skipLink.label

प्रथमाष्टकम्, सप्तमः प्रपाठकः

प्रथमाष्टकम्, सप्तमः प्रपाठकः

अनुवाक 1

ए॒तद्ब्रा᳚ह्मणान्ये॒व पञ्च॑ ह॒वीꣳषि॑।
अथेन्द्रा॑य॒ शुना॒सीरा॑य पुरो॒डाशं॒ द्वाद॑शकपालं॒ निर्व॑पति।
सं॒व॒थ्स॒रो वा इन्द्रा॒शुना॒सीरः॑।
सं॒व॒थ्स॒रेणै॒वास्मा॒ अन्न॒मव॑ रुन्धे।
वा॒य॒व्यं॑ पयो॑ भवति।
वा॒युर्वै वृष्ट्यै᳚ प्रदापयि॒ता।
स ए॒वास्मै॒ वृष्टिं॒ प्रदा॑पयति।
सौ॒र्य॑ एक॑कपालो भवति।
सूर्ये॑ण॒ वा अ॒मुष्मिँ॑ल्लो॒के वृष्टि॑र्धृ॒ता।
स ए॒वास्मै॒ वृष्टिं॒ निय॑च्छति॥१॥

द्वा॒द॒श॒ग॒वꣳ सीरं॒ दक्षि॑णा॒ समृ॑द्ध्यै।
दे॒वा॒सु॒राः संय॑त्ता आसन्।
ते दे॒वा अ॒ग्निम॑ब्रुवन्।
त्वया॑ वी॒रेणासु॑रान॒भिभ॑वा॒मेति॑।
सो᳚ऽब्रवीत्।
त्रे॒धाऽहमा॒त्मानं॒ विक॑रिष्य॒ इति॑।
स त्रे॒धाऽऽत्मानं॒ व्य॑कुरुत।
अ॒ग्निं तृती॑यम्।
रु॒द्रं तृती॑यम्।
वरु॑णं॒ तृती॑यम्॥२॥

सो᳚ऽब्रवीत्।
क इ॒दं तु॒रीय॒मिति॑।
अ॒हमितीन्द्रो᳚ऽब्रवीत्।
सन्तु सृ॑जावहा॒ इति॑।
तौ सम॑सृजेताम्।
स इन्द्र॑स्तु॒रीय॑मभवत्।
यदिन्द्र॑स्तु॒रीय॒मभ॑वत्।
तदि॑न्द्रतुरी॒यस्ये᳚न्द्रतुरीय॒त्वम्।
ततो॒ वै दे॒वा व्य॑जयन्त।
यदि॑न्द्रतुरी॒यं नि॑रु॒प्यते॒ विजि॑त्यै॥३॥

व॒हिनी॑ धे॒नुर्दक्षि॑णा।
यद्व॒हिनी᳚।
तेना᳚ऽऽग्ने॒यी।
यद्गौः।
तेन॑ रौ॒द्री।
यद्धे॒नुः।
तेनै॒न्द्री।
यथ्स्त्री स॒ती दा॒न्ता।
तेन॑ वारु॒णी समृ॑द्ध्यै।
प्र॒जाप॑तिर्य॒ज्ञम॑सृजत॥४॥

तꣳ सृ॒ष्टꣳ रक्षाꣴ॑स्यजिघाꣳसन्।
स ए॒ताः प्र॒जाप॑तिरा॒त्मनो॑ दे॒वता॒ निर॑मिमीत।
ताभि॒र्वै स दि॒ग्भ्यो रक्षाꣳ॑सि॒ प्राणु॑दत।
यत्प॑ञ्चाव॒त्तीयं॑ जु॒होति॑।
दि॒ग्भ्य ए॒व तद्यज॑मानो॒ रक्षाꣳ॑सि॒ प्रणु॑दते।
समू॑ढ॒ꣳ॒ रक्षः॒ सन्द॑ग्ध॒ꣳ॒ रक्ष॒ इत्या॑ह।
रक्षाꣴ॑स्ये॒व सन्द॑हति।
अ॒ग्नये॑ रक्षो॒घ्ने स्वाहेत्या॑ह।
दे॒वता᳚भ्य ए॒व वि॑जिग्या॒नाभ्यो॑ भाग॒धेयं॑ करोति।
प्र॒ष्टि॒वा॒ही रथो॒ दक्षि॑णा॒ समृ॑द्ध्यै॥५॥

इन्द्रो॑ वृ॒त्रꣳ ह॒त्वा।
असु॑रान्परा॒भाव्य॑।
नमु॑चिमासु॒रं नाल॑भत।
तꣳ श॒च्या॑ऽगृह्णात्।
तौ सम॑लभेताम्।
सो᳚ऽस्माद॒भिशु॑नतरोऽभवत्।
सो᳚ऽब्रवीत्।
स॒न्धाꣳ सन्द॑धावहै।
अथ॒ त्वाऽव॑ स्रक्ष्यामि।
न मा॒ शुष्के॑ण॒ नाऽऽर्द्रेण॑ हनः॥६॥

न दिवा॒ न नक्त॒मिति॑।
स ए॒तम॒पां फेन॑मसिञ्चत्।
न वा ए॒ष शुष्को॒ नाऽऽर्द्रो व्यु॑ष्टाऽऽसीत्।
अनु॑दितः॒ सूर्यः॑।
न वा ए॒तद्दिवा॒ न नक्तम्᳚।
तस्यै॒तस्मिँ॑ल्लो॒के।
अ॒पां फेने॑न॒ शिर॒ उद॑वर्तयत्।
तदे॑न॒मन्व॑वर्तत।
मित्र॑द्रु॒गिति॑॥७॥

स ए॒तान॑पामा॒र्गान॑जनयत्।
तान॑जुहोत्।
तैर्वै स रक्षा॒ꣴ॒स्यपा॑हत।
यद॑पामार्गहो॒मो भव॑ति।
रक्ष॑सा॒मप॑हत्यै।
ए॒को॒ल्मु॒केन॑ यन्ति।
तद्धि रक्ष॑सां भाग॒धेयम्᳚।
इ॒मान्दिशं॑ यन्ति।
ए॒षा वै रक्ष॑सां॒ दिक्।
स्वाया॑मे॒व दि॒शि रक्षाꣳ॑सि हन्ति॥८॥

