे हरेः अनुव्रता यत्र सुरासुरार्चिताः

॥१०॥

श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।

सर्वे चतुर्बाहव उन्मिषन्मणि प्रवेकनिष्काभरणाः सुवर्चसः ।

प्रवालवैदूर्यमृणालवर्चसः परिस्फुरत्कुण्डल मौलिमालिनः

॥११॥

भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ।

विद्योतमानः प्रमदोत्तमाद्युभिः सविद्युदभ्रावलिभिर्यथा नभः

॥१२॥

श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः ।

प्रेङ्खं श्रिता या कुसुमाकरानुगैः विगीयमाना प्रियकर्म गायती

॥१३॥

ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम् ।

सुनंदनंदप्रबलार्हणादिभिः स्वपार्षदाग्रैः परिसेवितं विभुम्

॥१४॥

भृत्यप्रसादाभिमुखं दृगासवं प्रसन्नहासारुणलोचनाननम् ।

किरीटिनं कुण्डलिनं चतुर्भुजं पीतांशुकं वक्षसि लक्षितं श्रिया

॥१५॥

अध्यर्हणीयासनमास्थितं परं वृतं चतुःषोडशपञ्चशक्तिभिः ।

युक्तं भगैः स्वैरितरत्र चाध्रुवैः स्व एव धामन् रममाणमीश्वरम्

॥१६॥

तद्दर्शनाह्लादपरिप्लुतान्तरो हृष्यत्तनुः प्रेमभराश्रुलोचनः ।

ननाम पादाम्बुजमस्य विश्वसृग् यत् पारमहंस्येन पथाधिगम्यते

॥१७॥

तं प्रीयमाणं समुपस्थितं कविं प्रजाविसर्गे निजशासनार्हणम् ।

बभाष ईषत्स्मितशोचिषा गिरा प्रियः प्रियं प्रीतमनाः करे स्पृशन्

॥१८॥

श्रीभगवानुवाच

(अनुष्टुप्) त्वयाहं तोषितः सम्यग् वेदगर्भ सिसृक्षया ।

चिरं भृतेन तपसा दुस्तोषः कूटयोगिनाम्

॥१९॥

वरं वरय भद्रं ते वरेशं माभिवाञ्छितम् ।

ब्रह्मञ्छ्रेयः परिश्रामः पुंसां मद्दर्शनावधिः

॥२०॥

मनीषितानुभावोऽयं मम लोकावलोकनम् ।

यदुपश्रुत्य रहसि चकर्थ परमं तपः

॥२१॥

प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते ।

तपो मे हृदयं साक्षाद् आत्माऽहं तपसोऽनघ

॥२२॥

सृजामि तपसैवेदं ग्रसामि तपसा पुनः ।

बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तपः

॥२३॥

ब्रह्मोवाच

भगवन् सर्वभूतानां अध्यक्षोऽवस्थितो गुहाम् ।

वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम्

॥२४॥

तथापि नाथमानस्य नाथ नाथय नाथितम् ।

परावरे यथा रूपे जानीयां ते त्वरूपिणः

॥२५॥

यथात्ममायायोगेन नानाशक्त्युपबृंहितम् ।

विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानमात्मना

॥२६॥

क्रीडस्यमोघसङ्कल्प ऊर्णनाभिर्यथोर्णुते ।

तथा तद्विषयां धेहि मनीषां मयि माधव

॥२७॥

भगवच्छिक्षितमहं करवाणि ह्यतन्द्रितः ।

नेहमानः प्रजासर्गं बध्येयं यदनुग्रहात्

॥२८॥

यावत्सखा सख्युरिवेश ते कृतः प्रजाविसर्गे विभजामि भो जनम् ।

अविक्लबस्ते परिकर्मणि स्थितो मा मे समुन्नद्धमदोऽजमानिनः

॥२९॥

श्रीभगवानुवाच

(अनुष्टुप्) ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् ।

सरहस्यं तदङ्गं च गृहाण गदितं मया

॥३०॥

यावानहं यथाभावो यद् रूपगुणकर्मकः ।

तथैव तत्त्वविज्ञानं अस्तु ते मदनुग्रहात्

॥३१॥

अहमेवासमेकोऽग्रे नान्यत् यत्सदसत्परम् ।

पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम्

॥३२॥

ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि ।

तद्विद्याद् आत्मनो मायां यथाभासो यथा तमः

॥३३॥

यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु ।

प्रविष्टानि अप्रविष्टानि तथा तेषु न तेष्वहम्

॥३४॥

एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः ।

अन्वयव्यतिरेकाभ्यां यत्स्यात् सर्वत्र सर्वदा

॥३५॥

एतन्मतं समातिष्ठ परमेण समाधिना ।

भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित्

॥३६॥

श्रीशुक उवाच

सम्प्रदिश्यैवमजनो जनानां परमेष्ठिनम् ।

पश्यतः तस्य तद् रूपं आत्मनो न्यरुणद्धरिः

॥३७॥

अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलिः ।

सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत्

॥३८॥

प्रजापतिर्धर्मपतिः एकदा नियमान् यमान् ।

भद्रं प्रजानामन्विच्छन् नातिष्ठत्स्वार्थकाम्यया

॥३९॥

तं नारदः प्रियतमो रिक्थादानामनुव्रतः ।

शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च

॥४०॥

मायां विविदिषन् विष्णोः मायेशस्य महामुनिः ।

महाभागवतो राजन् पितरं पर्यतोषयत्

॥४१॥

तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् ।

देवर्षिः परिपप्रच्छ भवान् यन्मानुपृच्छति

॥४२॥

तस्मा इदं भागवतं पुराणं दशलक्षणम् ।

प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत्

॥४३॥

नारदः प्राह मुनये सरस्वत्यास्तटे नृप ।

ध्यायते ब्रह्म परमं व्यासाय अमिततेजसे

॥४४॥

यदुताहं त्वया पृष्टो वैराजात्पुरुषादिदम् ।

यथासीत् तदुपाख्यास्ते प्रश्नान् अन्यांश्च कृत्स्नशः

॥४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे नवमोऽध्यायः ॥ ९ ॥

fr:Le Bhâgavata Purâna/Livre II/Chapitre 9