अनुवाक 1
ब्रह्म॒ सन्ध॑त्तं॒ तन्मे॑ जिन्वतम्।
क्ष॒त्रꣳ सन्ध॑त्तं॒ तन्मे॑ जिन्वतम्।
इष॒ꣳ॒ सन्ध॑त्तं॒ तां मे॑ जिन्वतम्।
ऊर्ज॒ꣳ॒ सन्ध॑त्तं॒ तां मे॑ जिन्वतम्।
र॒यिꣳ सन्ध॑त्तं॒ तां मे॑ जिन्वतम्।
पुष्टि॒ꣳ॒ सन्ध॑त्तं॒ तां मे॑ जिन्वतम्।
प्र॒जाꣳ सन्ध॑त्तं॒ तां मे॑ जिन्वतम्।
प॒शून्थ्सन्ध॑त्तं॒ तान्मे॑ जिन्वतम्।
स्तु॒तो॑ऽसि॒ जन॑धाः।
दे॒वास्त्वा॑ शुक्र॒पाः प्रण॑यन्तु॥१॥
सु॒वीराः᳚ प्र॒जाः प्र॑ज॒नय॒न्परी॑हि।
शु॒क्रः शु॒क्रशो॑चिषा।
स्तु॒तो॑ऽसि॒ जन॑धाः।
दे॒वास्त्वा॑ मन्थि॒पाः प्रण॑यन्तु।
सु॒प्र॒जाः प्र॒जाः प्र॑ज॒नय॒न्परी॑हि।
म॒न्थी म॒न्थिशो॑चिषा।
स॒ञ्ज॒ग्मा॒नौ दि॒व आपृ॑थि॒व्यायुः॑।
सन्ध॑त्तं॒ तन्मे॑ जिन्वतम्।
प्रा॒णꣳ सन्ध॑त्तं॒ तं मे॑ जिन्वतम्।
अ॒पा॒नꣳ सन्ध॑त्तं॒ तं मे॑ जिन्वतम्॥२॥
व्या॒नꣳ सन्ध॑त्तं॒ तं मे॑ जिन्वतम्।
चक्षुः॒ सन्ध॑त्तं॒ तन्मे॑ जिन्वतम्।
श्रोत्र॒ꣳ॒ सन्ध॑त्तं॒ तन्मे॑ जिन्वतम्।
मनः॒ सन्ध॑त्तं॒ तन्मे॑ जिन्वतम्।
वाच॒ꣳ॒ सन्ध॑त्तं॒ तां मे॑ जिन्वतम्।
आयुः॑ स्थ॒ आयु॑र्मे धत्तम्।
आयु॑र्य॒ज्ञाय॑ धत्तम्।
आयु॑र्य॒ज्ञप॑तये धत्तम्।
प्रा॒णः स्थः॑ प्रा॒णं मे॑ धत्तम्।
प्रा॒णं य॒ज्ञाय॑ धत्तम्॥३॥
प्रा॒णं य॒ज्ञप॑तये धत्तम्।
चक्षुः॑ स्थ॒श्चक्षु॑र्मे धत्तम्।
चक्षु॑र्य॒ज्ञाय॑ धत्तम्।
चक्षु॑र्य॒ज्ञप॑तये धत्तम्।
श्रोत्रꣴ॑ स्थः॒ श्रोत्रं॑ मे धत्तम्।
श्रोत्रं॑ य॒ज्ञाय॑ धत्तम्।
श्रोत्रं॑ य॒ज्ञप॑तये धत्तम्।
तौ दे॑वौ शुक्रामन्थिनौ।
क॒ल्पय॑तं॒ दैवी॒र्विशः॑।
क॒ल्पय॑तं॒ मानु॑षीः॥४॥
इष॒मूर्ज॑म॒स्मासु॑ धत्तम्।
प्रा॒णान्प॒शुषु॑।
प्र॒जां मयि॑ च॒ यज॑माने च।
निर॑स्तः॒ शण्डः॑।
निर॑स्तो॒ मर्कः॑।
अप॑नुत्तौ॒ शण्डा॒मर्कौ॑ स॒हामुना᳚।
शु॒क्रस्य॑ स॒मिद॑सि।
म॒न्थिनः॑ स॒मिद॑सि।
स प्र॑थ॒मः सङ्कृ॑तिर्वि॒श्वक॑र्मा।
स प्र॑थ॒मो मि॒त्रो वरु॑णो अ॒ग्निः।
स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वान्।
तस्मा॒ इन्द्रा॑य सु॒तमा जु॑होमि॥५॥
अनुवाक 2
कृत्ति॑कास्व॒ग्निमाद॑धीत।
ए॒तद्वा अ॒ग्नेर्नक्ष॑त्रम्।
यत्कृत्ति॑काः।
स्वाया॑मे॒वैनं॑ दे॒वता॑यामा॒धाय॑।
ब्र॒ह्म॒व॒र्च॒सी भ॑वति।
मुखं॒ वा ए॒तन्नक्ष॑त्राणाम्।
यत्कृत्ति॑काः।
यः कृत्ति॑कास्व॒ग्निमा॑ध॒त्ते।
मुख्य॑ ए॒व भ॑वति।
अथो॒ खलु॑॥६॥
अ॒ग्नि॒न॒क्ष॒त्रमित्यप॑चायन्ति।
गृ॒हान् ह॒ दाहु॑को भवति।
प्र॒जाप॑ती रोहि॒ण्याम॒ग्निम॑सृजत।
तं दे॒वा रो॑हि॒ण्यामाद॑धत।
ततो॒ वै ते सर्वा॒न्रोहा॑नरोहन्।
तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम्।
यो रो॑हि॒ण्याम॒ग्निमा॑ध॒त्ते।
ऋ॒ध्नोत्ये॒व।
सर्वा॒न्रोहा᳚न्रोहति।
दे॒वा वै भ॒द्राः सन्तो॒ऽग्निमाधि॑थ्सन्त॥७॥
तेषा॒मना॑हितो॒ऽग्निरासी᳚त्।
अथै᳚भ्यो वा॒मं वस्वपा᳚क्रामत्।
ते पुन॑र्वस्वो॒राद॑धत।
ततो॒ वै तान् वा॒मं वसू॒पाव॑र्तत।
यः पु॒राऽभ॒द्रः सन्पापी॑या॒न्थ्स्यात्।
स पुन॑र्वस्वोर॒ग्निमाद॑धीत।
पुन॑रे॒वैनं॑ वा॒मं वसू॒पाव॑र्तते।
भ॒द्रो भ॑वति।
यः का॒मये॑त॒ दान॑कामा मे प्र॒जाः स्यु॒रिति॑।
स पूर्व॑योः॒ फल्गु॑न्योर॒ग्निमाद॑धीत॥८॥
अ॒र्य॒म्णो वा ए॒तन्नक्ष॑त्रम्।
यत्पूर्वे॒ फल्गु॑नी।
अ॒र्य॒मेति॒ तमा॑हु॒र्यो ददा॑ति।
दान॑कामा अस्मै प्र॒जा भ॑वन्ति।
यः का॒मये॑त भ॒गी स्या॒मिति॑।
स उत्त॑रयोः॒ फल्गु॑न्योर॒ग्निमाद॑धीत।
भग॑स्य॒ वा ए॒तन्नक्ष॑त्रम्।
यदुत्त॑रे॒ फल्गु॑नी।
भ॒ग्ये॑व भ॑वति।
का॒ल॒क॒ञ्जा वै नामासु॑रा आसन्॥९॥
ते सु॑व॒र्गाय॑ लो॒काया॒ग्निम॑चिन्वत।
पुरु॑ष॒ इष्ट॑का॒मुपा॑दधा॒त्पुरु॑ष॒ इष्ट॑काम्।
स इन्द्रो᳚ ब्राह्म॒णो ब्रुवा॑ण॒ इष्ट॑का॒मुपा॑धत्त।
ए॒षा मे॑ चि॒त्रा नामेति॑।
ते सु॑व॒र्गं लो॒कमा प्रारो॑हन्।
स इन्द्र॒ इष्ट॑का॒मावृ॑हत्।
तेऽवा॑कीर्यन्त।
ये॑ऽवाकी᳚र्यन्त।
