अनुवाक 1
उ॒भये॒ वा ए॒ते प्र॒जाप॑ते॒रध्य॑सृज्यन्त।
दे॒वाश्चासु॑राश्च।
तान्न व्य॑जानात्।
इ॒मे᳚ऽन्य इ॒मे᳚ऽन्य इति॑।
स दे॒वान॒ꣳ॒शून॑करोत्।
तान॒भ्य॑षुणोत्।
तान्प॒वित्रे॑णापुनात्।
तान्प॒रस्ता᳚त्प॒वित्र॑स्य॒ व्य॑गृह्णात्।
ते ग्रहा॑ अभवन्।
तद्ग्रहा॑णां ग्रह॒त्वम्॥१॥
दे॒वता॒ वा ए॒ता यज॑मानस्य गृ॒हे गृ॑ह्यन्ते।
यद्ग्रहाः᳚।
वि॒दुरे॑नं दे॒वाः।
यस्यै॒वं वि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते᳚।
ए॒षा वै सोम॒स्याऽऽहु॑तिः।
यदु॑पा॒ꣳ॒शुः।
सोमे॑न दे॒वाꣴस्त॑र्पया॒णीति॒ खलु॒ वै सोमे॑न यजते।
यदु॑पा॒ꣳ॒शुं जु॒होति॑।
सोमे॑नै॒व तद्दे॒वाꣴस्त॑र्पयति।
यद्ग्रहां᳚ जु॒होति॑॥२॥
दे॒वा ए॒व तद्दे॒वान्ग॑च्छन्ति।
यच्च॑म॒सां जु॒होति॑।
तेनै॒वानु॑रूपेण॒ यज॑मानः सुव॒र्गं लो॒कमे॑ति।
किं न्वे॑तदग्र॑ आसी॒दित्या॑हुः।
यत्पात्रा॒णीति॑।
इ॒यं वा ए॒तदग्र॑ आसीत्।
मृ॒न्मया॑नि॒ वा ए॒तान्या॑सन्।
तैर्दे॒वा न व्या॒वृत॑मगच्छन्।
त ए॒तानि॑ दारु॒मया॑णि॒ पात्रा᳚ण्यपश्यन्।
तान्य॑कुर्वत॥३॥
तैर्वै ते व्या॒वृत॑मगच्छन्।
यद्दा॑रु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्ति।
व्या॒वृत॑मे॒व तैर्यज॑मानो गच्छति।
यानि॑ दारु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्ति।
अ॒मुमे॒व तैर्लो॒कम॒भिज॑यति।
यानि॑ मृ॒न्मया॑नि।
इ॒ममे॒व तैर्लो॒कम॒भिज॑यति।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
काश्चत॑स्रः स्था॒लीर्वा॑य॒व्याः᳚ सोम॒ग्रह॑णी॒रिति॑।
दे॒वा वै पृश्ञि॑मदुह्रन्॥४॥
तस्या॑ ए॒ते स्तना॑ आसन्।
इ॒यं वै पृश्ञिः॑।
तामा॑दि॒त्या आ॑दित्यस्था॒ल्या चतु॑ष्पदः प॒शून॑दुह्रन्।
यदा॑दित्यस्था॒ली भव॑ति।
चतु॑ष्पद ए॒व तया॑ प॒शून् यज॑मान इ॒मां दु॑हे।
तामिन्द्र॑ उक्थ्यस्था॒ल्येन्द्रि॒यम॑दुहत्।
यदु॑क्थ्यस्था॒ली भव॑ति।
इ॒न्द्रि॒यमे॒व तया॒ यज॑मान इ॒मां दु॑हे।
तां विश्वे॑ दे॒वा आ᳚ग्रयणस्था॒ल्योर्ज॑मदुह्रन्।
यदा᳚ग्रयणस्था॒ली भव॑ति॥५॥
ऊर्ज॑मे॒व तया॒ यज॑मान इ॒मां दु॑हे।
तां म॑नु॒ष्या᳚ ध्रुवस्था॒ल्याऽऽयु॑रदुह्रन्।
यद्ध्रु॑वस्था॒ली भव॑ति।
आयु॑रे॒व तया॒ यज॑मान इ॒मां दु॑हे।
स्था॒ल्या गृ॒ह्णाति॑।
वा॒य॒व्ये॑न जुहोति।
तस्मा॑द॒न्येन॒ पात्रे॑ण प॒शून्दु॒हन्ति॑।
अ॒न्येन॒ प्रति॑गृह्णन्ति।
अथो᳚ व्या॒वृत॑मे॒व तद्यज॑मानो गच्छति॥६॥
अनुवाक 2
यु॒वꣳ सु॒राम॑मश्विना।
नमु॑चावासु॒रे सचा᳚।
वि॒पि॒पा॒ना शु॑भस्पती।
इन्द्रं॒ कर्म॑ स्वावतम्।
पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भा।
इन्द्राव॑तं॒ कर्म॑णा द॒ꣳ॒सना॑भिः।
यथ्सु॒रामं॒ व्यपि॑बः॒ शची॑भिः।
सर॑स्वती त्वा मघवन्नभीष्णात्।
अहा᳚व्यग्ने ह॒विरा॒स्ये॑ते।
स्रु॒चीव॑ घृ॒तं च॒मू इ॑व॒ सोमः॑॥७॥
वा॒ज॒सनिꣳ॑ र॒यिम॒स्मे सु॒वीरम्᳚।
प्र॒श॒स्तं धे॑हि य॒शसं॑ बृ॒हन्तम्᳚।
यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणः॑।
व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः।
की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे᳚।
हृ॒दा म॒तिं ज॑नय॒ चारु॑म॒ग्नये᳚।
नाना॒ हि वां᳚ दे॒वहि॑त॒ꣳ॒ सदो॑ मि॒तम्।
मा सꣳसृ॑क्षाथां पर॒मे व्यो॑मन्।
सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः।
मा मा॑ हिꣳसीः॒ स्वां योनि॑मावि॒शन्॥८॥
यदत्र॑ शि॒ष्टꣳ र॒सिनः॑ सु॒तस्य॑।
यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः।