स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा᳚।
ए॒तद्वै रक्ष॑सामा॒यतन॑म्।
स्व ए॒वाऽऽयत॑ने॒ रक्षाꣳ॑सि हन्ति।
प॒र्ण॒मये॑न स्रु॒वेण॑ जुहोति।
ब्रह्म॒ वै प॒र्णः।
ब्रह्म॑णै॒व रक्षाꣳ॑सि हन्ति।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह।
स॒वि॒तृप्र॑सूत ए॒व रक्षाꣳ॑सि हन्ति।
ह॒तꣳ रक्षोऽव॑धिष्म॒ रक्ष॒ इत्या॑ह।
रक्ष॑सा॒ꣴ॒ स्तृत्यै᳚।
यद्वस्ते॒ तद्दक्षि॑णा नि॒रव॑त्यै।
अप्र॑तीक्ष॒माय॑न्ति।
रक्ष॑साम॒न्तर्‌हि॑त्यै॥९॥

अनुवाक 2

धा॒त्रे पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर्व॑पति।
सं॒व॒थ्स॒रो वै धा॒ता।
सं॒व॒थ्स॒रेणै॒वास्मै᳚ प्र॒जाः प्रज॑नयति।
अन्वे॒वास्मा॒ अनु॑मतिर्मन्यते।
रा॒ते रा॒का।
प्र सि॑नीवा॒ली ज॑नयति।
प्र॒जास्वे॒व प्रजा॑तासु कु॒ह्वा॑ वाचं॑ दधाति।
मि॒थु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै।
आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपालं॒ निर्व॑पति।
ऐ॒न्द्रा॒वै॒ष्ण॒वमेका॑दशकपालम्॥१०॥

वै॒ष्ण॒वं त्रि॑कपा॒लम्।
वी॒र्यं॑ वा अ॒ग्निः।
वी॒र्य॑मिन्द्रः॑।
वी॒र्यं॑ विष्णुः॑।
प्र॒जा ए॒व प्रजा॑ता वी॒र्ये᳚ प्रति॑ष्ठापयति।
तस्मा᳚त्प्र॒जा वी॒र्या॑वतीः।
वा॒म॒न ऋ॑ष॒भो व॒ही दक्षि॑णा।
यद्व॒ही।
तेना᳚ऽऽग्ने॒यः।
यदृ॑ष॒भः॥११॥

तेनै॒न्द्रः।
यद्वा॑म॒नः।
तेन॑ वैष्ण॒वः समृ॑द्ध्यै।
अ॒ग्नी॒षो॒मीय॒मेका॑दशकपालं॒ निर्व॑पति।
इ॒न्द्रा॒सो॒मीय॒मेका॑दशकपालम्।
सौ॒म्यं च॒रुम्।
सोमो॒ वै रे॑तो॒धाः।
अ॒ग्निः प्र॒जानां᳚ प्रजनयि॒ता।
वृ॒द्धाना॒मिन्द्रः॑ प्रदापयि॒ता।
सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति॥१२॥

अ॒ग्निः प्र॒जां प्रज॑नयति।
वृ॒द्धामिन्द्रः॒ प्रय॑च्छति।
ब॒भ्रुर्दक्षि॑णा॒ समृ॑द्ध्यै।
सो॒मा॒पौ॒ष्णं च॒रुं निर्व॑पति।
ऐ॒न्द्रा॒पौ॒ष्णं च॒रुम्।
सोमो॒ वै रे॑तो॒धाः।
पू॒षा प॑शू॒नां प्र॑जनयि॒ता।
वृ॒द्धाना॒मिन्द्रः॑ प्रदापयि॒ता।
सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति।
पू॒षा प॒शून्प्रज॑नयति॥१३॥

वृ॒द्धानिन्द्रः॒ प्रय॑च्छति।
पौ॒ष्णश्च॒रुर्भ॑वति।
इ॒यं वै पू॒षा।
अ॒स्यामे॒व प्रति॑ तिष्ठति।
श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै।
ब॒हु वै पुरु॑षो मे॒ध्यमुप॑गच्छति।
वै॒श्वा॒न॒रं द्वाद॑शकपालं॒ निर्व॑पति।
सं॒व॒थ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः।
सं॒व॒थ्स॒रेणै॒वैनꣴ॑ स्वदयति।
हिर॑ण्यं॒ दक्षि॑णा॥१४॥

प॒वित्रं॒ वै हिर॑ण्यम्।
पु॒नात्ये॒वैनम्᳚।
ब॒हु वै रा॑ज॒न्योऽनृ॑तं करोति।
उप॑ जा॒म्यै हर॑ते।
जि॒नाति॑ ब्राह्म॒णम्।
वद॒त्यनृ॑तम्।
अनृ॑ते॒ खलु॒ वै क्रि॒यमा॑णे॒ वरु॑णो गृह्णाति।
वा॒रु॒णं य॑व॒मयं॑ च॒रुं निर्व॑पति।
व॒रु॒ण॒पा॒शादे॒वैनं॑ मुञ्चति।
अश्वो॒ दक्षि॑णा।
वा॒रु॒णो हि दे॒वत॒याऽश्वः॒ समृ॑द्ध्यै॥१५॥

अनुवाक 3

र॒त्निना॑मे॒तानि॑ ह॒वीꣳषि॑ भवन्ति।
ए॒ते वै रा॒ष्ट्रस्य॑ प्रदा॒तारः॑।
ए॒ते॑ऽपादा॒तारः॑।
य ए॒व रा॒ष्ट्रस्य॑ प्रदा॒तारः॑।
ये॑ऽपादा॒तारः॑।
त ए॒वास्मै॑ रा॒ष्ट्रं प्रय॑च्छन्ति।
रा॒ष्ट्रमे॒व भ॑वति।
यथ्स॑मा॒हृत्य॑ नि॒र्वपे᳚त्।
अर॑त्निनः स्युः।
य॒था॒य॒थं निर्व॑पति रत्नि॒त्वाय॑॥१६॥

यथ्स॒द्यो नि॒र्वपे᳚त्।
याव॑ती॒मेके॑न ह॒विषा॒ऽऽशिष॑मव रु॒न्धे।
ताव॑ती॒मव॑रुन्धीत।
अ॒न्व॒हन्निर्व॑पति।
भूय॑सीमे॒वाशिष॒मव॑ रुन्धे।
भूय॑सो यज्ञक्र॒तूनुपै॑ति।
बा॒र्॒ह॒स्प॒त्यं च॒रुं निर्व॑पति ब्र॒ह्मणो॑ गृ॒हे।
मु॒ख॒त ए॒वास्मै॒ ब्रह्म॒ सꣴश्य॑ति।
अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्रम॒न्वार॑म्भयति।
शि॒ति॒पृ॒ष्ठो दक्षि॑णा॒ समृ॑द्ध्यै॥१७॥