त ऊर्णा॒वभ॑योऽभवन्।
द्वावुद॑पतताम्॥१०॥
तौ दि॒व्यौ श्वाना॑वभवताम्।
यो भ्रातृ॑व्यवा॒न्थ्स्यात्।
स चि॒त्राया॑म॒ग्निमाद॑धीत।
अ॒व॒कीर्यै॒व भ्रातृ॑व्यान्।
ओजो॒ बल॑मिन्द्रि॒यं वी॒र्य॑मा॒त्मन्ध॑त्ते।
व॒सन्ता᳚ ब्राह्म॒णो᳚ऽग्निमाद॑धीत।
व॒स॒न्तो वै ब्रा᳚ह्म॒णस्य॒र्तुः।
स्व ए॒वैन॑मृ॒तावा॒धाय॑।
ब्र॒ह्म॒व॒र्च॒सी भ॑वति।
मुखं॒ वा ए॒तदृ॑तू॒नाम्॥११॥
यद्व॑स॒न्तः।
यो व॒सन्ता॒ऽग्निमा॑ध॒त्ते।
मुख्य॑ ए॒व भ॑वति।
अथो॒ योनि॑मन्तमे॒वैनं॒ प्रजा॑त॒माध॑त्ते।
ग्री॒ष्मे रा॑ज॒न्य॑ आद॑धीत।
ग्री॒ष्मो वै रा॑ज॒न्य॑स्य॒र्तुः।
स्व ए॒वैन॑मृ॒तावा॒धाय॑।
इ॒न्द्रि॒या॒वी भ॑वति।
श॒रदि॒ वैश्य॒ आद॑धीत।
श॒रद्वै वैश्य॑स्य॒र्तुः॥१२॥
स्व ए॒वैन॑मृ॒तावा॒धाय॑।
प॒शु॒मान्भ॑वति।
न पूर्व॑योः॒ फल्गु॑न्योर॒ग्निमाद॑धीत।
ए॒षा वै ज॑घ॒न्या॑ रात्रिः॑ संवथ्स॒रस्य॑।
यत्पूर्वे॒ फल्गु॑नी।
पृ॒ष्टि॒त ए॒व सं॑वथ्स॒रस्या॒ग्निमा॒धाय॑।
पापी॑यान्भवति।
उत्त॑रयो॒रा द॑धीत।
ए॒षा वै प्र॑थ॒मा रात्रिः॑ संवथ्स॒रस्य॑।
यदुत्त॑रे॒ फल्गु॑नी।
मु॒ख॒त ए॒व सं॑वथ्स॒रस्या॒ग्निमा॒धाय॑।
वसी॑यान्भवति।
अथो॒ खलु॑।
य॒दैवैनं॑ य॒ज्ञ उ॑प॒नमे᳚त्।
अथाद॑धीत।
सैवास्यर्द्धिः॑॥१३॥
अनुवाक 3
उद्ध॑न्ति।
यदे॒वास्या॑ अमे॒ध्यम्।
तदप॑हन्ति।
अ॒पोऽवो᳚क्षति॒ शान्त्यै᳚।
सिक॑ता॒ निव॑पति।
ए॒तद्वा अ॒ग्नेर्वै᳚श्वान॒रस्य॑ रू॒पम्।
रू॒पेणै॒व वै᳚श्वान॒रमव॑ रुन्धे।
ऊषां॒ निव॑पति।
पुष्टि॒र्वा ए॒षा प्र॒जन॑नम्।
यदूषाः᳚॥१४॥
पुष्ट्या॑मे॒व प्र॒जन॑ने॒ऽग्निमाध॑त्ते।
अथो॑ सं॒ज्ञान॑ ए॒व।
सं॒ज्ञान॒ꣴ॒ ह्ये॑तत्प॑शू॒नाम्।
यदूषाः᳚।
द्यावा॑पृथि॒वी स॒हास्ता᳚म्।
ते वि॑य॒ती अ॑ब्रूताम्।
अस्त्वे॒व नौ॑ स॒ह य॒ज्ञिय॒मिति॑।
यद॒मुष्या॑ य॒ज्ञिय॒मासी᳚त्।
तद॒स्याम॑दधात्।
त ऊषा॑ अभवन्॥१५॥
यद॒स्या य॒ज्ञिय॒मासी᳚त्।
तद॒मुष्या॑मदधात्।
तद॒दश्च॒न्द्रम॑सि कृ॒ष्णम्।
ऊषा᳚न्नि॒वप॑न्न॒दो ध्या॑येत्।
द्यावा॑पृथि॒व्योरे॒व य॒ज्ञिये॒ऽग्निमाध॑त्ते।
अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत।
आ॒खू रू॒पं कृ॒त्वा।
स पृ॑थि॒वीं प्रावि॑शत्।
स ऊ॒तीः कु॑र्वा॒णः पृ॑थि॒वीमनु॒ सम॑चरत्।
तदा॑खुकरी॒षम॑भवत्॥१६॥
यदा॑खुकरी॒षꣳ स॑म्भा॒रो भव॑ति।
यदे॒वास्य॒ तत्र॒ न्य॑क्तम्।
तदे॒वाव॑ रुन्धे।
ऊर्जं॒ वा ए॒तꣳ रसं॑ पृथि॒व्या उ॑प॒दीका॒ उद्दि॑हन्ति।
यद्व॒ल्मीकम्᳚।
यद्व॑ल्मीकव॒पा स॑म्भा॒रो भव॑ति।
ऊर्ज॑मे॒व रसं॑ पृथि॒व्या अव॑ रुन्धे।
अथो॒ श्रोत्र॑मे॒व।
श्रोत्र॒ꣴ॒ ह्ये॑तत्पृ॑थि॒व्याः।
यद्व॒ल्मीकः॑॥१७॥
अब॑धिरो भवति।
य ए॒वं वेद॑।
प्र॒जाप॑तिः प्र॒जा अ॑सृजत।
तासा॒मन्न॒मुपा᳚क्षीयत।
ताभ्यः॒ सूद॒मुप॒प्राभि॑नत्।
ततो॒ वै तासा॒मन्नं॒ नाक्षी॑यत।
यस्य॒ सूदः॑ सम्भा॒रो भव॑ति।
नास्य॑ गृ॒हेऽन्नं॑ क्षीयते।
आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सीत्।
तेन॑ प्र॒जाप॑तिरश्राम्यत्॥१८॥
क॒थमि॒दꣴ स्या॒दिति॑।
सो॑ऽपश्यत्पुष्करप॒र्णं तिष्ठ॑त्।
सो॑ऽमन्यत।
अस्ति॒ वै तत्।
यस्मि॑न्नि॒दमधि॒ तिष्ठ॒तीति॑।
स व॑रा॒हो रू॒पं कृ॒त्वोप॒ न्य॑मज्जत्।
स पृ॑थि॒वीम॒ध आ᳚र्च्छत्।
तस्या॑ उप॒हत्योद॑मज्जत्।
तत्पु॑ष्करप॒र्णे᳚ऽप्रथयत्।
यदप्र॑थयत्॥१९॥
तत्पृ॑थि॒व्यै पृ॑थिवि॒त्वम्।
अभू॒द्वा इ॒दमिति॑।
तद्भूम्यै॑ भूमि॒त्वम्।
तां दिशोऽनु॒ वातः॒ सम॑वहत्।
ताꣳ शर्क॑राभिरदृꣳहत्।
शं वै नो॑ऽभू॒दिति॑।
तच्छर्क॑राणाꣳ शर्कर॒त्वम्।
यद्व॑रा॒हवि॑हतꣳ सम्भा॒रो भव॑ति।
अ॒स्यामे॒वाछ॑म्बट्कारम॒ग्निमाध॑त्ते।
शर्क॑रा भवन्ति॒ धृत्यै᳚॥२०॥
अथो॑ श॒न्त्वाय॑।
सरे॑ता अ॒ग्निरा॒धेय॒ इत्या॑हुः।
आपो॒ वरु॑णस्य॒ पत्न॑य आसन्।
ता अ॒ग्निर॒भ्य॑ध्यायत्।
ताः सम॑भवत्।
तस्य॒ रेतः॒ परा॑ऽपतत्।
तद्धिर॑ण्यमभवत्।
यद्धिर॑ण्यमु॒पास्य॑ति।