अ॒हं तद॑स्य॒ मन॑सा शि॒वेन॑।
सोम॒ꣳ॒ राजा॑नमि॒ह भ॑क्षयामि।
द्वे स्रु॒ती अ॑शृणवं पितृ॒णाम्।
अ॒हं दे॒वाना॑मु॒त मर्त्या॑नाम्।
ताभ्या॑मि॒दं विश्वं॒ भुव॑न॒ꣳ॒ समे॑ति।
अ॒न्त॒रा पूर्व॒मप॑रं च के॒तुम्।
यस्ते॑ देव वरुण गाय॒त्रछ॑न्दाः॒ पाशः॑।
तं त॑ ए॒तेनाव॑ यजे॥९॥
यस्ते॑ देव वरुण त्रि॒ष्टुप्छ॑न्दाः॒ पाशः॑।
तं त॑ ए॒तेनाव॑ यजे।
यस्ते॑ देव वरुण॒ जग॑तीछन्दाः॒ पाशः॑।
तं त॑ ए॒तेनाव॑ यजे।
सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते।
यो राजा॒ सन्रा॒ज्यो वा॒ सोमे॑न॒ यज॑ते।
दे॒व॒सु॒वामे॒तानि॑ ह॒वीꣳषि॑ भवन्ति।
ए॒ताव॑न्तो॒ वै दे॒वानाꣳ॑ स॒वाः।
त ए॒वास्मै॑ स॒वान्प्रय॑च्छन्ति।
त ए॑नं॒ पुनः॑ सुवन्ते रा॒ज्याय॑।
दे॒व॒सू राजा॑ भवति॥१०॥
अनुवाक 3
उद॑स्थाद्दे॒व्यदि॑तिर्विश्वरू॒पी।
आयु॑र्य॒ज्ञप॑तावधात्।
इन्द्रा॑य कृण्व॒ती भा॒गम्।
मि॒त्राय॒ वरु॑णाय च।
इ॒यं वा अ॑ग्निहो॒त्री।
इ॒यं वा ए॒तस्य॒ निषी॑दति।
यस्या᳚ग्निहो॒त्री नि॒षीद॑ति।
तामुत्था॑पयेत्।
उद॑स्थाद्दे॒व्यदि॑ति॒रिति॑।
इ॒यं वै दे॒व्यदि॑तिः॥११॥
इ॒मामे॒वास्मा॒ उत्था॑पयति।
आयु॑र्य॒ज्ञप॑तावधा॒दित्या॑ह।
आयु॑रे॒वास्मि॑न्दधाति।
इन्द्रा॑य कृण्व॒ती भा॒गं मि॒त्राय॒ वरु॑णाय॒ चेत्या॑ह।
य॒था॒य॒जुरे॒वैतत्।
अव॑र्तिं॒ वा ए॒षैतस्य॑ पा॒प्मानं॑ प्रति॒ख्याय॒ निषी॑दति।
यस्या᳚ग्निहो॒त्र्युप॑सृष्टा नि॒षीद॑ति।
तां दु॒ग्ध्वा ब्रा᳚ह्म॒णाय॑ दद्यात्।
यस्यान्नं॒ नाद्यात्।
अव॑र्तिमे॒वास्मि॑न्पा॒प्मानं॒ प्रति॑मुञ्चति॥१२॥
दु॒ग्ध्वा द॑दाति।
न ह्यदृ॑ष्टा॒ दक्षि॑णा दी॒यते᳚।
पृ॒थि॒वीं वा ए॒तस्य॒ पयः॒ प्रवि॑शति।
यस्या᳚ग्निहो॒त्रं दु॒ह्यमा॑न॒ꣴ॒ स्कन्द॑ति।
यद॒द्य दु॒ग्धं पृ॑थि॒वीमस॑क्त।
यदोष॑धीर॒प्यस॑र॒द्यदापः॑।
पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑।
पयो॑ व॒थ्सेषु॒ पयो॑ अस्तु॒ तन्मयीत्या॑ह।
पय॑ ए॒वाऽऽत्मन्गृ॒हेषु॑ प॒शुषु॑ धत्ते।
अ॒प उप॑सृजति॥१३॥
अ॒द्भिरे॒वैन॑दाप्नोति।
यो वै य॒ज्ञस्याऽऽर्ते॒ नाना᳚र्तꣳ सꣳसृ॒जति॑।
उ॒भे वै ते तर्ह्यार्च्छ॑तः।
आर्च्छ॑ति॒ खलु॒ वा ए॒तद॑ग्निहो॒त्रम्।
यद्दु॒ह्यमा॑न॒ꣴ॒ स्कन्द॑ति।
यद॑भिदु॒ह्यात्।
आर्ते॒ नाना᳚र्तं य॒ज्ञस्य॒ सꣳसृ॑जेत्।
तदे॒व या॒दृक्की॒दृक्च॑ होत॒व्यम्᳚।
अथा॒न्यां दु॒ग्ध्वा पुन॑र्होत॒व्यम्᳚।
अना᳚र्तेनै॒वार्तं॑ य॒ज्ञस्य॒ निष्क॑रोति॥१४॥
यद्युद्द्रु॑तस्य॒ स्कन्दे᳚त्।
यत्ततोऽहु॑त्वा॒ पुन॑रे॒यात्।
य॒ज्ञं विच्छि॑न्द्यात्।
यत्र॒ स्कन्दे᳚त्।
तन्नि॒षद्य॒ पुन॑र्गृह्णीयात्।
यत्रै॒व स्कन्द॑ति।
तत॑ ए॒वैन॒त्पुन॑र्गृह्णाति।
तदे॒व या॒दृक्की॒दृक्च॑ होत॒व्यम्᳚।
अथा॒न्यां दु॒ग्ध्वा पुन॑र्होत॒व्यम्᳚।
अना᳚र्तेनै॒वार्तं॑ य॒ज्ञस्य॒ निष्क॑रोति॥१५॥
वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते।
यस्या᳚ग्निहो॒त्रे॑ऽधिश्रि॑ते॒ श्वाऽन्त॒रा धाव॑ति।
रु॒द्रः खलु॒ वा ए॒षः।
यद॒ग्निः।
यद्गाम॑न्वत्या व॒र्तये᳚त्।
रु॒द्राय॑ प॒शूनपि॑ दध्यात्।
अ॒प॒शुर्यज॑मानः स्यात्।
यद॒पो᳚ऽन्वतिषि॒ञ्चेत्।
अ॒ना॒द्यम॒ग्नेरापः॑।
अ॒ना॒द्यमा᳚भ्या॒मपि॑ दध्यात्।
गार्ह॑पत्या॒द्भस्मा॒दाय॑।
इ॒दं विष्णु॒र्विच॑क्रम॒ इति॑ वैष्ण॒व्यर्चाऽऽह॑व॒नीया᳚द्ध्व॒ꣳ॒सय॒न्नुद्र॑वेत्।
य॒ज्ञो वै विष्णुः॑।
य॒ज्ञेनै॒व य॒ज्ञꣳ सं त॑नोति।
भस्म॑ना प॒दमपि॑ वपति॒ शान्त्यै᳚॥१६॥
अनुवाक 4
नि वा ए॒तस्या॑ऽऽहव॒नीयो॒ गार्ह॑पत्यं कामयते।