ऐ॒न्द्रमेका॑दशकपालꣳ राज॒न्य॑स्य गृ॒हे।
इ॒न्द्रि॒यमे॒वाव॑ रुन्धे।
ऋ॒ष॒भो दक्षि॑णा॒ समृ॑द्ध्यै।
आ॒दि॒त्यं च॒रुं महि॑ष्यै गृ॒हे।
इ॒यं वा अदि॑तिः।
अ॒स्यामे॒व प्रति॑तिष्ठति।
धे॒नुर्दक्षि॑णा॒ समृ॑द्ध्यै।
भगा॑य च॒रुं वा॒वाता॑यै गृ॒हे।
भग॑मे॒वास्मि॑न्दधाति।
विचि॑त्तगर्भा पष्ठौ॒ही दक्षि॑णा॒ समृ॑द्ध्यै॥१८॥

नै॒र्॒ऋ॒तं च॒रुं प॑रिवृ॒क्त्यै॑ गृ॒हे कृ॒ष्णानां᳚ व्रीही॒णां न॒खनि॑र्भिन्नम्।
पा॒प्मान॑मे॒व निर्ऋ॑तिं नि॒रव॑दयते।
कृ॒ष्णा कू॒टा दक्षि॑णा॒ समृ॑द्ध्यै।
आ॒ग्ने॒यम॒ष्टाक॑पालꣳ सेना॒न्यो॑ गृ॒हे।
सेना॑मे॒वास्य॒ सꣴश्य॑ति।
हिर॑ण्यं॒ दक्षि॑णा॒ समृ॑द्ध्यै।
वा॒रु॒णं दश॑कपालꣳ सू॒तस्य॑ गृ॒हे।
व॒रु॒ण॒स॒वमे॒वाव॑ रुन्धे।
म॒हानि॑रष्टो॒ दक्षि॑णा॒ समृ॑द्ध्यै।
मा॒रु॒तꣳ स॒प्तक॑पालं ग्राम॒ण्यो॑ गृ॒हे॥१९॥

अन्नं॒ वै म॒रुतः॑।
अन्न॑मे॒वाव॑ रुन्धे।
पृश्ञि॒र्दक्षि॑णा॒ समृ॑द्ध्यै।
सा॒वि॒त्रं द्वाद॑शकपालं क्ष॒त्तुर्गृ॒हे प्रसू᳚त्यै।
उ॒प॒ध्व॒स्तो दक्षि॑णा॒ समृ॑द्ध्यै।
आ॒श्वि॒नं द्वि॑कपा॒लꣳ स॑ङ्ग्रही॒तुर्गृ॒हे।
अ॒श्विनौ॒ वै दे॒वानां᳚ भि॒षजौ᳚।
ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति।
स॒वा॒त्यौ॑ दक्षि॑णा॒ समृ॑द्ध्यै।
पौ॒ष्णं च॒रुं भा॑गदु॒घस्य॑ गृ॒हे॥२०॥

अन्नं॒ वै पू॒षा।
अन्न॑मे॒वाव॑ रुन्धे।
श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै।
रौ॒द्रं गा॑वीधु॒कं च॒रुम॑क्षावा॒पस्य॑ गृ॒हे।
अ॒न्त॒त ए॒व रु॒द्रं नि॒रव॑दयते।
श॒बल॒ उद्वा॑रो॒ दक्षि॑णा॒ समृ॑द्ध्यै।
द्वाद॑शै॒तानि॑ ह॒वीꣳषि॑ भवन्ति।
द्वाद॑श॒ मासाः᳚ संवथ्स॒रः।
सं॒व॒थ्स॒रेणै॒वास्मै॑ रा॒ष्ट्रमव॑ रुन्धे।
रा॒ष्ट्रमे॒व भ॑वति॥२१॥

यन्न प्र॑ति नि॒र्वपे᳚त्।
र॒त्निन॑ आ॒शिषोऽव॑रुन्धीरन्।
प्रति॒निर्व॑पति।
इन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपालम्।
इन्द्रा॑याꣳहो॒मुचे᳚।
आ॒शिष॑ ए॒वाव॑ रुन्धे।
अ॒यं नो॒ राजा॑ वृत्र॒हा राजा॑ भू॒त्वा वृ॒त्रं व॑ध्या॒दित्या॑ह।
आ॒मे॒वैतामा शा᳚स्ते।
मै॒त्रा॒बा॒र्॒ह॒स्प॒त्यं भ॑वति।
श्वे॒तायै᳚ श्वे॒तव॑थ्सायै दु॒ग्धे॥२२॥

बा॒र्॒ह॒स्प॒त्ये मै॒त्रमपि॑ दधाति।
ब्रह्म॑ चै॒वास्मै᳚ क्ष॒त्रं च॑ स॒मीची॑ दधाति।
अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्रं प्रति॑ष्ठापयति।
बा॒र्॒ह॒स्प॒त्येन॒ पूर्वे॑ण॒ प्रच॑रति।
मु॒ख॒त ए॒वास्मै॒ ब्रह्म॒ सꣴश्य॑ति।
अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्रम॒न्वार॑म्भयति।
स्व॒यं॒ कृ॒ता वेदि॑र्भवति।
स्व॒यं॒ दि॒नं ब॒र्॒हिः।
स्व॒यं॒ कृ॒त इ॒ध्मः।
अन॑भिजितस्या॒भिजि॑त्यै।
तस्मा॒द्राज्ञा॒मर॑ण्यम॒भिजि॑तम्।
सैव श्वे॒ता श्वे॒तव॑थ्सा॒ दक्षि॑णा॒ समृ॑द्ध्यै॥२३॥

अनुवाक 4

दे॒व॒सु॒वामे॒तानि॑ ह॒वीꣳषि॑ भवन्ति।
ए॒ताव॑न्तो॒ वै दे॒वानाꣳ॑ स॒वाः।
त ए॒वास्मै॑ स॒वान्प्रय॑च्छन्ति।
त ए॑नꣳ सुवन्ते।
अ॒ग्निरे॒वैनं॑ गृ॒हप॑तीनाꣳ सुवते।
सोमो॒ वन॒स्पती॑नाम्।
रु॒द्रः प॑शू॒नाम्।
बृह॒स्पति॑र्वा॒चाम्।
इन्द्रो᳚ ज्ये॒ष्ठाना᳚म्।
मि॒त्रः स॒त्याना᳚म्॥२४॥

वरु॑णो॒ धर्म॑पतीनाम्।
ए॒तदे॒व सर्वं॑ भवति।
स॒वि॒ता त्वा᳚ प्रस॒वानाꣳ॑ सुवता॒मिति॒ हस्तं॑ गृह्णाति॒ प्रसू᳚त्यै।
ये दे॑वा देवः॒ सुवः॒ स्थेत्या॑ह।
य॒था॒य॒जुरे॒वैतत्।
म॒ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒येत्या॑ह।
आ॒मे॒वैतामा शा᳚स्ते।
ए॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ꣳ॒ राजेत्या॑ह।
तस्मा॒थ्सोम॑राजानो ब्राह्म॒णाः।
प्रति॒ त्यन्नाम॑ रा॒ज्यम॑धा॒यीत्या॑ह॥२५॥