सरे॑तसमे॒वाग्निमाध॑त्ते।
पुरु॑ष॒ इन्न्वै स्वाद्रेत॑सो बीभथ्सत॒ इत्या॑हुः॥२१॥
उ॒त्त॒र॒त उपा᳚स्य॒त्यबी॑भथ्सायै।
अति॒ प्रय॑च्छति।
आर्ति॑मे॒वाति॒ प्रय॑च्छति।
अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत।
अश्वो॑ रू॒पं कृ॒त्वा।
सो᳚ऽश्व॒त्थे सं॑वथ्स॒रम॑तिष्ठत्।
तद॑श्व॒त्थस्या᳚श्वत्थ॒त्वम्।
यदाश्व॑त्थः सम्भा॒रो भव॑ति।
यदे॒वास्य॒ तत्र॒ न्य॑क्तम्।
तदे॒वाव॑ रुन्धे॥२२॥
दे॒वा वा ऊर्जं॒ व्य॑भजन्त।
तत॑ उदु॒म्बर॒ उद॑तिष्ठत्।
ऊर्ग्वा उ॑दु॒म्बरः॑।
यदौदु॑म्बरः सम्भा॒रो भव॑ति।
ऊर्ज॑मे॒वाव॑ रुन्धे।
तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत्।
तं गा॑य॒त्र्याऽह॑रत्।
तस्य॑ प॒र्णम॑च्छिद्यत।
तत्प॒र्णो॑ऽभवत्।
तत्प॒र्णस्य॑ पर्ण॒त्वम्॥२३॥
यस्य॑ पर्ण॒मयः॑ सम्भा॒रो भव॑ति।
सो॒म॒पी॒थमे॒वाव॑ रुन्धे।
दे॒वा वै ब्रह्म॑न्नवदन्त।
तत्प॒र्ण उपा॑शृणोत्।
सु॒श्रवा॒ वै नाम॑।
यत्प॑र्ण॒मयः॑ सम्भा॒रो भव॑ति।
ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे।
प्र॒जाप॑तिर॒ग्निम॑सृजत।
सो॑ऽबिभे॒त्प्र मा॑ धक्ष्य॒तीति॑।
तꣳ श॒म्या॑ऽशमयत्॥२४॥
तच्छ॒म्यै॑ शमि॒त्वम्।
यच्छ॑मी॒मयः॑ सम्भा॒रो भव॑ति।
शान्त्या॒ अप्र॑दाहाय।
अ॒ग्नेः सृ॒ष्टस्य॑ य॒तः।
विक॑ङ्कतं॒ भा आ᳚र्च्छत्।
यद्वैक॑ङ्कतः सम्भा॒रो भव॑ति।
भा ए॒वाव॑ रुन्धे।
सहृ॑दयो॒ऽग्निरा॒धेय॒ इत्या॑हुः।
म॒रुतो॒ऽद्भिर॒ग्निम॑तमयन्।
तस्य॑ ता॒न्तस्य॒ हृद॑य॒माच्छि॑न्दन्।
साऽशनि॑रभवत्।
यद॒शनि॑हतस्य वृ॒क्षस्य॑ सम्भा॒रो भव॑ति।
सहृ॑दयमे॒वाग्निमा ध॑त्ते॥२५॥
अनुवाक 4
द्वा॒द॒शसु॑ विक्रा॒मेष्व॒ग्निमा द॑धीत।
द्वाद॑श॒ मासाः᳚ संवथ्स॒रः।
सं॒व॒थ्स॒रादे॒वैन॑मव॒रुद्ध्या ध॑त्ते।
यद्द्वा॑द॒शसु॑ विक्रा॒मेष्वा॒ दधी॑त।
परि॑मित॒मव॑ रुन्धीत।
चक्षु॑र्निमित॒ आद॑धीत।
इय॒द्द्वाद॑श विक्रा॒मा(३) इति॑।
परि॑मितं चै॒वाप॑रिमितं॒ चाव॑ रुन्धे।
अनृ॑तं॒ वै वा॒चा व॑दति।
अनृ॑तं॒ मन॑सा ध्यायति॥२६॥
चक्षु॒र्वै स॒त्यम्।
अद्रा(३)गित्या॑ह।
अद॑र्श॒मिति॑।
तथ्स॒त्यम्।
यश्चक्षु॑र्निमिते॒ऽग्निमा॑ध॒त्ते।
स॒त्य ए॒वैन॒मा ध॑त्ते।
तस्मा॒दाहि॑ताग्नि॒र्नानृ॑तं वदेत्।
नास्य॑ ब्राह्म॒णोऽना᳚श्वान्गृ॒हे व॑सेत्।
स॒त्ये ह्य॑स्या॒ग्निराहि॑तः।
आ॒ग्ने॒यी वै रात्रिः॑॥२७॥
आ॒ग्ने॒याः प॒शवः॑।
ऐ॒न्द्रमहः॑।
नक्तं॒ गार्ह॑पत्य॒मा द॑धाति।
प॒शूने॒वाव॑ रुन्धे।
दिवा॑ऽऽहव॒नीयम्᳚।
इ॒न्द्रि॒यमे॒वाव॑ रुन्धे।
अ॒र्धोदि॑ते॒ सूर्य॑ आहव॒नीय॒मा द॑धाति।
ए॒तस्मि॒न्वै लो॒के प्र॒जाप॑तिः प्र॒जा अ॑सृजत।
प्र॒जा ए॒व तद्यज॑मानः सृजते।
अथो॑ भू॒तं चै॒व भ॑वि॒ष्यच्चाव॑ रुन्धे॥२८॥
इडा॒ वै मा॑न॒वी य॑ज्ञानूका॒शिन्या॑सीत्।
साऽशृ॑णोत्।
असु॑रा अ॒ग्निमाद॑धत॒ इति॑।
तद॑गच्छत्।
त आ॑हव॒नीय॒मग्र॒ आद॑धत।
अथ॒ गार्ह॑पत्यम्।
अथा᳚न्वाहार्य॒पच॑नम्।
साऽब्र॑वीत्।
प्र॒तीच्ये॑षा॒ꣴ॒ श्रीर॑गात्।
भ॒द्रा भू॒त्वा परा॑ भविष्य॒न्तीति॑॥२९॥
यस्यै॒वम॒ग्निरा॑धी॒यते᳚।
प्र॒तीच्य॑स्य॒ श्रीरे॑ति।
भ॒द्रो भू॒त्वा परा॑भवति।
साऽशृ॑णोत्।
दे॒वा अ॒ग्निमाद॑धत॒ इति॑।
तद॑गच्छत्।
ते᳚ऽन्वाहार्य॒पच॑न॒मग्र॒ आद॑धत।
अथ॒ गार्ह॑पत्यम्।
अथा॑ऽऽहव॒नीयम्᳚।
साऽब्र॑वीत्॥३०॥
प्राच्ये॑षा॒ꣴ॒ श्रीर॑गात्।
भ॒द्रा भू॒त्वा सु॑व॒र्गं लो॒कमे᳚ष्यन्ति।
प्र॒जां तु न वे᳚थ्स्यन्त॒ इति॑।
यस्यै॒वम॒ग्निरा॑धी॒यते᳚।
प्राच्य॑स्य॒ श्रीरे॑ति।
भ॒द्रो भू॒त्वा सु॑व॒र्गं लो॒कमे॑ति।
प्र॒जां तु न वि॑न्दते।
साऽब्र॑वी॒दिडा॒ मनुम्᳚।
तथा॒ वा अ॒हं तवा॒ग्निमाधा᳚स्यामि।
यथा॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्ज॑नि॒ष्यसे᳚॥३१॥
प्रत्य॒स्मिँल्लो॒के स्था॒स्यसि॑।
अ॒भि सु॑व॒र्गं लो॒कं जे॒ष्यसीति॑।
गार्ह॑पत्य॒मग्र॒ आद॑धात्।
गार्ह॑पत्यं॒ वा अनु॑ प्र॒जाः प॒शवः॒ प्रजा॑यन्ते।