निगार्ह॑पत्य आहव॒नीयम्᳚।
यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूर्यो॒ऽभि नि॒म्रोच॑ति।
द॒र्भेण॒ हिर॑ण्यं प्र॒बद्ध्य॑ पु॒रस्ता᳚द्धरेत्।
अथा॒ग्निम्।
अथा᳚ग्निहो॒त्रम्।
यद्धिर॑ण्यं पु॒रस्ता॒द्धर॑ति।
ज्योति॒र्वै हिर॑ण्यम्।
ज्योति॑रे॒वैनं॒ पश्य॒न्नुद्ध॑रति।
यद॒ग्निं पूर्व॒ꣳ॒ हर॒त्यथा᳚ग्निहो॒त्रम्॥१७॥
भा॒ग॒धेये॑नै॒वैनं॒ प्रण॑यति।
ब्रा॒ह्म॒ण आ॑र्षे॒य उद्ध॑रेत्।
ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वताः᳚।
सर्वा॑भिरे॒वैनं॑ दे॒वता॑भि॒रुद्ध॑रति।
अ॒ग्नि॒हो॒त्रमु॑प॒साद्यातमि॑तोरासीत।
व्र॒तमे॒व ह॒तमनु॑ म्रियते।
अन्तं॒ वा ए॒ष आ॒त्मनो॑ गच्छति।
यस्ताम्य॑ति।
अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति।
यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूर्यो॒ऽभि नि॒म्रोच॑ति॥१८॥
पुनः॑ स॒मन्य॑ जुहोति।
अन्ते॑नै॒वान्तं॑ य॒ज्ञस्य॒ निष्क॑रोति।
वरु॑णो॒ वा ए॒तस्य॑ य॒ज्ञं गृ॑ह्णाति।
यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूर्यो॒ऽभि नि॒म्रोच॑ति।
वा॒रु॒णं च॒रुं निर्व॑पेत्।
तेनै॒व य॒ज्ञं निष्क्री॑णीते।
नि वा ए॒तस्या॑ऽऽहव॒नीयो॒ गार्ह॑पत्यं कामयते।
नि गार्ह॑पत्य आहव॒नीयम्᳚।
यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूर्यो॒ऽभ्यु॑देति॑।
च॒तु॒र्गृ॒ही॒तमाज्यं॑ पु॒रस्ता᳚द्धरेत्॥१९॥
अथा॒ग्निम्।
अथा᳚ग्निहो॒त्रम्।
यदाज्यं॑ पु॒रस्ता॒द्धर॑ति।
ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॑।
यदाज्यम्᳚।
प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धयति।
यद॒ग्निं पूर्व॒ꣳ॒ हर॒त्यथा᳚ग्निहो॒त्रम्।
भा॒ग॒धेये॑नै॒वैनं॒ प्रण॑यति।
ब्रा॒ह्म॒ण आ॑र्षे॒य उद्ध॑रेत्।
ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वताः᳚॥२०॥
सर्वा॑भिरे॒वैनं॑ दे॒वता॑भि॒रुद्ध॑रति।
परा॑ची॒ वा ए॒तस्मै᳚ व्यु॒च्छन्ती॒ व्यु॑च्छति।
यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूर्यो॒ऽभ्यु॑देति॑।
उ॒षाः के॒तुना॑ जुषताम्।
य॒ज्ञं दे॒वेभि॑रिन्वि॒तम्।
दे॒वेभ्यो॒ मधु॑मत्तम॒ꣴ॒ स्वाहेति॑ प्र॒त्यङ्नि॒षद्याज्ये॑न जुहुयात्।
प्र॒तीची॑मे॒वास्मै॒ विवा॑सयति।
अ॒ग्नि॒हो॒त्रमु॑प॒साद्यातमि॑तोरासीत।
व्र॒तमे॒व ह॒तमनु॑ म्रियते।
अन्तं॒ वा ए॒ष आ॒त्मनो॑ गच्छति॥२१॥
यस्ताम्य॑ति।
अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति।
यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूर्यो॒ऽभ्यु॑देति॑।
पुनः॑ स॒मन्य॑ जुहोति।
अन्ते॑नै॒वान्तं॑ य॒ज्ञस्य॒ निष्क॑रोति।
मि॒त्रो वा ए॒तस्य॑ य॒ज्ञं गृ॑ह्णाति।
यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूर्यो॒ऽभ्यु॑देति॑।
मै॒त्रं च॒रुं निर्व॑पेत्।
तेनै॒व य॒ज्ञं निष्क्री॑णीते।
यस्या॑ऽऽहव॒नीयेऽनु॑द्वाते॒ गार्ह॑पत्य उ॒द्वाये᳚त्॥२२॥
यदा॑हव॒नीय॒मनु॑द्वाप्य॒ गार्ह॑पत्यं॒ मन्थे᳚त्।
विच्छि॑न्द्यात्।
भ्रातृ॑व्यमस्मै जनयेत्।
यद्वै य॒ज्ञस्य॑ वास्त॒व्यं॑ क्रि॒यते᳚।
तदनु॑ रु॒द्रोऽव॑चरति।
यत्पूर्व॑मन्वव॒स्येत्।
वा॒स्त॒व्य॑म॒ग्निमुपा॑सीत।
रु॒द्रो᳚ऽस्य प॒शून्घातु॑कः स्यात्।
आ॒ह॒व॒नीय॑मु॒द्वाप्य॑।
गार्ह॑पत्यं मन्थेत्॥२३॥
इ॒तः प्र॑थ॒मं ज॑ज्ञे अ॒ग्निः।
स्वाद्योने॒रधि॑ जा॒तवे॑दाः।
स गा॑यत्रि॒या त्रि॒ष्टुभा॒ जग॑त्या।
दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन्निति॑।