रा॒ज्यमे॒वास्मि॒न्प्रति॑दधाति।
स्वां त॒नुवं॒ वरु॑णो अशिश्रे॒दित्या॑ह।
व॒रु॒ण॒स॒वमे॒वाव॑ रुन्धे।
शुचे᳚र्मि॒त्रस्य॒ व्रत्या॑ अभू॒मेत्या॑ह।
शुचि॑मे॒वैनं॒ व्रत्यं॑ करोति।
अम॑न्महि मह॒त ऋ॒तस्य॒ नामेत्या॑ह।
म॒नु॒त ए॒वैनम्᳚।
सर्वे॒ व्राता॒ वरु॑णस्याभूव॒न्नित्या॑ह।
सर्व॑व्रातमे॒वैनं॑ करोति।
वि मि॒त्र एवै॒ररा॑तिमतारी॒दित्या॑ह॥२६॥

अरा॑तिमे॒वैनं॑ तारयति।
असू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेनेत्या॑ह।
स्व॒दय॑त्ये॒वैनम्᳚।
व्यु॑ त्रि॒तो ज॑रि॒माणं॑ न आन॒डित्या॑ह।
आयु॑रे॒वास्मि॑न्दधाति।
द्वाभ्यां॒ विमृ॑ष्टे।
द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै।
अ॒ग्नी॒षो॒मीय॑स्य॒ चैका॑दशकपालस्य देवसु॒वां च॑ ह॒विषा॑म॒ग्नये᳚ स्विष्ट॒कृते॑ स॒मव॑द्यति।
दे॒वता॑भिरे॒वैन॑मुभ॒यतः॒ परि॑गृह्णाति।
वि॒ष्णु॒क्र॒मान्क्र॑मते।
विष्णु॑रे॒व भू॒त्वेमाँल्लो॒कान॒भिज॑यति॥२७॥

अनुवाक 5

अ॒र्थेतः॒ स्थेति॑ जुहोति।
आहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णाति।
अथो॑ ह॒विष्कृ॑तानामे॒वाभिघृ॑तानां गृह्णाति।
वह॑न्तीनां गृह्णाति।
ए॒ता वा अ॒पाꣳ रा॒ष्ट्रम्।
रा॒ष्ट्रमे॒वास्मै॑ गृह्णाति।
अथो॒ श्रिय॑मे॒वैन॑म॒भिव॑हन्ति।
अ॒पां पति॑र॒सीत्या॑ह।
मि॒थु॒नमे॒वाकः॑।
वृषा᳚ऽस्यू॒र्मिरित्या॑ह॥२८॥

ऊ॒र्मि॒मन्त॑मे॒वैनं॑ करोति।
वृ॒ष॒से॒नो॑ऽसीत्या॑ह।
सेना॑मे॒वास्य॒ सꣴश्य॑ति।
व्र॒ज॒क्षितः॒ स्थेत्या॑ह।
ए॒ता वा अ॒पां विशः॑।
विश॑मे॒वास्मै॒ पर्यू॑हति।
म॒रुता॒मोजः॒ स्थेत्या॑ह।
अन्नं॒ वै म॒रुतः॑।
अन्न॑मे॒वाव॑ रुन्धे।
सूर्य॑वर्चसः॒ स्थेत्या॑ह॥२९॥

रा॒ष्ट्रमे॒व व॑र्च॒स्व्य॑कः।
सूर्य॑त्वचसः॒ स्थेत्या॑ह।
स॒त्यं वा ए॒तत्।
यद्वर्ष॑ति।
अनृ॑तं॒ यदा॒तप॑ति॒ वर्ष॑ति।
स॒त्या॒नृ॒ते ए॒वाव॑ रुन्धे।
नैनꣳ॑ सत्यानृ॒ते उ॑दि॒ते हिꣴ॑स्तः।
य ए॒वं वेद॑।
मान्दाः॒ स्थेत्या॑ह।
रा॒ष्ट्रमे॒व ब्र॑ह्मवर्च॒स्य॑कः॥३०॥

वाशाः॒ स्थेत्या॑ह।
रा॒ष्ट्रमे॒व व॒श्य॑कः।
शक्व॑रीः॒ स्थेत्या॑ह।
प॒शवो॒ वै शक्व॑रीः।
प॒शूने॒वाव॑ रुन्धे।
वि॒श्व॒भृतः॒ स्थेत्या॑ह।
रा॒ष्ट्रमे॒व प॑य॒स्व्य॑कः।
ज॒न॒भृतः॒ स्थेत्या॑ह।
रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः।
अ॒ग्नेस्ते॑ज॒स्याः᳚ स्थेत्या॑ह॥३१॥

रा॒ष्ट्रमे॒व ते॑ज॒स्व्य॑कः।
अ॒पामोष॑धीना॒ꣳ॒ रसः॒ स्थेत्या॑ह।
रा॒ष्ट्रमे॒व म॑ध॒व्य॑मकः।
सा॒र॒स्व॒तं ग्रहं॑ गृह्णाति।
ए॒षा वा अ॒पां पृ॒ष्ठम्।
यथ्सर॑स्वती।
पृ॒ष्ठमे॒वैनꣳ॑ समा॒नानां᳚ करोति।
षो॒ड॒शभि॑र्गृह्णाति।
षोड॑शकलो॒ वै पुरु॑षः।
यावा॑ने॒व पुरु॑षः।
तस्मि॑न्वी॒र्यं॑ दधाति।
षो॒ड॒शभि॑र्जु॒होति॑ षोड॒शभि॑र्गृह्णाति।
द्वात्रिꣳ॑श॒थ्सं प॑द्यन्ते।
द्वात्रिꣳ॑शदक्षराऽनु॒ष्टुक्।
वाग॑नु॒ष्टुफ्सर्वा॑णि॒ छन्दाꣳ॑सि।
वा॒चैवैन॒ꣳ॒ सर्वे॑भि॒श्छन्दो॑भिर॒भिषि॑ञ्चति॥३२॥

अनुवाक 6

देवी॑रापः॒ सं मधु॑मती॒र्मधु॑मतीभिः सृज्यध्व॒मित्या॑ह।
ब्रह्म॑णै॒वैनाः॒ सꣳसृ॑जति।
अना॑धृष्टाः सीद॒तेत्या॑ह।
ब्रह्म॑णै॒वैनाः᳚ सादयति।
अ॒न्त॒रा होतु॑श्च॒ धिष्णि॑यं ब्राह्मणाच्छ॒ꣳ॒सिन॑श्च सादयति।
आ॒ग्ने॒यो वै होता᳚।
ऐ॒न्द्रो ब्रा᳚ह्मणाच्छ॒ꣳ॒सी।
तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑ रा॒ष्ट्रं परि॑गृह्णाति।
हिर॑ण्ये॒नोत्पु॑नाति।
आहु॑त्यै॒ हि प॒वित्रा᳚भ्यामुत्पु॒नन्ति॒ व्यावृ॑त्त्यै॥३३॥