गार्ह॑पत्येनै॒वास्मै᳚ प्र॒जां प॒शून्प्राज॑नयत्।
अथा᳚न्वाहार्य॒पच॑नम्।
ति॒र्यङ्ङि॑व॒ वा अ॒यं लो॒कः।
अ॒स्मिन्ने॒व तेन॑ लो॒के प्रत्य॑तिष्ठत्।
अथा॑ऽऽहव॒नीयम्᳚।
तेनै॒व सु॑व॒र्गं लो॒कम॒भ्य॑जयत्॥३२॥
यस्यै॒वम॒ग्निरा॑धी॒यते᳚।
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते।
प्रत्य॒स्मिँल्लो॒के ति॑ष्ठति।
अ॒भि सु॑व॒र्गं लो॒कं ज॑यति।
यस्य॒ वा अय॑थादेवतम॒ग्निरा॑धी॒यते᳚।
आ दे॒वता᳚भ्यो वृश्च्यते।
पापी॑यान्भवति।
यस्य॑ यथादेव॒तम्।
न दे॒वता᳚भ्य॒ आवृ॑श्च्यते।
वसी॑यान्भवति॥३३॥
भृगू॑णां॒ त्वाऽङ्गि॑रसां व्रतपते व्र॒तेनाद॑धा॒मीति॑ भृग्वङ्गि॒रसा॒माद॑ध्यात्।
आ॒दि॒त्यानां᳚ त्वा दे॒वानां᳚ व्रतपते व्र॒तेनाद॑धा॒मीत्य॒न्यासां॒ ब्राह्म॑णीनां प्र॒जाना᳚म्।
वरु॑णस्य त्वा॒ राज्ञो᳚ व्रतपते व्र॒तेनाद॑धा॒मीति॒ राज्ञः॑।
इन्द्र॑स्य त्वेन्द्रि॒येण॑ व्रतपते व्र॒तेनाद॑धा॒मीति॑ राज॒न्य॑स्य।
मनो᳚स्त्वा ग्राम॒ण्यो᳚ व्रतपते व्र॒तेनाद॑धा॒मीति॒ वैश्य॑स्य।
ऋ॒भू॒णां त्वा॑ दे॒वानां᳚ व्रतपते व्र॒तेनाद॑धा॒मीति॑ रथका॒रस्य॑।
य॒था॒दे॒व॒तम॒ग्निराधी॑यते।
न दे॒वता᳚भ्य॒ आवृ॑श्च्यते।
वसी॑यान्भवति॥३४॥
अनुवाक 5
प्र॒जाप॑तिर्वा॒चः स॒त्यम॑पश्यत्।
तेना॒ग्निमाध॑त्त।
तेन॒ वै स आ᳚र्ध्नोत्।
भूर्भुवः॒ सुव॒रित्या॑ह।
ए॒तद्वै वा॒चः स॒त्यम्।
य ए॒तेना॒ग्निमा॑ध॒त्ते।
ऋ॒ध्नोत्ये॒व।
अथो॑ स॒त्यप्रा॑शूरे॒व भ॑वति।
अथो॒ य ए॒वं वि॒द्वान॑भि॒चर॑ति।
स्तृ॒णु॒त ए॒वैनम्᳚॥३५॥
भूरित्या॑ह।
प्र॒जा ए॒व तद्यज॑मानः सृजते।
भुव॒ इत्या॑ह।
अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति।
सुव॒रित्या॑ह।
सु॒व॒र्ग ए॒व लो॒के प्रति॑ तिष्ठति।
त्रि॒भिर॒क्षरै॒र्गार्ह॑पत्य॒मा द॑धाति।
त्रय॑ इ॒मे लो॒काः।
ए॒ष्वे॑वैनं॑ लो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते।
सर्वैः᳚ प॒ञ्चभि॑राहव॒नीयम्᳚॥३६॥
सु॒व॒र्गाय॒ वा ए॒ष लो॒कायाधी॑यते।
यदा॑हव॒नीयः॑।
सु॒व॒र्ग ए॒वास्मै॑ लो॒के वा॒चः स॒त्यꣳ सर्व॑माप्नोति।
त्रि॒भिर्गार्ह॑पत्य॒मा द॑धाति।
प॒ञ्चभि॑राहव॒नीयम्᳚।
अ॒ष्टौ सं प॑द्यन्ते।
अ॒ष्टाक्ष॑रा गाय॒त्री।
गा॒य॒त्रो᳚ऽग्निः।
यावा॑ने॒वाग्निः।
तमाध॑त्ते॥३७॥
प्र॒जाप॑तिः प्र॒जा अ॑सृजत।
ता अ॑स्माथ्सृ॒ष्टाः परा॑चीरायन्।
ताभ्यो॒ ज्योति॒रुद॑गृह्णात्।
तं ज्योतिः॒ पश्य॑न्तीः प्र॒जा अ॒भि स॒माव॑र्तन्त।
उ॒परी॑वा॒ग्निमुद्गृ॑ह्णीयादु॒द्धरन्॑।
ज्योति॑रे॒व पश्य॑न्तीः प्र॒जा यज॑मानम॒भि स॒माव॑र्तन्ते।
प्र॒जाप॑ते॒रक्ष्य॑श्वयत्।
तत्परा॑ऽपतत्।
तदश्वो॑ऽभवत्।
तदश्व॑स्याश्व॒त्वम्॥३८॥
ए॒ष वै प्र॒जाप॑तिः।
यद॒ग्निः।
प्रा॒जा॒प॒त्योऽश्वः॑।
यदश्वं॑ पु॒रस्ता॒न्नय॑ति।
स्वमे॒व चक्षुः॒ पश्य॑न्प्र॒जाप॑ति॒रनूदे॑ति।
व॒ज्री वा ए॒षः।
यदश्वः॑।
यदश्वं॑ पु॒रस्ता॒न्नय॑ति।
जा॒ताने॒व भ्रातृ॑व्या॒न्प्रणु॑दते।
पुन॒रा व॑र्तयति॥३९॥
ज॒नि॒ष्यमा॑णाने॒व प्रति॑नुदते।
न्या॑हव॒नीयो॒ गार्ह॑पत्यमकामयत।
निगार्ह॑पत्य आहव॒नीयम्᳚।
तौ वि॒भाजं॒ नाश॑क्नोत्।
सोऽश्वः॑ पूर्व॒वाड्भू॒त्वा।
प्राञ्चं॒ पूर्व॒मुद॑वहत्।
तत्पू᳚र्व॒वाहः॑ पूर्ववा॒ट्त्वम्।
यदश्वं॑ पु॒रस्ता॒न्नय॑ति।
विभ॑क्तिरे॒वैन॑योः॒ सा।
अथो॒ नाना॑वीर्यावे॒वैनौ॑ कुरुते॥४०॥
यदु॒पर्यु॑परि॒ शिरो॒ हरे᳚त्।
प्रा॒णान् विच्छि॑न्द्यात्।
अ॒धो॑ऽधः॒ शिरो॑ हरति।
प्रा॒णानां᳚ गोपी॒थाय॑।
इय॒त्यग्रे॑ हरति।
अथेय॒त्यथेय॑ति।
त्रय॑ इ॒मे लो॒काः।
ए॒ष्वे॑वैनं॑ लो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते।
प्र॒जाप॑तिर॒ग्निम॑सृजत।
सो॑ऽबिभे॒त्प्र मा॑ धक्ष्य॒तीति॑॥४१॥
तस्य॑ त्रे॒धा म॑हि॒मानं॒ व्यौ॑हत्।
शान्त्या॒ अप्र॑दाहाय।
यत्त्रे॒धाऽग्निरा॑धी॒यते᳚।
म॒हि॒मान॑मे॒वास्य॒ तद्व्यू॑हति।