छन्दो॑भिरे॒वैन॒ꣴ॒ स्वाद्योनेः॒ प्रज॑नयति।
गार्ह॑पत्यं मन्थति।
गार्ह॑पत्यं॒ वा अन्वाहि॑ताग्नेः प॒शव॒ उप॑ तिष्ठन्ते।
स यदु॒द्वाय॑ति।
तदनु॑ प॒शवोऽप॑ क्रामन्ति।
इ॒षे र॒य्यै र॑मस्व॥२४॥
सह॑से द्यु॒म्नाय॑।
ऊ॒र्जेऽपत्या॒येत्या॑ह।
प॒शवो॒ वै र॒यिः।
प॒शूने॒वास्मै॑ रमयति।
सा॒र॒स्व॒तौ त्वोथ्सौ॒ समि॑न्धाता॒मित्या॑ह।
ऋ॒ख्सा॒मे वै सा॑रस्व॒तावुथ्सौ᳚।
ऋ॒ख्सा॒माभ्या॑मे॒वैन॒ꣳ॒ समि॑न्धे।
स॒म्राड॑सि वि॒राड॒सीत्या॑ह।
र॒थ॒न्त॒रं वै स॒म्राट्।
बृ॒हद्वि॒राट्॥२५॥
ताभ्या॑मे॒वैन॒ꣳ॒ समि॑न्धे।
वज्रो॒ वै च॒क्रम्।
वज्रो॒ वा ए॒तस्य॑ य॒ज्ञं विच्छि॑नत्ति।
यस्यानो॑ वा॒ रथो॑ वाऽन्त॒राऽग्नी याति॑।
आ॒ह॒व॒नीय॑मु॒द्वाप्य॑।
गार्ह॑पत्या॒दुद्ध॑रेत्।
यद॑ग्ने॒ पूर्वं॒ प्रभृ॑तं प॒दꣳ हि ते᳚।
सूर्य॑स्य र॒श्मीनन्वा॑त॒तान॑।
तत्र॑ रयि॒ष्ठामनु॒ सं भ॑रै॒तम्।
सं नः॑ सृज सुम॒त्या वाज॑व॒त्येति॑॥२६॥
पूर्वे॑णै॒वास्य॑ य॒ज्ञेन॑ य॒ज्ञमनु॒ सं त॑नोति।
त्वम॑ग्ने स॒प्रथा॑ अ॒सीत्या॑ह।
अ॒ग्निः सर्वा॑ दे॒वताः᳚।
दे॒वता॑भिरे॒व य॒ज्ञꣳ सं त॑नोति।
अ॒ग्नये॑ पथि॒कृते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेत्।
अ॒ग्निमे॒व प॑थि॒कृत॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति।
स ए॒वैनं॑ य॒ज्ञियं॒ पन्था॒मपि॑ नयति।
अ॒न॒ड्वान्दक्षि॑णा।
व॒ही ह्ये॑ष समृ॑द्ध्यै॥२७॥
अनुवाक 5
यस्य॑ प्रातः सव॒ने सोमो॑ऽति॒रिच्य॑ते।
माध्यं॑ दिन॒ꣳ॒ सव॑नं का॒मय॑मानो॒ऽभ्यति॑रिच्यते।
गौर्ध॑यति म॒रुता॒मिति॒ धय॑द्वतीषु कुर्वन्ति।
हि॒नस्ति॒ वै स॒न्ध्यधी॑तम्।
स॒न्धीव॒ खलु॒ वा ए॒तत्।
यथ्सव॑नस्याति॒रिच्य॑ते।
यद्धय॑द्वतीषु कु॒र्वन्ति॑।
स॒न्धेः शान्त्यै᳚।
गा॒य॒त्रꣳ साम॑ भवति पञ्चद॒शः स्तोमः॑।
तेनै॒व प्रा॑तः सव॒नान्नय॑न्ति॥२८॥
म॒रुत्व॑तीषु कुर्वन्ति।
तेनै॒व माध्यं॑ दिना॒थ्सव॑ना॒न्नय॑न्ति।
होतु॑श्चम॒समनून्न॑यन्ते।
होताऽनु॑ शꣳसति।
म॒ध्य॒त ए॒व य॒ज्ञꣳ स॒माद॑धाति।
यस्य॒ माध्यं॑ दिने॒ सव॑ने॒ सोमो॑ऽति॒रिच्य॑ते।
आ॒दि॒त्यं तृ॑तीयसव॒नं का॒मय॑मानो॒ऽभ्यति॑रिच्यते।
गौ॒रि॒वी॒तꣳ साम॑ भवति।
अति॑रिक्तं॒ वै गौ॑रिवी॒तम्।
अति॑रिक्तं॒ यथ्सव॑नस्याति॒रिच्य॑ते॥२९॥
अति॑रिक्तस्य॒ शान्त्यै᳚।
बण्म॒हाꣳ अ॑सि सू॒र्येति॑ कुर्वन्ति।
यस्यै॒वाऽऽदि॒त्यस्य॒ सव॑नस्य॒ कामे॑नाति॒रिच्य॑ते।
तेनै॒वैनं॒ कामे॑न॒ सम॑र्धयन्ति।
गौ॒रि॒वी॒तꣳ साम॑ भवति।
तेनै॒व माध्यं॑ दिना॒थ्सव॑ना॒न्नय॑न्ति।
स॒प्त॒द॒शः स्तोमः॑।
तेनै॒व तृ॑तीयसव॒नान्नय॑न्ति।
होतु॑श्चम॒समनून्न॑यन्ते।
होताऽनु॑ शꣳसति॥३०॥
म॒ध्य॒त ए॒व य॒ज्ञꣳ स॒माद॑धाति।
यस्य॑ तृतीयसव॒ने सोमो॑ऽति॒रिच्ये॑त।
उ॒क्थ्यं॑ कुर्वीत।
यस्यो॒क्थ्ये॑ऽति॒रिच्ये॑त।
अ॒ति॒रा॒त्रं कु॑र्वीत।
यस्या॑तिरा॒त्रे॑ऽति॒रिच्य॑ते।
तत्त्वै दु॑ष्प्रज्ञा॒नम्।
यज॑मानं॒ वा ए॒तत्प॒शव॑ आ॒साह्य॑यन्ति।
बृ॒हथ्साम॑ भवति।
बृ॒हद्वा इ॒माँल्लो॒कान्दा॑धार।
बार्ह॑ताः प॒शवः॑।
बृ॒ह॒तैवास्मै॑ प॒शून्दा॑धार।
शि॒पि॒वि॒ष्टव॑तीषु कुर्वन्ति।
शि॒पि॒वि॒ष्टो वै दे॒वानां᳚ पु॒ष्टम्।
पुष्ट्यै॒वैन॒ꣳ॒ सम॑र्धयन्ति।
होतु॑श्चम॒समनून्न॑यन्ते।
होताऽनु॑शꣳसति।
म॒ध्य॒त ए॒व य॒ज्ञꣳ स॒माद॑धाति॥३१॥
अनुवाक 6
एकै॑को॒ वै ज॒नता॑या॒मिन्द्रः॑।
एकं॒ वा ए॒ताविन्द्र॑म॒भि सꣳसु॑नुतः।
यौ द्वौ सꣳ॑सुनु॒तः।
प्र॒जाप॑ति॒र्वा ए॒ष विता॑यते।
यद्य॒ज्ञः।
तस्य॒ ग्रावा॑णो॒ दन्ताः᳚।