श॒तमा॑नं भवति।
श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति।
अनि॑भृष्टम॒सीत्या॑ह।
अनि॑भृष्ट॒ꣴ॒ ह्ये॑तत्।
वा॒चो बन्धु॒रित्या॑ह।
वा॒चो ह्ये॑ष बन्धुः॑।
त॒पो॒जा इत्या॑ह।
त॒पो॒जा ह्ये॑तत्।
सोम॑स्य दा॒त्रम॒सीत्या॑ह॥३४॥

सोम॑स्य॒ ह्ये॑तद्दा॒त्रम्।
शु॒क्रा वः॑ शु॒क्रेणोत्पु॑ना॒मीत्या॑ह।
शु॒क्रा ह्यापः॑।
शु॒क्रꣳ हिर॑ण्यम्।
च॒न्द्राश्च॒न्द्रेणेत्या॑ह।
च॒न्द्रा ह्यापः॑।
च॒न्द्रꣳ हिर॑ण्यम्।
अ॒मृता॑ अ॒मृते॒नेत्या॑ह।
अ॒मृता॒ ह्यापः॑।
अ॒मृत॒ꣳ॒ हिर॑ण्यम्॥३५॥

स्वाहा॑ राज॒सूया॒येत्या॑ह।
रा॒ज॒सूया॑य॒ ह्ये॑ना उत्पु॒नाति॑।
स॒ध॒मादो᳚ द्यु॒म्निनी॒रूर्ज॑ ए॒ता इति॑ वारु॒ण्यर्चा गृ॑ह्णाति।
व॒रु॒ण॒स॒वमे॒वाव॑ रुन्धे।
एक॑या गृह्णाति।
ए॒क॒धैव यज॑माने वी॒र्यं॑ दधाति।
क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॒ योनि॑र॒सीति॑ ता॒र्प्यं चो॒ष्णीषं॑ च॒ प्रय॑च्छति सयोनि॒त्वाय॑।
एक॑शतेन दर्भपुञ्जी॒लैः प॑वयति।
श॒तायु॒र्वै पुरु॑षः श॒तवी᳚र्यः।
आ॒त्मैक॑श॒तः॥३६॥

यावा॑ने॒व पुरु॑षः।
तस्मि॑न्वी॒र्यं॑ दधाति।
दध्या॑शयति।
इ॒न्द्रि॒यमे॒वाव॑ रुन्धे।
उ॒दु॒म्बर॑माशयति।
अ॒न्नाद्य॒स्याव॑रुद्ध्यै।
शष्पा᳚ण्याशयति।
सुरा॑बलिमे॒वैनं॑ करोति।
आ॒विद॑ ए॒ता भ॑वन्ति।
आ॒विद॑मे॒वैनं॑ गमयन्ति॥३७॥

अ॒ग्निरे॒वैनं॒ गार्ह॑पत्येनावति।
इन्द्र॑ इन्द्रि॒येण॑।
पू॒षा प॒शुभिः॑।
मि॒त्रावरु॑णौ प्राणापा॒नाभ्या᳚म्।
इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत्।
स दिव॑मलिखत्।
सो᳚ऽर्य॒म्णः पन्था॑ अभवत्।
स आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ इति॒ द्यावा॑पृथि॒वी उपा॑धावत्।
स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्राय॒ वज्रं॒ प्राह॑रत्।
आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ इति॒ यदाह॑॥३८॥

आ॒भ्यामे॒व प्रसू॑तो॒ यज॑मानो॒ वज्रं॒ भ्रातृ॑व्याय॒ प्रह॑रति।
आवि॑न्ना दे॒व्यदि॑तिर्विश्वरू॒पीत्या॑ह।
इ॒यं वै दे॒व्यदि॑तिर्विश्वरू॒पी।
अ॒स्यामे॒व प्रति॑ तिष्ठति।
आवि॑न्नो॒ऽयम॒सावा॑मुष्याय॒णो᳚ऽस्यां वि॒श्य॑स्मिन्रा॒ष्ट्र इत्या॑ह।
वि॒शैवैनꣳ॑ रा॒ष्ट्रेण॒ सम॑र्धयति।
म॒ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒येत्या॑ह।
आ॒मे॒वैतामा शा᳚स्ते।
ए॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ꣳ॒ राजेत्या॑ह।
तस्मा॒थ्सोम॑राजानो ब्राह्म॒णाः॥३९॥

इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ धनुः॒ प्रय॑च्छति॒ विजि॑त्यै।
श॒त्रु॒बाध॑नाः॒ स्थेतीषून्॑।
शत्रू॑ने॒वास्य॑ बाधन्ते।
पा॒त मा᳚ प्र॒त्यञ्चं॑ पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्चं॑ मा पा॒तेत्या॑ह।
ति॒स्रो वै श॑र॒व्याः᳚।
प्र॒तीची॑ ति॒रश्च्य॒नूची᳚।
ताभ्य॑ ए॒वैनं॑ पान्ति।
दि॒ग्भ्यो मा॑ पा॒तेत्या॑ह।
दि॒ग्भ्य ए॒वैनं॑ पान्ति।
विश्वा᳚भ्यो मा ना॒ष्ट्राभ्यः॑ पा॒तेत्या॑ह।
अप॑रिमितादे॒वैनं॑ पान्ति।
हिर॑ण्यवर्णावु॒षसां᳚ विरो॒क इति॑ त्रि॒ष्टुभा॑ बा॒हू उद्गृ॑ह्णाति।
इ॒न्द्रि॒यं वै वी॒र्यं॑ त्रि॒ष्टुक्।
इ॒न्द्रि॒यमे॒व वी॒र्य॑मु॒परि॑ष्टादा॒त्मन्ध॑त्ते॥४०॥

अनुवाक 7

दिशो॒ व्यास्था॑पयति।
दि॒शाम॒भिजि॑त्त्यै।
यद॑नु प्र॒क्रामे᳚त्।
अ॒भि दिशो॑ जयेत्।
उत्तु मा᳚द्येत्।
मन॒साऽनु॒ प्रक्रा॑मति।
अ॒भि दिशो॑ जयति।
नोन्मा᳚द्यति।
स॒मिध॒मा ति॒ष्ठेत्या॑ह।
तेज॑ ए॒वाव॑ रुन्धे॥४१॥