शान्त्या॒ अप्र॑दाहाय।
पुन॒रा व॑र्तयति।
म॒हि॒मान॑मे॒वास्य॒ सन्द॑धाति।
प॒शुर्वा ए॒षः।
यदश्वः॑।
ए॒ष रु॒द्रः॥४२॥
यद॒ग्निः।
यदश्व॑स्य प॒दे᳚ऽग्निमा॑द॒ध्यात्।
रु॒द्राय॑ प॒शूनपि॑दध्यात्।
अ॒प॒शुर्यज॑मानः स्यात्।
यन्नाक्र॒मये᳚त्।
अन॑वरुद्धा अस्य प॒शवः॑ स्युः।
पा॒र्श्व॒त आक्र॑मयेत्।
यथाऽऽहि॑तस्या॒ग्नेरङ्गा॑रा अभ्यव॒वर्ते॑रन्।
अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति।
न रु॒द्रायापि॑दधाति॥४३॥
त्रीणि॑ ह॒वीꣳषि॒ निर्व॑पति।
वि॒राज॑ ए॒व विक्रा᳚न्तं॒ यज॑मा॒नोऽनु॒ विक्र॑मते।
अ॒ग्नये॒ पव॑मानाय।
अ॒ग्नये॑ पाव॒काय॑।
अ॒ग्नये॒ शुच॑ये।
यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति।
पु॒नात्ये॒वैनम्᳚।
यद॒ग्नये॑ पाव॒काय॑।
पू॒त ए॒वास्मि॑न्न॒न्नाद्यं॑ दधाति।
यद॒ग्नये॒ शुच॑ये।
ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॑न्नु॒परि॑ष्टाद्दधाति॥४४॥
अनुवाक 6
दे॒वा॒सु॒राः संय॑त्ता आसन्।
ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑।
अ॒ग्नौ वा॒मं वसु॒ सं न्य॑दधत।
इ॒दमु॑ नो भविष्यति।
यदि॑ नो जे॒ष्यन्तीति॑।
तद॒ग्निर्नोथ्सह॑मशक्नोत्।
तत् त्रे॒धा विन्य॑दधात्।
प॒शुषु॒ तृती॑यम्।
अ॒फ्सु तृती॑यम्।
आ॒दि॒त्ये तृती॑यम्॥४५॥
तद्दे॒वा वि॒जित्य॑।
पुन॒रवा॑रुरुथ्सन्त।
ते᳚ऽग्नये॒ पव॑मानाय पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपन्।
प॒शवो॒ वा अ॒ग्निः पव॑मानः।
यदे॒व प॒शुष्वासी᳚त्।
तत्तेनावा॑रुन्धत।
ते᳚ऽग्नये॑ पाव॒काय॑।
आपो॒ वा अ॒ग्निः पा॑व॒कः।
यदे॒वाफ्स्वासी᳚त्।
तत्तेनावा॑रुन्धत॥४६॥
ते᳚ऽग्नये॒ शुच॑ये।
अ॒सौ वा आ॑दि॒त्यो᳚ऽग्निः शुचिः॑।
यदे॒वाऽऽदि॒त्य आसी᳚त्।
तत्तेनावा॑रुन्धत।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
त॒नुवो॒ वावैता अ॑ग्न्या॒धेय॑स्य।
आ॒ग्ने॒यो वा अ॒ष्टाक॑पालोऽग्न्या॒धेय॒मिति॑।
यत्तं नि॒र्वपे᳚त्।
नैतानि॑।
यथा॒ऽऽत्मा स्यात्॥४७॥
नाङ्गा॑नि।
ता॒दृगे॒व तत्।
यदे॒तानि॑ नि॒र्वपे᳚त्।
न तम्।
यथाऽङ्गा॑नि॒ स्युः।
नाऽऽत्मा।
ता॒दृगे॒व तत्।
उ॒भया॑नि स॒ह नि॒रुप्या॑णि।
य॒ज्ञस्य॑ सात्म॒त्वाय॑।
उ॒भयं॒ वा ए॒तस्ये᳚न्द्रि॒यं वी॒र्य॑माप्यते॥४८॥
यो᳚ऽग्निमा॑ध॒त्ते।
ऐ॒न्द्रा॒ग्नमेका॑दशकपाल॒मनु॒ निर्व॑पेत्।
आ॒दि॒त्यं च॒रुम्।
इ॒न्द्रा॒ग्नी वै दे॒वाना॒मया॑तयामानौ।
ये ए॒व दे॒वते॒ अया॑तयाम्नी।
ताभ्या॑मे॒वास्मा॑ इन्द्रि॒यं वी॒र्य॑मव॑ रुन्धे।
आ॒दि॒त्यो भ॑वति।
इ॒यं वा अदि॑तिः।
अ॒स्यामे॒व प्रति॑ तिष्ठति।
धे॒न्वै वा ए॒तद्रेतः॑॥४९॥
यदाज्यम्᳚।
अ॒न॒डुह॑स्तण्डु॒लाः।
मि॒थु॒नमे॒वाव॑ रुन्धे।
घृ॒ते भ॑वति।
य॒ज्ञस्यालू᳚क्षान्तत्वाय।
च॒त्वार॑ आर्षे॒याः प्राश्ञ॑न्ति।
दि॒शामे॒व ज्योति॑षि जुहोति।
प॒शवो॒ वा ए॒तानि॑ ह॒वीꣳषि॑।
ए॒ष रु॒द्रः।
यद॒ग्निः॥५०॥
यथ्स॒द्य ए॒तानि॑ ह॒वीꣳषि॑ नि॒र्वपे᳚त्।
रु॒द्राय॑ प॒शूनपि॑ दध्यात्।
अ॒प॒शुर्यज॑मानः स्यात्।
यन्नानु॑नि॒र्वपे᳚त्।
अन॑वरुद्धा अस्य प॒शवः॑ स्युः।
द्वा॒द॒शसु॒ रात्री॒ष्वनु॒ निर्व॑पेत्।
सं॒व॒थ्स॒रप्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः।
सं॒व॒थ्स॒रेणै॒वास्मै॑ रु॒द्रꣳ श॑मयि॒त्वा।
प॒शूनव॑ रुन्धे।
यदेक॑मेकमे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वपे᳚त्॥५१॥
यथा॒ त्रीण्या॒वप॑नानि पू॒रये᳚त्।
ता॒दृक्तत्।
न प्र॒जन॑न॒मुच्छिꣳ॑षेत्।
एकं॑ नि॒रुप्य॑।
उत्त॑रे॒ सम॑स्येत्।
तृ॒तीय॑मे॒वास्मै॑ लो॒कमुच्छिꣳ॑षति प्र॒जन॑नाय।
तं प्र॒जया॑ प॒शुभि॒रनु॒ प्रजा॑यते।
अथो॑ य॒ज्ञस्यै॒वैषाऽभिक्रा᳚न्तिः।
र॒थ॒च॒क्रं प्रव॑र्तयति।
म॒नु॒ष्य॒र॒थेनै॒व दे॑वर॒थं प्र॒त्यव॑रोहति॥५२॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
हो॒त॒व्य॑मग्निहो॒त्राँ(३) न हो॑त॒व्या(३) मिति॑।