अ॒न्य॒त॒रं वा ए॒ते सꣳ॑सुन्व॒तोर्निर्ब॑फ्सति।
पूर्वे॑णोप॒सृत्या॑ दे॒वता॒ इत्या॑हुः।
पू॒र्वो॒प॒सृ॒तस्य॒ वै श्रेया᳚न्भवति।
एति॑व॒न्त्याज्या॑नि भवन्त्य॒भिजि॑त्यै॥३२॥
म॒रुत्व॑तीः प्रति॒पदः॑।
म॒रुतो॒ वै दे॒वाना॒मप॑राजितमा॒यत॑नम्।
दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने यतते।
उ॒भे बृ॑हद्रथन्त॒रे भ॑वतः।
इ॒यं वाव र॑थन्त॒रम्।
अ॒सौ बृ॒हत्।
आ॒भ्यामे॒वैन॑म॒न्तरे॑ति।
वा॒चश्च॒ मन॑सश्च।
प्रा॒णाच्चा॑पा॒नाच्च॑।
दि॒वश्च॑ पृथि॒व्याश्च॑॥३३॥
सर्व॑स्माद्वि॒त्ताद्वेद्या᳚त्।
अ॒भि॒व॒र्तो ब्र॑ह्मसा॒मं भ॑वति।
सु॒व॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्त्यै।
अ॒भि॒जिद्भ॑वति।
सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै।
वि॒श्व॒जिद्भ॑वति।
विश्व॑स्य॒ जित्यै᳚।
यस्य॒ भूयाꣳ॑सो यज्ञक्र॒तव॒ इत्या॑हुः।
स दे॒वता॑ वृङ्क्त॒ इति॑।
यद्य॑ग्निष्टो॒मः सोमः॑ प॒रस्ता॒थ्स्यात्॥३४॥
उ॒क्थ्यं॑ कुर्वीत।
यद्यु॒क्थः॑ स्यात्।
अ॒ति॒रा॒त्रं कु॑र्वीत।
य॒ज्ञ॒क्र॒तुभि॑रे॒वास्य॑ दे॒वता॑ वृङ्क्ते।
यो वै छन्दो॑भिरभि॒भव॑ति।
स सꣳ॑सुन्व॒तोर॒भिभ॑वति।
सं॒वे॒शाय॑ त्वोपवे॒शाय॒ त्वेत्या॑ह।
छन्दाꣳ॑सि॒ वै सं॑वे॒श उ॑पवे॒शः।
छन्दो॑भिरे॒वास्य॒ छन्दाꣴ॑स्य॒भिभ॑वति।
इ॒ष्टर्गो॒ वा ऋ॒त्विजा॑मध्व॒र्युः॥३५॥
इ॒ष्टर्गः॒ खलु॒ वै पूर्वो॒ऽर्ष्टुः क्षी॑यते।
प्राणा॑पानौ मृ॒त्योर्मा॑ पात॒मित्या॑ह।
प्रा॒णा॒पा॒नयो॑रे॒व श्र॑यते।
प्राणा॑पानौ॒ मा मा॑ हासिष्ट॒मित्या॑ह।
नैनं॑ पु॒राऽऽयु॑षः प्राणापा॒नौ ज॑हितः।
आर्तिं॒ वा ए॒ते निय॑न्ति।
येषां᳚ दीक्षि॒तानां᳚ प्र॒मीय॑ते।
तं यद॑व॒वर्जे॑युः।
क्रू॒र॒कृता॑मिवैषां लो॒कः स्या᳚त्।
आह॑र द॒हेति॑ ब्रूयात्॥३६॥
तं द॑क्षिण॒तो वेद्यै॑ नि॒धाय॑।
स॒र्प॒रा॒ज्ञिया॑ ऋ॒ग्भिः स्तु॑युः।
इ॒यं वै सर्प॑तो॒ राज्ञी᳚।
अ॒स्या ए॒वैनं॒ परि॑ददति।
व्यृ॑द्धं॒ तदित्या॑हुः।
यथ्स्तु॒तमन॑नुशस्त॒मिति॑।
होता᳚ प्रथ॒मः प्रा॑चीनावी॒ती मा᳚र्जा॒लीयं॒ परी॑यात्।
या॒मीर॑नुब्रु॒वन्।
स॒र्प॒रा॒ज्ञीनां᳚ कीर्तयेत्।
उ॒भयो॑रे॒वैनं॑ लो॒कयोः॒ परि॑ददति॥३७॥
अथो॑ धु॒वन्त्ये॒वैनम्᳚।
अथो॒ न्ये॑वास्मै᳚ ह्नुवते।
त्रिः परि॑यन्ति।
त्रय॑ इ॒मे लो॒काः।
ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॑ धुवते।
त्रिः पुनः॒ परि॑यन्ति।
षट्थ्सं प॑द्यन्ते।
षड्वा ऋ॒तवः॑।
ऋ॒तुभि॑रे॒वैनं॑ धुवते।
अग्न॒ आयूꣳ॑षि पवस॒ इति॑ प्रति॒पदं॑ कुर्वीरन्।
र॒थ॒न्त॒रसा॑मैषा॒ꣳ॒ सोमः॑ स्यात्।
आयु॑रे॒वाऽऽत्मन्द॑धते।
अथो॑ पा॒प्मान॑मे॒व वि॒जह॑तो यन्ति॥३८॥
अनुवाक 7
अ॒सु॒र्यं॑ वा ए॒तस्मा॒द्वर्णं॑ कृ॒त्वा।
प॒शवो॑ वी॒र्य॑मप॑ क्रामन्ति।
यस्य॒ यूपो॑ वि॒रोह॑ति।
त्वा॒ष्ट्रं ब॑हुरू॒पमाल॑भेत।
त्वष्टा॒ वै रू॒पाणा॑मीशे।
य ए॒व रू॒पाणा॒मीशे᳚।
सो᳚ऽस्मिन्प॒शून् वी॒र्यं॑ यच्छति।
नास्मा᳚त्प॒शवो॑ वी॒र्य॑मप॑ क्रामन्ति।
आर्तिं॒ वा ए॒ते निय॑न्ति।
येषां᳚ दीक्षि॒ताना॑म॒ग्निरु॒द्वाय॑ति॥३९॥
यदा॑हव॒नीय॑ उ॒द्वाये᳚त्।
यत्तं मन्थे᳚त्।
विच्छि॑न्द्यात्।
भ्रातृ॑व्यमस्मै जनयेत्।
यदा॑हव॒नीय॑ उ॒द्वाये᳚त्।
आग्नी᳚द्ध्रा॒दुद्ध॑रेत्।
यदाग्नी᳚द्ध्र उ॒द्वाये᳚त्।
गार्ह॑पत्या॒दुद्ध॑रेत्।
यद्गार्ह॑पत्य उ॒द्वाये᳚त्।
अत॑ ए॒व पुन॑र्मन्थेत्॥४०॥
अत्र॒ वाव स निल॑यते।
यत्र॒ खलु॒ वै निली॑नमुत्त॒मं पश्य॑न्ति।
तदे॑नमिच्छन्ति।
यस्मा॒द्दारो॑रु॒द्वाये᳚त्।