उ॒ग्रामा ति॒ष्ठेत्या॑ह।
इ॒न्द्रि॒यमे॒वाव॑ रुन्धे।
वि॒राज॒माति॒ष्ठेत्या॑ह।
अ॒न्नाद्य॑मे॒वाव॑ रुन्धे।
उदी॑ची॒मा ति॒ष्ठेत्या॑ह।
प॒शूने॒वाव॑ रुन्धे।
ऊ॒र्ध्वामाति॒ष्ठेत्या॑ह।
सु॒व॒र्गमे॒व लो॒कम॒भिज॑यति।
अनूज्जि॑हीते।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॥४२॥

मा॒रु॒त ए॒ष भ॑वति।
अन्नं॒ वै म॒रुतः॑।
अन्न॑मे॒वाव॑ रुन्धे।
एक॑विꣳशतिकपालो भवति॒ प्रति॑ष्ठित्यै।
यो॑ऽरण्येऽनुवा॒क्यो॑ ग॒णः।
तं म॑ध्य॒त उप॑दधाति।
ग्रा॒म्यैरे॒व प॒शुभि॑रार॒ण्यान्प॒शून्परि॑ गृह्णाति।
तस्मा᳚द्ग्रा॒म्यैः प॒शुभि॑रार॒ण्याः प॒शवः॒ परि॑गृहीताः।
पृथि॑र्वै॒न्यः।
अ॒भ्य॑षिच्यत॥४३॥

स रा॒ष्ट्रं नाभ॑वत्।
स ए॒तानि॑ पा॒र्थान्य॑पश्यत्।
तान्य॑जुहोत्।
तैर्वै स रा॒ष्ट्रम॑भवत्।
यत्पा॒र्थानि॑ जु॒होति॑।
रा॒ष्ट्रमे॒व भ॑वति।
बा॒र्॒ह॒स्प॒त्यं पूर्वे॑षामुत्त॒मं भ॑वति।
ऐ॒न्द्रमुत्त॑रेषां प्रथ॒मम्।
ब्रह्म॑ चै॒वास्मै᳚ क्ष॒त्रं च॑ स॒मीची॑ दधाति।
अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्रं प्रति॑ष्ठापयति॥४४॥

षट्पु॒रस्ता॑दभिषे॒कस्य॑ जुहोति।
षडु॒परि॑ष्टात्।
द्वाद॑श॒ सं प॑द्यन्ते।
द्वाद॑श॒ मासाः᳚ संवथ्स॒रः।
सं॒व॒थ्स॒रः खलु॒ वै दे॒वानां॒ पूः।
दे॒वाना॑मे॒व पुरं॑ मध्य॒तो व्यव॑सर्पति।
तस्य॒ न कुत॑श्च॒नोपा᳚व्या॒धो भ॑वति।
भू॒ताना॒मवे᳚ष्टीर्जुहोति।
अत्रा᳚त्र॒ वै मृ॒त्युर्जा॑यते।
यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते।
तत॑ ए॒वैन॒मव॑यजते।
तस्मा᳚द्राज॒सूये॑नेजा॒नो नाभिच॑रित॒वै।
प्र॒त्यगे॑नमभिचा॒रः स्तृ॑णुते॥४५॥

अनुवाक 8

सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूया॒दिति॑ शार्दूलच॒र्मोप॑स्तृणाति।
यैव सोमे॒ त्विषिः॑।
या शा᳚र्दू॒ले।
तामे॒वाव॑ रुन्धे।
मृ॒त्योर्वा ए॒ष वर्णः॑।
यच्छा᳚र्दू॒लः।
अ॒मृत॒ꣳ॒ हिर॑ण्यम्।
अ॒मृत॑मसि मृ॒त्योर्मा॑ पा॒हीति॒ हिर॑ण्य॒मुपा᳚स्यति।
अ॒मृत॑मे॒व मृ॒त्योर॒न्तर्ध॑त्ते।
श॒तमा॑नं भवति॥४६॥

श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति।
दि॒द्योन्मा॑ पा॒हीत्यु॒परि॑ष्टा॒दधि॒ निद॑धाति।
उ॒भ॒यत॑ ए॒वास्मै॒ शर्म॑ दधाति।
अवे᳚ष्टा दन्द॒शूका॒ इति॑ क्ली॒बꣳ सीसे॑न विध्यति।
द॒न्द॒शूका॑ने॒वाव॑यजते।
तस्मा᳚त्क्ली॒बं द॑न्द॒शूका॒ दꣳशु॑काः।
निर॑स्तं॒ नमु॑चेः॒ शिर॒ इति॑ लोहिताय॒सं निर॑स्यति।
पा॒प्मान॑मे॒व नमु॑चिं नि॒रव॑दयते।
प्रा॒णा आ॒त्मनः॒ पूर्वे॑ऽभि॒षिच्या॒ इत्या॑हुः॥४७॥

सोमो॒ राजा॒ वरु॑णः।
दे॒वा ध॑र्म॒सुव॑श्च॒ ये।
ते ते॒ वाचꣳ॑ सुवन्तां॒ ते ते᳚ प्रा॒णꣳ सु॑वन्ता॒मित्या॑ह।
प्रा॒णाने॒वाऽऽत्मनः॒ पूर्वा॑न॒भिषि॑ञ्चति।
यद्ब्रू॒यात्।
अ॒ग्नेस्त्वा॒ तेज॑सा॒ऽभिषि॑ञ्चा॒मीति॑।
ते॒ज॒स्व्ये॑व स्या᳚त्।
दु॒श्चर्मा॒ तु भ॑वेत्।
सोम॑स्य त्वा द्यु॒म्नेना॒भिषि॑ञ्चा॒मीत्या॑ह।
सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः॥४८॥

स्वयै॒वैनं॑ दे॒वत॑या॒ऽभिषि॑ञ्चति।
अ॒ग्नेस्तेज॒सेत्या॑ह।
तेज॑ ए॒वास्मि॑न्दधाति।
सूर्य॑स्य॒ वर्च॒सेत्या॑ह।
वर्च॑ ए॒वास्मि॑न्दधाति।
इन्द्र॑स्येन्द्रि॒येणेत्या॑ह।
इ॒न्द्रि॒यमे॒वास्मि॑न्दधाति।
मि॒त्रावरु॑णयोर्वी॒र्ये॑णेत्या॑ह।
वी॒र्य॑मे॒वास्मि॑न्दधाति।
म॒रुता॒मोज॒सेत्या॑ह॥४९॥

ओज॑ ए॒वास्मि॑न्दधाति।
क्ष॒त्राणां᳚ क्ष॒त्रप॑तिर॒सीत्या॑ह।
क्ष॒त्राणा॑मे॒वैनं॑ क्ष॒त्रप॑तिं करोति।
अति॑ दि॒वस्पा॒हीत्या॑ह।
अत्य॒न्यान्पा॒हीति॒ वावैतदा॑ह।
स॒माव॑वृत्रन्नध॒रागुदी॑ची॒रित्या॑ह।
रा॒ष्ट्रमे॒वास्मि॑न्ध्रु॒वम॑कः।
उ॒च्छेष॑णेन जुहोति।
उ॒च्छेष॑णभागो॒ वै रु॒द्रः।
भा॒ग॒धेये॑नै॒व रु॒द्रं नि॒रव॑दयते॥५०॥