यद्यजु॑षा जुहु॒यात्।
अय॑थापूर्व॒माहु॑ती जुहुयात्।
यन्न जु॑हु॒यात्।
अ॒ग्निः परा॑ भवेत्।
तू॒ष्णीमे॒व हो॑त॒व्यम्᳚।
य॒था॒पू॒र्वमाहु॑ती जु॒होति॑।
नाग्निः परा॑भवति।
अ॒ग्नीधे॑ ददाति॥५३॥
अ॒ग्निमु॑खाने॒वर्तून्प्री॑णाति।
उ॒प॒बर्ह॑णं ददाति।
रू॒पाणा॒मव॑रुद्ध्यै।
अश्वं॑ ब्र॒ह्मणे᳚।
इ॒न्द्रि॒यमे॒वाव॑ रुन्धे।
धे॒नुꣳ होत्रे᳚।
आ॒शिष॑ ए॒वाव॑ रुन्धे।
अ॒न॒ड्वाह॑मध्व॒र्यवे᳚।
वह्नि॒र्वा अ॑न॒ड्वान्।
वह्नि॑रध्व॒र्युः॥५४॥
वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्याव॑ रुन्धे।
मि॒थु॒नौ गावौ॑ ददाति।
मि॒थु॒नस्याव॑रुद्ध्यै।
वासो॑ ददाति।
स॒र्व॒दे॒व॒त्यं॑ वै वासः॑।
सर्वा॑ ए॒व दे॒वताः᳚ प्रीणाति।
आ द्वा॑द॒शभ्यो॑ ददाति।
द्वाद॑श॒ मासाः᳚ संवथ्स॒रः।
सं॒व॒थ्स॒र ए॒व प्रति॑ तिष्ठति।
काम॑मू॒र्ध्वं देयम्᳚।
अप॑रिमित॒स्याव॑रुद्ध्यै॥५५॥
अनुवाक 7
घ॒र्मः शिर॒स्तद॒यम॒ग्निः।
सम्प्रि॑यः प॒शुभि॑र्भुवत्।
छ॒र्दिस्तो॒काय॒ तन॑याय यच्छ।
वातः॑ प्रा॒णस्तद॒यम॒ग्निः।
सम्प्रि॑यः प॒शुभि॑र्भुवत्।
स्व॒दि॒तं तो॒काय॒ तन॑याय पि॒तुं प॑च।
प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान्।
अ॒ग्नेर॑ग्ने पु॒रो अ॑ग्निर्भवे॒ह।
विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॑हि।
ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे॥५६॥
अ॒र्कश्चक्षु॒स्तद॒सौ सूर्य॒स्तद॒यम॒ग्निः।
सम्प्रि॑यः प॒शुभि॑र्भुवत्।
यत्ते॑ शुक्र शु॒क्रं वर्चः॑ शु॒क्रा त॒नूः।
शु॒क्रं ज्योति॒रज॑स्रम्।
तेन॑ मे दीदिहि॒ तेन॒ त्वाऽऽद॑धे।
अ॒ग्निना᳚ऽग्ने॒ ब्रह्म॑णा।
आ॒न॒शे व्या॑नशे॒ सर्व॒मायु॒र्व्या॑नशे।
ये ते॑ अग्ने शि॒वे त॒नुवौ᳚।
वि॒राट्च॑ स्व॒राट्च॑।
ते मावि॑शतां॒ ते मा॑ जिन्वताम्॥५७॥
ये ते॑ अग्ने शि॒वे त॒नुवौ᳚।
स॒म्राट्चा॑भि॒भूश्च॑।
ते मावि॑शतां॒ ते मा॑ जिन्वताम्।
ये ते॑ अग्ने शि॒वे त॒नुवौ᳚।
वि॒भूश्च॑ परि॒भूश्च॑।
ते मा वि॑शतां॒ ते मा॑ जिन्वताम्।
ये ते॑ अग्ने शि॒वे त॒नुवौ᳚।
प्र॒भ्वी च॒ प्रभू॑तिश्च।
ते मा वि॑शतां॒ ते मा॑ जिन्वताम्।
यास्ते॑ अग्ने शि॒वास्त॒नुवः॑।
ताभि॒स्त्वाऽऽद॑धे।
यास्ते॑ अग्ने घो॒रास्त॒नुवः॑।
ताभि॑र॒मुं ग॑च्छ॥५८॥
अनुवाक 8
इ॒मे वा ए॒ते लो॒का अ॒ग्नयः॑।
ते यदव्या॑वृत्ता आधी॒येरन्॑।
शो॒चये॑यु॒र्यज॑मानम्।
घ॒र्मः शिर॒ इति॒ गार्ह॑पत्य॒मा द॑धाति।
वातः॑ प्रा॒ण इत्य॑न्वाहार्य॒पच॑नम्।
अ॒र्कश्चक्षु॒रित्या॑हव॒नीयम्᳚।
तेनै॒वैना॒न्व्याव॑र्तयति।
तथा॒ न शो॑चयन्ति॒ यज॑मानम्।
र॒थ॒न्त॒रम॒भिगा॑यते॒ गार्ह॑पत्य आधी॒यमा॑ने।
राथ॑न्तरो॒ वा अ॒यं लो॒कः॥५९॥
अ॒स्मिन्ने॒वैनं॑ लो॒के प्रति॑ष्ठित॒मा ध॑त्ते।
वा॒म॒दे॒व्यम॒भिगा॑यत उद्ध्रि॒यमा॑णे।
अ॒न्तरि॑क्षं॒ वै वा॑मदे॒व्यम्।
अ॒न्तरि॑क्ष ए॒वैनं॒ प्रति॑ष्ठित॒माध॑त्ते।
अथो॒ शान्ति॒र्वै वा॑मदे॒व्यम्।
शा॒न्तमे॒वैनं॑ पश॒व्य॑मुद्ध॑रते।
बृ॒हद॒भिगा॑यत आहव॒नीय॑ आधी॒यमा॑ने।
बार्ह॑तो॒ वा अ॒सौ लो॒कः।
अ॒मुष्मि॑न्ने॒वैनं॑ लो॒के प्रति॑ष्ठित॒माध॑त्ते।
प्र॒जाप॑तिर॒ग्निम॑सृजत॥६०॥
सोऽश्वो॒ऽवारो॑ भू॒त्वा परा॑ङैत्।
तं वा॑रव॒न्तीये॑नावारयत।
तद्वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्वम्।
श्यै॒तेन॑ श्ये॒ती अ॑कुरुत।
तच्छ्यै॒तस्य॑ श्यैत॒त्वम्।
यद्वा॑रव॒न्तीय॑मभि॒ गाय॑ते।
वा॒र॒यि॒त्वैवैनं॒ प्रति॑ष्ठित॒मा ध॑त्ते।
श्यै॒तेन॑ श्ये॒ती कु॑रुते।
घ॒र्मः शिर॒ इति॒ गार्ह॑पत्य॒माद॑धाति।
सशी॑र्षाणमे॒वैन॒मा ध॑त्ते॥६१॥
उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मति।
रु॒द्रो वा ए॒षः।
यद॒ग्निः।
स आ॑धी॒यमा॑न ईश्व॒रो यज॑मानस्य प॒शून् हिꣳसि॑तोः।
सम्प्रि॑यः प॒शुभि॑र्भुव॒दित्या॑ह।
प॒शुभि॑रे॒वैन॒ꣳ॒ सम्प्रि॑यं करोति।