तस्या॒रणी॑ कुर्यात्।
क्रु॒मु॒कमपि॑ कुर्यात्।
ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूः।
यत्क्रु॑मु॒कः।
प्रि॒ययै॒वैनं॑ त॒नुवा॒ सम॑र्धयति।
गार्ह॑पत्यं मन्थति॥४१॥
गार्ह॑पत्यो॒ वा अ॒ग्नेर्योनिः॑।
स्वादे॒वैनं॒ योने᳚र्जनयति।
नास्मै॒ भ्रातृ॑व्यं जनयति।
यस्य॒ सोम॑ उप॒दस्ये᳚त्।
सु॒वर्ण॒ꣳ॒ हिर॑ण्यं द्वे॒धा वि॒च्छिद्य॑।
ऋ॒जी॒षे᳚ऽन्यदा॑धूनु॒यात्।
जु॒हु॒याद॒न्यत्।
सोम॑मे॒वाभि॑षु॒णोति॑।
सोमं॑ जुहोति।
सोम॑स्य॒ वा अ॑भिषू॒यमा॑णस्य प्रि॒या त॒नूरुद॑क्रामत्॥४२॥
तथ्सु॒वर्ण॒ꣳ॒ हिर॑ण्यमभवत्।
यथ्सु॒वर्ण॒ꣳ॒ हिर॑ण्यं कु॒र्वन्ति॑।
प्रि॒ययै॒वैनं॑ त॒नुवा॒ सम॑र्धयन्ति।
यस्याक्री॑त॒ꣳ॒ सोम॑मप॒हरे॑युः।
क्री॒णी॒यादे॒व।
सैव ततः॒ प्राय॑श्चित्तिः।
यस्य॑ क्री॒तम॑प॒हरे॑युः।
आ॒दा॒राꣴश्च॑ फाल्गु॒नानि॑ चा॒भिषु॑णुयात्।
गा॒य॒त्री यꣳ सोम॒माह॑रत्।
तस्य॒ योऽꣳ॑शुः प॒राऽप॑तत्॥४३॥
त आ॑दा॒रा अ॑भवन्।
इन्द्रो॑ वृ॒त्रम॑हन्।
तस्य॑ व॒ल्कः परा॑ऽपतत्।
तानि॑ फाल्गु॒नान्य॑भवन्।
प॒शवो॒ वै फा᳚ल्गु॒नानि॑।
प॒शवः॒ सोमो॒ राजा᳚।
यदा॑दा॒राꣴश्च॑ फाल्गु॒नानि॑ चाभिषु॒णोति॑।
सोम॑मे॒व राजा॑नम॒भिषु॑णोति।
शृ॒तेन॑ प्रातः सव॒ने श्री॑णीयात्।
द॒ध्ना म॒ध्यं दि॑ने॥४४॥
नी॒त॒मि॒श्रेण॑ तृतीयसव॒ने।
अ॒ग्नि॒ष्टो॒मः सोमः॑ स्याद्रथन्त॒रसा॑मा।
य ए॒वर्त्विजो॑ वृ॒ताः स्युः।
त ए॑नं याजयेयुः।
एकां॒ गां दक्षि॑णां दद्या॒त्तेभ्य॑ ए॒व।
पुनः॒ सोमं॑ क्रीणीयात्।
य॒ज्ञेनै॒व तद्य॒ज्ञमि॑च्छति।
सैव ततः॒ प्राय॑श्चित्तिः।
सर्वा᳚भ्यो॒ वा ए॒ष दे॒वता᳚भ्यः॒ सर्वे᳚भ्यः पृ॒ष्ठेभ्य॑ आ॒त्मान॒मागु॑रते।
यः स॒त्राया॑गु॒रते᳚।
ए॒तावा॒न्खलु॒ वै पुरु॑षः।
याव॑दस्य वि॒त्तम्।
स॒र्व॒वे॒द॒सेन॑ यजेत।
सर्व॑पृष्ठोऽस्य॒ सोमः॑ स्यात्।
सर्वा᳚भ्य ए॒व दे॒वता᳚भ्यः॒ सर्वे᳚भ्यः पृ॒ष्ठेभ्य॑ आ॒त्मानं॒ निष्क्री॑णीते॥४५॥
अनुवाक 8
पव॑मानः॒ सुव॒र्जनः॑।
प॒वित्रे॑ण॒ विच॑र्षणिः।
यः पोता॒ स पु॑नातु मा।
पु॒नन्तु॑ मा देवज॒नाः।
पु॒नन्तु॒ मन॑वो धि॒या।
पु॒नन्तु॒ विश्व॑ आ॒यवः॑।
जात॑वेदः प॒वित्र॑वत्।
प॒वित्रे॑ण पुनाहि मा।
शु॒क्रेण॑ देव॒ दीद्य॑त्।
अग्ने॒ क्रत्वा॒ क्रतू॒ꣳ॒ रनु॑॥४६॥
यत्ते॑ प॒वित्र॑म॒र्चिषि॑।
अग्ने॒ वित॑तमन्त॒रा।
ब्रह्म॒ तेन॑ पुनीमहे।
उ॒भाभ्यां᳚ देव सवितः।
प॒वित्रे॑ण स॒वेन॑ च।
इ॒दं ब्रह्म॑ पुनीमहे।
वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा᳚त्।
यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः।
तया॒ मद॑न्तः सध॒माद्ये॑षु।
व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्॥४७॥
वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु।
वातः॑ प्रा॒णेने॑षि॒रो म॑यो॒भूः।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः।
ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम्।
बृ॒हद्भिः॑ सवित॒स्तृभिः॑।
वर्षि॑ष्ठैर्देव॒ मन्म॑भिः।
अग्ने॒ दक्षैः᳚ पुनाहि मा।
येन॑ दे॒वा अपु॑नत।
येनाऽऽपो॑ दि॒व्यं कशः॑।
तेन॑ दि॒व्येन॒ ब्रह्म॑णा॥४८॥
इ॒दं ब्रह्म॑ पुनीमहे।
यः पा॑वमा॒नीर॒ध्येति॑।
ऋषि॑भिः॒ सम्भृ॑त॒ꣳ॒ रसम्᳚।
सर्व॒ꣳ॒ स पू॒तम॑श्ञाति।
स्व॒दि॒तं मा॑त॒रिश्व॑ना।
पा॒व॒मा॒नीर्यो अ॒ध्येति॑।
ऋषि॑भिः॒ सम्भृ॑त॒ꣳ॒ रसम्᳚।
तस्मै॒ सर॑स्वती दुहे।
क्षी॒रꣳ स॒र्पिर्मधू॑द॒कम्।
पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः॥४९॥