उद॑ङ्प॒रेत्याग्नी᳚द्ध्रे जुहोति।
ए॒षा वै रु॒द्रस्य॒ दिक्।
स्वाया॑मे॒व दि॒शि रु॒द्रं नि॒रव॑दयते।
रुद्र॒ यत्ते॒ क्रयी॒ परं॒ नामेत्या॑ह।
यद्वा अ॑स्य॒ क्रयी॒ परं॒ नाम॑।
तेन॒ वा ए॒ष हि॑नस्ति।
यꣳ हि॒नस्ति॑।
तेनै॒वैनꣳ॑ स॒ह श॑मयति।
तस्मै॑ हु॒तम॑सि य॒मेष्ट॑म॒सीत्या॑ह।
य॒मादे॒वास्य॑ मृ॒त्युमव॑यजते॥५१॥

प्रजा॑पते॒ न त्वदे॒तान्य॒न्य इति॒ तस्यै॑ गृ॒हे जु॑हुयात्।
यां का॒मये॑त रा॒ष्ट्रम॑स्यै प्र॒जा स्या॒दिति॑।
रा॒ष्ट्रमे॒वास्यै᳚ प्र॒जा भ॑वति।
प॒र्ण॒मये॑नाध्व॒र्युर॒भिषि॑ञ्चति।
ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॒न्त्विषिं॑ दधाति।
औदु॑म्बरेण राज॒न्यः॑।
ऊर्ज॑मे॒वास्मि॑न्न॒न्नाद्यं॑ दधाति।
आश्व॑त्थेन॒ वैश्यः॑।
विश॑मे॒वास्मि॒न्पुष्टिं॑ दधाति।
नैय॑ग्रोधेन॒ जन्यः॑।
मि॒त्राण्ये॒वास्मै॑ कल्पयति।
अथो॒ प्रति॑ष्ठित्यै॥५२॥

अनुवाक 9

इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै।
मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्र॒शिषा॑ युन॒ज्मीत्या॑ह।
ब्रह्म॑णै॒वैनं॑ दे॒वता᳚भ्यां युनक्ति।
प्र॒ष्टि॒वा॒हिनं॑ युनक्ति।
प्र॒ष्टि॒वा॒ही वै दे॑वर॒थः।
दे॒व॒र॒थमे॒वास्मै॑ युनक्ति।
त्रयोऽश्वा॑ भवन्ति।
रथ॑श्चतु॒र्थः।
द्वौ स॑व्येष्ठसार॒थी।
षट्थ्सं प॑द्यन्ते॥५३॥

षड्वा ऋ॒तवः॑।
ऋ॒तुभि॑रे॒वैनं॑ युनक्ति।
वि॒ष्णु॒क्र॒मान्क्र॑मते।
विष्णु॑रे॒व भू॒त्वेमाँल्लो॒कान॒भिज॑यति।
यः क्ष॒त्रियः॒ प्रति॑हितः।
सो᳚ऽन्वार॑भते।
रा॒ष्ट्रमे॒व भ॑वति।
त्रि॒ष्टुभा॒ऽन्वार॑भते।
इ॒न्द्रि॒यं वै त्रि॒ष्टुक्।
इ॒न्द्रि॒यमे॒व यज॑माने दधाति॥५४॥

म॒रुतां᳚ प्रस॒वे जे॑ष॒मित्या॑ह।
म॒रुद्भि॑रे॒व प्रसू॑त॒ उज्ज॑यति।
आ॒प्तं मन॒ इत्या॑ह।
यदे॒व मन॒सैफ्सी᳚त्।
तदा॑पत्।
रा॒ज॒न्यं॑ जिनाति।
अना᳚क्रान्त ए॒वाक्र॑मते।
वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते।
यो रा॑ज॒न्यं॑ जि॒नाति॑।
सम॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑णेत्या॑ह॥५५॥

इ॒न्द्रि॒यमे॒व वी॒र्य॑मा॒त्मन्ध॑त्ते।
प॒शू॒नां म॒न्युर॑सि॒ तवे॑व मे म॒न्युर्भू॑या॒दिति॒ वारा॑ही उपा॒नहा॒वुप॑ मुञ्चते।
प॒शू॒नां वा ए॒ष म॒न्युः।
यद्व॑रा॒हः।
तेनै॒व प॑शू॒नां म॒न्युमा॒त्मन्ध॑त्ते।
अ॒भि वा इ॒यꣳ सु॑षुवा॒णं का॑मयते।
तस्ये᳚श्व॒रेन्द्रि॒यं वी॒र्य॑मादा॑तोः।
वारा॑ही उपा॒नहा॒वुप॑मुञ्चते।
अ॒स्या ए॒वान्तर्ध॑त्ते।
इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याना᳚त्यै॥५६॥

नमो॑ मा॒त्रे पृ॑थि॒व्या इत्या॒हाहिꣳ॑सायै।
इय॑द॒स्यायु॑र॒स्यायु॑र्मे धे॒हीत्या॑ह।
आयु॑रे॒वाऽऽत्मन्ध॑त्ते।
ऊर्ग॒स्यूर्जं॑ मे धे॒हीत्या॑ह।
ऊर्ज॑मे॒वाऽऽत्मन्ध॑त्ते।
युङ्ङ॑सि॒ वर्चो॑ऽसि॒ वर्चो॒ मयि॑ धे॒हीत्या॑ह।
वर्च॑ ए॒वाऽऽत्मन्ध॑त्ते।
ए॒क॒धा ब्र॒ह्मण॒ उप॑हरति।
ए॒क॒धैव यज॑मान॒ आयु॒रूर्जं॒ वर्चो॑ दधाति।
र॒थ॒वि॒मो॒च॒नीया॑ जुहोति॒ प्रति॑ष्ठित्यै॥५७॥