प॒शू॒नामहिꣳ॑सायै।
छ॒र्दिस्तो॒काय॒ तन॑याय य॒च्छेत्या॑ह।
आ॒मे॒वैतामा शा᳚स्ते।
वातः॑ प्रा॒ण इत्य॑न्वाहार्य॒पच॑नम्॥६२॥
सप्रा॑णमे॒वैन॒मा ध॑त्ते।
स्व॒दि॒तं तो॒काय॒ तन॑याय पि॒तुं प॒चेत्या॑ह।
अन्न॑मे॒वास्मै᳚ स्वदयति।
प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वानित्या॑ह।
विभ॑क्तिरे॒वैन॑योः॒ सा।
अथो॒ नाना॑वीर्यावे॒वैनौ॑ कुरुते।
ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒ इत्या॑ह।
आ॒मे॒वैतामा शा᳚स्ते।
अ॒र्कश्चक्षु॒रित्या॑हव॒नीयम्᳚।
अ॒र्को वै दे॒वाना॒मन्नम्᳚॥६३॥
अन्न॑मे॒वाव॑ रुन्धे।
तेन॑ मे दीदि॒हीत्या॑ह।
समि॑न्ध ए॒वैनम्᳚।
आ॒न॒शे व्या॑नश॒ इति॒ त्रिरुदि॑ङ्गयति।
त्रय॑ इ॒मे लो॒काः।
ए॒ष्वे॑वैनं॑ लो॒केषु॒ प्रति॑ष्ठित॒मा ध॑त्ते।
तत्तथा॒ न का॒र्यम्᳚।
वीङ्गि॑त॒मप्र॑तिष्ठित॒मा द॑धीत।
उ॒द्धृत्यै॒वाधाया॑भि॒मन्त्रियः॑।
अवी᳚ङ्गितमे॒वैनं॒ प्रति॑ष्ठित॒माध॑त्ते।
वि॒राट्च॑ स्व॒राट्च॒ यास्ते॑ अग्ने शि॒वास्त॒नुव॒स्ताभि॒स्त्वाऽऽद॑ध॒ इत्या॑ह।
ए॒ता वा अ॒ग्नेः शि॒वास्त॒नुवः॑।
ताभि॑रे॒वैन॒ꣳ॒ सम॑र्धयति।
यास्ते॑ अग्ने घो॒रास्त॒नुव॒स्ताभि॑र॒मुं ग॒च्छेति॑ ब्रूया॒द्यं द्वि॒ष्यात्।
ताभि॑रे॒वैनं॒ परा॑भावयति॥६४॥
अनुवाक 9
श॒मी॒ग॒र्भाद॒ग्निं म॑न्थति।
ए॒षा वा अ॒ग्नेर्य॒ज्ञिया॑ त॒नूः।
तामे॒वास्मै॑ जनयति।
अदि॑तिः पु॒त्रका॑मा।
सा॒ध्येभ्यो॑ दे॒वेभ्यो᳚ ब्रह्मौद॒नम॑पचत्।
तस्या॑ उ॒च्छेष॑णमददुः।
तत्प्राश्ञा᳚त्।
सा रेतो॑ऽधत्त।
तस्यै॑ धा॒ता चा᳚र्य॒मा चा॑जायेताम्।
सा द्वि॒तीय॑मपचत्॥६५॥
तस्या॑ उ॒च्छेष॑णमददुः।
तत्प्राश्ञा᳚त्।
सा रेतो॑ऽधत्त।
तस्यै॑ मि॒त्रश्च॒ वरु॑णश्चाजायेताम्।
सा तृ॒तीय॑मपचत्।
तस्या॑ उ॒च्छेष॑णमददुः।
तत्प्राश्ञा᳚त्।
सा रेतो॑ऽधत्त।
तस्या॒ अꣳश॑श्च॒ भग॑श्चाजायेताम्।
सा च॑तु॒र्थम॑पचत्॥६६॥
तस्या॑ उ॒च्छेष॑णमददुः।
तत्प्राश्ञा᳚त्।
सा रेतो॑ऽधत्त।
तस्या॒ इन्द्र॑श्च॒ विव॑स्वाꣴश्चाजायेताम्।
ब्र॒ह्मौ॒द॒नं प॑चति।
रेत॑ ए॒व तद्द॑धाति।
प्राश्ञ॑न्ति ब्राह्म॒णा ओ॑द॒नम्।
यदाज्य॑मु॒च्छिष्य॑ते।
तेन॑ स॒मिधो॒ऽभ्यज्या द॑धाति।
उ॒च्छेष॑णा॒द्वा अदि॑ती॒ रेतो॑ऽधत्त॥६७॥
उ॒च्छेष॑णादे॒व तद्रेतो॑ धत्ते।
अस्थि॒ वा ए॒तत्।
यथ्स॒मिधः॑।
ए॒तद्रेतः॑।
यदाज्यम्᳚।
यदाज्ये॑न स॒मिधो॒ऽभ्यज्या॒दधा॑ति।
अस्थ्ये॒व तद्रेत॑सि दधाति।
ति॒स्र आद॑धाति मिथुन॒त्वाय॑।
इय॑तीर्भवन्ति।
प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑ताः॥६८॥
इय॑तीर्भवन्ति।
य॒ज्ञ॒प॒रुषा॒ सम्मि॑ताः।
इय॑तीर्भवन्ति।
ए॒ताव॒द्वै पुरु॑षे वी॒र्यम्᳚।
वी॒र्य॑सम्मिताः।
आ॒र्द्रा भ॑वन्ति।
आ॒र्द्रमि॑व॒ हि रेतः॑ सि॒च्यते᳚।
चित्रि॑यस्याश्व॒त्थस्याद॑धाति।
चि॒त्रमे॒व भ॑वति।
घृ॒तव॑तीभि॒रा द॑धाति॥६९॥
ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॑।
यद्घृ॒तम्।
प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धयति।
अथो॒ तेज॑सा।
गा॒य॒त्रीभि॑र्ब्राह्म॒णस्याद॑ध्यात्।
गा॒य॒त्रछ॑न्दा॒ वै ब्रा᳚ह्म॒णः।
स्वस्य॒ छन्द॑सः प्रत्ययन॒स्त्वाय॑।
त्रि॒ष्टुग्भी॑ राज॒न्य॑स्य।
त्रि॒ष्टुप्छ॑न्दा॒ वै रा॑ज॒न्यः॑।
स्वस्य॒ छन्द॑सः प्रत्ययन॒स्त्वाय॑॥७०॥
जग॑तीभि॒र्वैश्य॑स्य।
जग॑तीछन्दा॒ वै वैश्यः॑।
स्वस्य॒ छन्द॑सः प्रत्ययन॒स्त्वाय॑।
तꣳ सं॑वथ्स॒रं गो॑पायेत्।
सं॒व॒थ्स॒रꣳ हि रेतो॑ हि॒तं वर्ध॑ते।
यद्ये॑नꣳ संवथ्स॒रे नोप॒नमे᳚त्।
स॒मिधः॒ पुन॒राद॑ध्यात्।
रेत॑ ए॒व तद्धि॒तं वर्ध॑मानमेति।
न मा॒ꣳ॒सम॑श्ञीयात्।
न स्त्रिय॒मुपे॑यात्॥७१॥
यन्मा॒ꣳ॒सम॑श्ञी॒यात्।
यथ्स्त्रिय॑मुपे॒यात्।
निर्वी᳚र्यः स्यात्।
नैन॑म॒ग्निरुप॑नमेत्।
श्व आ॑धा॒स्यमा॑नो ब्रह्मौद॒नं प॑चति।
आ॒दि॒त्या वा इ॒त उ॑त्त॒माः सु॑व॒र्गं लो॒कमा॑यन्।