सु॒दुघा॒ हि पय॑स्वतीः।
ऋषि॑भिः॒ सम्भृ॑तो॒ रसः॑।
ब्रा॒ह्म॒णेष्व॒मृतꣳ॑ हि॒तम्।
पा॒व॒मा॒नीर्दि॑शन्तु नः।
इ॒मं लो॒कमथो॑ अ॒मुम्।
कामा॒न्थ्सम॑र्धयन्तु नः।
दे॒वीर्दे॒वैः स॒माभृ॑ताः।
पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः।
सु॒दुघा॒ हि घृ॑त॒श्चुतः॑।
ऋषि॑भिः॒ सम्भृ॑तो॒ रसः॑॥५०॥
ब्रा॒ह्म॒णेष्व॒मृतꣳ॑ हि॒तम्।
येन॑ दे॒वाः प॒वित्रे॑ण।
आ॒त्मानं॑ पु॒नते॒ सदा᳚।
तेन॑ स॒हस्र॑धारेण।
पा॒व॒मा॒न्यः पु॑नन्तु मा।
प्रा॒जा॒प॒त्यं प॒वित्रम्᳚।
श॒तोद्या॑मꣳ हिर॒ण्मयम्᳚।
तेन॑ ब्रह्म॒विदो॑ व॒यम्।
पू॒तं ब्रह्म॑ पुनीमहे।
इन्द्रः॑ सुनी॒ती स॒ह मा॑ पुनातु।
सोमः॑ स्व॒स्त्या वरु॑णः स॒मीच्या᳚।
य॒मो राजा᳚ प्रमृ॒णाभिः॑ पुनातु मा।
जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु॥५१॥
अनुवाक 9
प्र॒जा वै स॒त्रमा॑सत॒ तप॒स्तप्य॑माना॒ अजु॑ह्वतीः।
दे॒वा अ॑पश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्णꣴ स्व॒धाम्।
तमुपोद॑तिष्ठ॒न्तम॑जुहवुः।
तेना᳚र्धमा॒स ऊर्ज॒मवा॑रुन्धत।
तस्मा॑दर्धमा॒से दे॒वा इ॑ज्यन्ते।
पि॒तरो॑ऽपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्णꣴ स्व॒धाम्।
तमुपोद॑तिष्ठ॒न्तम॑जुहवुः।
तेन॑ मा॒स्यूर्ज॒मवा॑रुन्धत।
तस्मा᳚न्मा॒सि पि॒तृभ्यः॑ क्रियते।
म॒नु॒ष्या॑ अपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्णꣴ स्व॒धाम्॥५२॥
तमुपोद॑तिष्ठ॒न्तम॑जुहवुः।
तेन॑ द्व॒यीमूर्ज॒मवा॑रुन्धत।
तस्मा॒द्द्विरह्नो॑ मनु॒ष्ये᳚भ्य॒ उप॑ह्रियते।
प्रा॒तश्च॑ सा॒यं च॑।
प॒शवो॑ऽपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्णꣴ स्व॒धाम्।
तमुपोद॑तिष्ठ॒न्तम॑जुहवुः।
तेन॑ त्र॒यीमूर्ज॒मवा॑रुन्धत।
तस्मा॒त्त्रिरह्नः॑ प॒शवः॒ प्रेर॑ते।
प्रा॒तः स॑ङ्ग॒वे सा॒यम्।
असु॑रा अपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्णꣴ स्व॒धाम्॥५३॥
तमुपोद॑तिष्ठ॒न्तम॑जुहवुः।
तेन॑ संवथ्स॒र ऊर्ज॒मवा॑रुन्धत।
ते दे॒वा अ॑मन्यन्त।
अ॒मी वा इ॒दम॑भूवन्।
यद्व॒यꣴ स्म इति॑।
त ए॒तानि॑ चातुर्मा॒स्यान्य॑पश्यन्।
तानि॒ निर॑वपन्।
तैरे॒वैषां तामूर्ज॑मवृञ्जत।
ततो॑ दे॒वा अभ॑वन्।
पराऽसु॑राः॥५४॥
यद्यज॑ते।
यामे॒व दे॒वा ऊर्ज॑म॒वारु॑न्धत।
तान्तेनाव॑ रुन्धे।
यत्पि॒तृभ्यः॑ क॒रोति॑।
यामे॒व पि॒तर॒ ऊर्ज॑म॒वारु॑न्धत।
तान्तेनाव॑ रुन्धे।
यदा॑वस॒थेऽन्न॒ꣳ॒ हर॑न्ति।
यामे॒व म॑नु॒ष्या॑ ऊर्ज॑म॒वारु॑न्धत।
तान्तेनाव॑ रुन्धे।
यद्दक्षि॑णां॒ ददा॑ति॥५५॥
यामे॒व प॒शव॒ ऊर्ज॑म॒वारु॑न्धत।
तान्तेनाव॑ रुन्धे।
यच्चा॑तुर्मा॒स्यैर्यज॑ते।
यामे॒वासु॑रा॒ ऊर्ज॑म॒वारु॑न्धत।
तान्तेनाव॑ रुन्धे।
भव॑त्या॒त्मना᳚।
परा᳚स्य॒ भ्रातृ॑व्यो भवति।
वि॒राजो॒ वा ए॒षा विक्रा᳚न्तिः।
यच्चा॑तुर्मा॒स्यानि॑।
वै॒श्व॒दे॒वेना॒स्मिँल्लो॒के प्रत्य॑तिष्ठत्।
व॒रु॒ण॒प्र॒घा॒सैर॒न्तरि॑क्षे।
सा॒क॒मे॒धैर॒मुष्मिँ॑ल्लो॒के।
ए॒ष ह॒ त्वावैतथ्सर्वं॑ भवति।
य ए॒वं वि॒द्वाꣴश्चा॑तुर्मा॒स्यैर्यज॑ते॥५६॥
अनुवाक 10
अ॒ग्निर्वाव सं॑वथ्स॒रः।
आ॒दि॒त्यः प॑रिवथ्स॒रः।
च॒न्द्रमा॑ इदावथ्स॒रः।
वा॒युर॑नुवथ्स॒रः।
यद्वै᳚श्वदे॒वेन॒ यज॑ते।
अ॒ग्निमे॒व तथ्सं॑वथ्स॒रमा᳚प्नोति।
तस्मा᳚द्वैश्वदे॒वेन॒ यज॑मानः।
सं॒व॒थ्स॒रीणाꣴ॑ स्व॒स्तिमा शा᳚स्त॒ इत्याशा॑सीत।
यद्व॑रुणप्रघा॒सैर्यज॑ते।
आ॒दि॒त्यमे॒व तत्प॑रिवथ्स॒रमा᳚प्नोति॥५७॥
तस्मा᳚द्वरुणप्रघा॒सैर्यज॑मानः।