त्रयोऽश्वा॑ भवन्ति।
रथ॑श्चतु॒र्थः।
तस्मा᳚च्च॒तुर्जु॑होति।
यदु॒भौ स॒हाव॒तिष्ठे॑ताम्।
स॒मा॒नं लो॒कमि॑याताम्।
स॒ह स॑ङ्ग्रही॒त्रा र॑थ॒वाह॑ने॒ रथ॒माद॑धाति।
सु॒व॒र्गादे॒वैनं॑ लो॒काद॒न्तर्द॑धाति।
ह॒ꣳ॒सः शु॑चि॒षदित्याद॑धाति।
ब्रह्म॑णै॒वैन॑मुपाव॒हर॑ति।
ब्रह्म॒णाऽऽद॑धाति।
अति॑च्छन्द॒साऽऽद॑धाति।
अति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाꣳ॑सि।
सर्वे॑भिरे॒वैनं॒ छन्दो॑भि॒राद॑धाति।
वर्ष्म॒ वा ए॒षा छन्द॑साम्।
यदति॑च्छन्दाः।
यदति॑च्छन्दसा॒ दधा॑ति।
वर्ष्मै॒वैनꣳ॑ समा॒नानां᳚ करोति॥५८॥

अनुवाक 10

मि॒त्रो॑ऽसि॒ वरु॑णो॒ऽसीत्या॑ह।
मै॒त्रं वा अहः॑।
वा॒रु॒णी रात्रिः॑।
अ॒हो॒रा॒त्राभ्या॑मे॒वैन॑मु॒पाव॑हरति।
मि॒त्रो॑ऽसि॒ वरु॑णो॒ऽसीत्या॑ह।
मै॒त्रो वै दक्षि॑णः।
वा॒रु॒णः स॒व्यः।
वै॒श्व॒दे॒व्या॑मिक्षा᳚।
स्वमे॒वैनौ॑ भाग॒धेय॑मु॒पाव॑हरति।
सम॒हं विश्वै᳚र्दे॒वैरित्या॑ह॥५९॥

वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः।
ता ए॒वाद्याः᳚ कुरुते।
क्ष॒त्रस्य॒ नाभि॑रसि क्ष॒त्रस्य॒ योनि॑र॒सीत्य॑धीवा॒समास्तृ॑णाति सयोनि॒त्वाय॑।
स्यो॒नामा सी॑द सु॒षदा॒मा सी॒देत्या॑ह।
य॒था॒य॒जुरे॒वैतत्।
मा त्वा॑ हिꣳसी॒न्मा मा॑ हिꣳसी॒दित्या॒हाहिꣳ॑सायै।
निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या᳚स्वा साम्रा᳚ज्याय सु॒क्रतु॒रित्या॑ह।
साम्रा᳚ज्यमे॒वैनꣳ॑ सु॒क्रतुं॑ करोति।
ब्रह्मा(३)न्त्वꣳ रा॑जन्ब्र॒ह्माऽसि॑ सवि॒ताऽसि॑ स॒त्यस॑व॒ इत्या॑ह।
स॒वि॒तार॑मे॒वैनꣳ॑ स॒त्यस॑वं करोति॥६०॥

ब्रह्मा(३)न्त्वꣳ रा॑जन्ब्र॒ह्माऽसीन्द्रो॑ऽसि स॒त्यौजा॒ इत्या॑ह।
इन्द्र॑मे॒वैनꣳ॑ स॒त्यौज॑सं करोति।
ब्रह्मा(३)न्त्वꣳ रा॑जन्ब्र॒ह्माऽसि॑ मि॒त्रो॑ऽसि सु॒शेव॒ इत्या॑ह।
मि॒त्रमे॒वैनꣳ॑ सु॒शेवं॑ करोति।
ब्रह्मा(३)न्त्वꣳ रा॑जन्ब्र॒ह्मासि॒ वरु॑णोऽसि स॒त्यध॒र्मेत्या॑ह।
वरु॑णमे॒वैनꣳ॑ स॒त्यध॑र्माणं करोति।
स॒वि॒ताऽसि॑ स॒त्यस॑व॒ इत्या॑ह।
गा॒य॒त्रीमे॒वैतेना॑भि॒ व्याह॑रति।
इन्द्रो॑ऽसि स॒त्यौजा॒ इत्या॑ह।
त्रि॒ष्टुभ॑मे॒वैतेना॑भि॒ व्याह॑रति॥६१॥

मि॒त्रो॑ऽसि सु॒शेव॒ इत्या॑ह।
जग॑तीमे॒वैतेना॑भि॒ व्याह॑रति।
स॒त्यमे॒ता दे॒वताः᳚।
स॒त्यमे॒तानि॒ छन्दाꣳ॑सि।
स॒त्यमे॒वाव॑ रुन्धे।
वरु॑णोऽसि स॒त्यध॒र्मेत्या॑ह।
अ॒नु॒ष्टुभ॑मे॒वैतेना॑भि॒ व्याह॑रति।
स॒त्या॒नृ॒ते वा अ॑नु॒ष्टुप्।
स॒त्या॒नृ॒ते वरु॑णः।
स॒त्या॒नृ॒ते ए॒वाव॑ रुन्धे॥६२॥

नैनꣳ॑ सत्यानृ॒ते उ॑दि॒ते हिꣴ॑स्तः।
य ए॒वं वेद॑।
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ स्फ्यं प्रय॑च्छति।
वज्रो॒ वै स्फ्यः।
वज्रे॑णै॒वास्मा॑ अवरप॒रꣳ र॑न्धयति।
ए॒वꣳ हि तच्छ्रेयः॑।
यद॑स्मा ए॒ते रध्ये॑युः।
दिशो॒ऽभ्य॑यꣳ राजा॑ऽभू॒दिति॒ पञ्चा॒क्षान्प्रय॑च्छति।
ए॒ते वै सर्वेऽयाः᳚।
अप॑राजायिनमे॒वैनं॑ करोति॥६३॥

ओ॒द॒नमुद्ब्रु॑वते।
प॒र॒मे॒ष्ठी वा ए॒षः।
यदो॑द॒नः।
प॒र॒मामे॒वैन॒ꣴ॒ श्रियं॑ गमयति।
सुश्लो॒काँ(४) सुम॑ङ्ग॒लाँ(४) सत्य॑रा॒जा(३)नित्या॑ह।
आ॒मे॒वैतामा शा᳚स्ते।
शौ॒नः॒ शे॒पमाख्या॑पयते।
व॒रु॒ण॒पा॒शादे॒वैनं॑ मुञ्चति।
प॒रः॒ श॒तं भ॑वति।
श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति।
मा॒रु॒तस्य॒ चैक॑विꣳशतिकपालस्य वैश्वदे॒व्यै चा॒मिक्षा॑या अ॒ग्नये᳚ स्विष्ट॒कृते॑ स॒मव॑द्यति।
दे॒वता॑भिरे॒वैन॑मुभ॒यतः॒ परि॑ गृह्णाति।
अ॒पान्नप्त्रे॒ स्वाहो॒र्जो नप्त्रे॒ स्वाहा॒ऽग्नये॑ गृ॒हप॑तये॒ स्वाहेति॑ ति॒स्र आहु॑तीर्जुहोति।
त्रय॑ इ॒मे लो॒काः।
ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति॥६४॥