ते वा इ॒तो यन्तं॒ प्रति॑नुदन्ते।
ए॒ते खलु॒ वावाऽऽदि॒त्याः।
यद्ब्रा᳚ह्म॒णाः।
तैरे॒व स॒न्त्वं ग॑च्छति॥७२॥
नैनं॒ प्रति॑नुदन्ते।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
क्वा॑ सः।
अ॒ग्निः का॒र्यः॑।
यो᳚ऽस्मै प्र॒जां प॒शून्प्र॑ज॒नय॒तीति॑।
शल्कै॒स्ताꣳरात्रि॑म॒ग्निमि॑न्धीत।
तस्मि॑न्नुपव्यु॒षम॒रणी॒ निष्ट॑पेत्।
यथ॑र्ष॒भाय॑ वाशि॒ता न्या॑विच्छा॒यति॑।
ता॒दृगे॒व तत्।
अ॒पो॒दूह्य॒ भस्मा॒ग्निं म॑न्थति॥७३॥
सैव साऽग्नेः सन्त॑तिः।
तं म॑थि॒त्वा प्राञ्च॒मुद्ध॑रति।
सं॒व॒थ्स॒रमे॒व तद्रेतो॑ हि॒तं प्रज॑नयति।
अना॑हित॒स्तस्या॒ग्निरित्या॑हुः।
यः स॒मिधोऽना॑धाया॒ग्निमा॑ध॒त्त इति॑।
ताः सं॑वथ्स॒रे पु॒रस्ता॒दाद॑ध्यात्।
सं॒व॒थ्स॒रादे॒वैन॑मव॒रुध्याऽऽध॑त्ते।
यदि॑ संवथ्स॒रेऽनाद॒ध्यात्।
द्वा॒द॒श्यां᳚ पु॒रस्ता॒दाद॑ध्यात्।
सं॒व॒थ्स॒रप्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः।
सं॒व॒थ्स॒रमे॒वास्याऽऽहि॑ता भवन्ति।
यदि॑ द्वाद॒श्यां᳚ नाद॒ध्यात्।
त्र्य॒हे पु॒रस्ता॒दाद॑ध्यात्।
आहि॑ता ए॒वास्य॑ भवन्ति॥७४॥
अनुवाक 10
प्र॒जाप॑तिः प्र॒जा अ॑सृजत।
स रि॑रिचा॒नो॑ऽमन्यत।
स तपो॑ऽतप्यत।
स आ॒त्मन्वी॒र्य॑मपश्यत्।
तद॑वर्धत।
तद॑स्मा॒थ्सह॑सो॒र्ध्वम॑सृज्यत।
सा वि॒राड॑भवत्।
तां दे॑वासु॒रा व्य॑गृह्णत।
सो᳚ऽब्रवीत्प्र॒जाप॑तिः।
मम॒ वा ए॒षा॥७५॥
दोहा॑ ए॒व यु॒ष्माक॒मिति॑।
सा ततः॒ प्राच्युद॑क्रामत्।
तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात्।
अथ॑र्व पि॒तुं मे॑ गोपा॒येति॑।
सा द्वि॒तीय॒मुद॑क्रामत्।
तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात्।
नर्य॑ प्र॒जां मे॑ गोपा॒येति॑।
सा तृ॒तीय॒मुद॑क्रामत्।
तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात्।
शꣴस्य॑ प॒शून्मे॑ गोपा॒येति॑॥७६॥
सा च॑तु॒र्थमुद॑क्रामत्।
तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात्।
सप्र॑थ स॒भां मे॑ गोपा॒येति॑।
सा प॑ञ्च॒ममुद॑क्रामत्।
तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात्।
अहे॑ बुध्निय॒ मन्त्रं॑ मे गोपा॒येति॑।
अ॒ग्नीन् वाव सा तान्व्य॑क्रमत।
तान्प्र॒जाप॑तिः॒ पर्य॑गृह्णात्।
अथो॑ प॒ङ्क्तिमे॒व।
प॒ङ्क्तिर्वा ए॒षा ब्रा᳚ह्म॒णे प्रवि॑ष्टा॥७७॥
तामा॒त्मनोऽधि॒ निर्मि॑मीते।
यद॒ग्निरा॑धी॒यते᳚।
तस्मा॑दे॒ताव॑न्तो॒ऽग्नय॒ आधी॑यन्ते।
पाङ्क्तं॒ वा इ॒दꣳ सर्वम्᳚।
पाङ्क्ते॑नै॒व पाङ्क्तꣴ॑ स्पृणोति।
अथ॑र्व पि॒तुं मे॑ गोपा॒येत्या॑ह।
अन्न॑मे॒वैतेन॑ स्पृणोति।
नर्य॑ प्र॒जां मे॑ गोपा॒येत्या॑ह।
प्र॒जामे॒वैतेन॑ स्पृणोति।
शꣴस्य॑ प॒शून्मे॑ गोपा॒येत्या॑ह॥७८॥
प॒शूने॒वैतेन॑ स्पृणोति।
सप्र॑थ स॒भां मे॑ गोपा॒येत्या॑ह।
स॒भामे॒वैतेने᳚न्द्रि॒यꣴ स्पृ॑णोति।
अहे॑ बुध्निय॒ मन्त्रं॑ मे गोपा॒येत्या॑ह।
मन्त्र॑मे॒वैतेन॒ श्रियꣴ॑ स्पृणोति।
यद॑न्वाहार्य॒पच॑नेऽन्वाहा॒र्यं॑ पच॑न्ति।
तेन॒ सो᳚ऽस्या॒भीष्टः॑ प्री॒तः।
यद्गार्ह॑पत्य॒ आज्य॑मधि॒श्रय॑न्ति॒ सम्पत्नी᳚र्या॒जय॑न्ति।
तेन॒ सो᳚ऽस्या॒भीष्टः॑ प्री॒तः।
यदा॑हव॒नीये॒ जुह्व॑ति॥७९॥
तेन॒ सो᳚ऽस्या॒भीष्टः॑ प्री॒तः।
यथ्स॒भायां᳚ वि॒जय॑न्ते।
तेन॒ सो᳚ऽस्या॒भीष्टः॑ प्री॒तः।
यदा॑वस॒थेऽन्न॒ꣳ॒ हर॑न्ति।
तेन॒ सो᳚ऽस्या॒भीष्टः॑ प्री॒तः।
तथा᳚ऽस्य॒ सर्वे᳚ प्री॒ता अ॒भीष्टा॒ आधी॑यन्ते।
प्र॒व॒स॒थमे॒ष्यन्ने॒वमुप॑तिष्ठे॒तैक॑मेकम्।
यथा᳚ ब्राह्म॒णाय॑ गृहेवा॒सिने॑ परि॒दाय॑ गृ॒हानेति॑।
ता॒दृगे॒व तत्।
पुन॑रा॒गत्योप॑तिष्ठते।
सा भा॑गेयमे॒वैषां॒ तत्।
सा तत॑ ऊ॒र्ध्वारो॑हत्।
सा रो॑हि॒ण्य॑भवत्।
तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम्।
रो॒हि॒ण्याम॒ग्निमाद॑धीत।
स्व ए॒वैनं॒ योनौ॒ प्रति॑ष्ठित॒माध॑त्ते।
ऋ॒ध्नोत्ये॑नेन॥८०॥