प॒रि॒व॒थ्स॒रीणाꣴ॑ स्व॒स्तिमा शा᳚स्त॒ इत्याशा॑सीत।
यथ्सा॑कमे॒धैर्यज॑ते।
च॒न्द्रम॑समे॒व तदि॑दावथ्स॒रमा᳚प्नोति।
तस्मा᳚थ्साकमे॒धैर्यज॑मानः।
इ॒दा॒व॒थ्स॒रीणाꣴ॑ स्व॒स्तिमा शा᳚स्त॒ इत्याशा॑सीत।
यत्पि॑तृय॒ज्ञेन॒ यज॑ते।
दे॒वाने॒व तद॒न्वव॑स्यति।
अथ॒ वा अ॑स्य वा॒युश्चा॑नुवथ्स॒रश्चाप्री॑ता॒वुच्छि॑ष्येते।
यच्छु॑नासी॒रीये॑ण॒ यज॑ते॥५८॥
वा॒युमे॒व तद॑नुवथ्स॒रमा᳚प्नोति।
तस्मा᳚च्छुनासी॒रीये॑ण॒ यज॑मानः।
अ॒नु॒व॒थ्स॒रीणाꣴ॑ स्व॒स्तिमा शा᳚स्त॒ इत्याशा॑सीत।
सं॒व॒थ्स॒रं वा ए॒ष ई᳚फ्स॒तीत्या॑हुः।
यश्चा॑तुर्मा॒स्यैर्यज॑त॒ इति॑।
ए॒ष ह॒ त्वै सं॑वथ्स॒रमा᳚प्नोति।
य ए॒वं वि॒द्वाꣴश्चा॑तुर्मा॒स्यैर्यज॑ते।
विश्वे॑ दे॒वाः सम॑यजन्त।
ते᳚ऽग्निमे॒वाय॑जन्त।
त ए॒तं लो॒कम॑जयन्॥५९॥
यस्मि॑न्न॒ग्निः।
यद्वै᳚श्वदे॒वेन॒ यज॑ते।
ए॒तमे॒व लो॒कं ज॑यति।
यस्मि॑न्न॒ग्निः।
अ॒ग्नेरे॒व सायु॑ज्य॒मुपै॑ति।
य॒दा वै᳚श्वदे॒वेन॒ यज॑ते।
अथ॑ संवथ्स॒रस्य॑ गृ॒हप॑तिमाप्नोति।
य॒दा सं॑वथ्स॒रस्य॑ गृ॒हप॑तिमा॒प्नोति॑।
अथ॑ सहस्रया॒जिन॑माप्नोति।
य॒दा स॑हस्रया॒जिन॑मा॒प्नोति॑॥६०॥
अथ॑ गृहमे॒धिन॑माप्नोति।
य॒दा गृ॑हमे॒धिन॑मा॒प्नोति॑।
अथा॒ग्निर्भ॑वति।
य॒दाग्निर्भव॑ति।
अथ॒ गौर्भ॑वति।
ए॒षा वै वै᳚श्वदे॒वस्य॒ मात्रा᳚।
ए॒तद्वा ए॒तेषा॑मव॒मम्।
अतो॑तो॒ वा उत्त॑राणि॒ श्रेयाꣳ॑सि भवन्ति।
यद्विश्वे॑ दे॒वाः स॒मय॑जन्त।
तद्वै᳚श्वदे॒वस्य॑ वैश्वदेव॒त्वम्॥६१॥
अथा॑ऽऽदि॒त्यो वरु॑ण॒ꣳ॒ रा॑जानं वरुणप्रघा॒सैर॑यजत।
स ए॒तं लो॒कम॑जयत्।
यस्मि॑न्नादि॒त्यः।
यद्व॑रुणप्रघा॒सैर्यज॑ते।
ए॒तमे॒व लो॒कं ज॑यति।
यस्मि॑न्नादि॒त्यः।
आ॒दि॒त्यस्यै॒व सायु॑ज्य॒मुपै॑ति।
यदा॑दि॒त्यो वरु॑ण॒ꣳ॒ राजा॑नं वरुणप्रघा॒सैरय॑जत।
तद्व॑रुणप्रघा॒सानां᳚ वरुणप्रघास॒त्वम्।
अथ॒ सोमो॒ राजा॒ छन्दाꣳ॑सि साकमे॒धैर॑यजत॥६२॥
स ए॒तं लो॒कम॑जयत्।
यस्मिꣴ॑श्च॒न्द्रमा॑ वि॒भाति॑।
यथ्सा॑कमे॒धैर्यज॑ते।
ए॒तमे॒व लो॒कं ज॑यति।
यस्मिꣴ॑श्च॒न्द्रमा॑ वि॒भाति॑।
च॒न्द्रम॑स ए॒व सायु॑ज्य॒मुपै॑ति।
सोमो॒ वै च॒न्द्रमाः᳚।
ए॒ष ह॒ त्वै सा॒क्षाथ्सोमं॑ भक्षयति।
य ए॒वं वि॒द्वान्थ्सा॑कमे॒धैर्यज॑ते।
यथ्सोम॑श्च॒ राजा॒ छन्दाꣳ॑सि च स॒मैध॑न्त॥६३॥
तथ्सा॑कमे॒धानाꣳ॑ साकमेध॒त्वम्।
अथ॒र्तवः॑ पि॒तरः॑ प्र॒जाप॑तिं पि॒तरं॑ पितृय॒ज्ञेना॑यजन्त।
त ए॒तं लो॒कम॑जयन्।
यस्मि॑न्नृ॒तवः॑।
यत्पि॑तृय॒ज्ञेन॒ यज॑ते।
ए॒तमे॒व लो॒कं ज॑यति।
यस्मि॑न्नृ॒तवः॑।
ऋ॒तू॒नामे॒व सायु॑ज्य॒मुपै॑ति।
यदृ॒तवः॑ पि॒तरः॑ प्र॒जाप॑तिं पि॒तरं॑ पितृय॒ज्ञेनाय॑जन्त।
तत्पि॑तृय॒ज्ञस्य॑ पितृयज्ञ॒त्वम्॥६४॥
अथौष॑धय इ॒मं दे॒वं त्र्य॑म्बकैरयजन्त॒ प्रथे॑म॒हीति॑।
ततो॒ वै ता अ॑प्रथन्त।
य ए॒वं वि॒द्वाꣴस्त्र्य॑म्बकै॒र्यज॑ते।
प्रथ॑ते प्र॒जया॑ प॒शुभिः॑।
अथ॑ वा॒युः प॑रमे॒ष्ठिनꣳ॑ शुनासी॒रीये॑णायजत।
स ए॒तं लो॒कम॑जयत्।
यस्मि॑न्वा॒युः।
यच्छु॑नासी॒रीये॑ण॒ यज॑ते।
ए॒तमे॒व लो॒कं ज॑यति।
यस्मि॑न्वा॒युः॥६५॥
वा॒योरे॒व सायु॑ज्य॒मुपै॑ति।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
प्र चा॑तुर्मास्यया॒जी मी॑य॒ता(३) न प्रमी॑य॒ता(३) इति॑।
जीव॒न्वा ए॒ष ऋ॒तूनप्ये॑ति।
यदि॑ व॒सन्ता᳚ प्र॒मीय॑ते।
व॒स॒न्तो भ॑वति।
यदि॑ ग्री॒ष्मे ग्री॒ष्मः।
यदि॑ व॒र्॒षासु॑ व॒र्॒षाः।
यदि॑ श॒रदि॑ श॒रत्।
यदि॒ हेम॑न् हेम॒न्तः।
ऋ॒तुर्भू॒त्वा सं॑वथ्स॒रमप्ये॑ति।
सं॒व॒थ्स॒रः प्र॒जाप॑तिः।
प्र॒जाप॑ति॒र्वावैषः॥६६॥