skipLink.label

प्रथमाष्टकम्, तृतीयः प्रपाठकः

प्रथमाष्टकम्, तृतीयः प्रपाठकः

अनुवाक 1

दे॒वा॒सु॒राः संय॑त्ता आसन्।
ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑।
अ॒ग्नीषोम॑योस्तेज॒स्विनी᳚स्त॒नूः सन्न्य॑दधत।
इ॒दमु॑ नो भविष्यति।
यदि॑ नो जे॒ष्यन्तीति॑।
तेना॒ग्नीषोमा॒वपा᳚क्रामताम्।
ते दे॒वा वि॒जित्य॑।
अ॒ग्नीषोमा॒वन्वै᳚च्छन्।
ते᳚ऽग्निमन्व॑विन्दन्नृ॒तुषूथ्स॑न्नम्।
तस्य॒ विभ॑क्तीभिस्तेज॒स्विनी᳚स्त॒नूरवा॑रुन्धत॥१॥

ते सोम॒मन्व॑विन्दन्।
तम॑घ्नन्।
तस्य॑ यथाऽभि॒ज्ञायं॑ त॒नूर्व्य॑गृह्णत।
ते ग्रहा॑ अभवन्।
तद्ग्रहा॑णां ग्रह॒त्वम्।
यस्यै॒वं वि॒दुषो॒ ग्रहा॑ गृ॒ह्यन्ते᳚।
तस्य॒ त्वे॑व गृ॑ही॒ताः।
नाना᳚ऽऽग्नेयं पुनरा॒धेये॑ कुर्यात्।
यदना᳚ग्नेयं पुनरा॒धेये॑ कु॒र्यात्।
व्यृ॑द्धमे॒व तत्॥२॥

अना᳚ग्नेयं॒ वा ए॒तत्क्रि॑यते।
यथ्स॒मिध॒स्तनू॒नपा॑तमि॒डो ब॒र्॒हिर्य॑जति।
उ॒भावा᳚ग्ने॒यावाज्य॑भागौ स्याताम्।
अना᳚ज्यभागौ भवत॒ इत्या॑हुः।
यदु॒भावा᳚ग्ने॒याव॒न्वञ्चा॒विति॑।
अ॒ग्नये॒ पव॑माना॒योत्त॑रः स्यात्।
यत्पव॑मानाय।
तेनाऽऽज्य॑भागः।
तेन॑ सौ॒म्यः।
बुध॑न्वत्याग्ने॒यस्याऽऽज्य॑भागस्य पुरोऽनुवा॒क्या॑ भवति॥३॥

यथा॑ सु॒प्तं बो॒धय॑ति।
ता॒दृगे॒व तत्।
अ॒ग्निन्य॑क्ताः पत्नीसंया॒जाना॒मृचः॑ स्युः।
तेना᳚ऽऽग्ने॒यꣳ सर्वं॑ भवति।
ए॒क॒धा ते॑ज॒स्विनीं᳚ दे॒वता॒मुपै॒तीत्या॑हुः।
सैन॑मीश्व॒रा प्र॒दह॒ इति॑।
नेति॑ ब्रूयात्।
प्र॒जन॑नं॒ वा अ॒ग्निः।
प्र॒जन॑नमे॒वोपै॒तीति॑।
कृ॒तय॑जुः॒ सम्भृ॑तसम्भार॒ इत्या॑हुः॥४॥

न स॒म्भृत्याः᳚ सम्भा॒राः।
न यजुः॑ का॒र्य॑मिति॑।
अथो॒ खलु॑।
स॒म्भृत्या॑ ए॒व स॑म्भा॒राः।
का॒र्यं॑ यजुः॑।
पु॒न॒रा॒धेय॑स्य॒ समृ॑द्ध्यै।
तेनो॑पा॒ꣳ॒शु प्रच॑रति।
एष्य॑ इव॒ वा ए॒षः।
यत्पु॑नरा॒धेयः॑।
यथो॑पा॒ꣳ॒शु न॒ष्टमि॒च्छति॑॥५॥

ता॒दृगे॒व तत्।
उ॒च्चैः स्वि॑ष्ट॒कृत॒मुथ्सृ॑जति।
यथा॑ न॒ष्टं वि॒त्त्वा प्राहा॒यमिति॑।
ता॒दृगे॒व तत्।
ए॒क॒धा ते॑ज॒स्विनीं᳚ दे॒वता॒मुपै॒तीत्या॑हुः।
सैन॑मीश्व॒रा प्र॒दह॒ इति॑।
तत्तथा॒ नोपै॑ति।
प्र॒या॒जा॒नू॒या॒जेष्वे॒व विभ॑क्तीः कुर्यात्।
य॒था॒पू॒र्वमाज्य॑भागौ॒ स्याता᳚म्।
ए॒वं प॑त्नीसंया॒जाः॥६॥

तद्वै᳚श्वान॒रव॑त्प्र॒जन॑नवत्तर॒मुपै॒तीति॑।
तदा॑हुः।
व्यृ॑द्धं॒ वा ए॒तत्।
अना᳚ग्नेयं॒ वा ए॒तत्क्रि॑यत॒ इति॑।
नेति॑ ब्रूयात्।
अ॒ग्निं प्र॑थ॒मं विभ॑क्तीनां यजति।
अ॒ग्निमु॑त्त॒मं प॑त्नीसंया॒जाना᳚म्।
तेना᳚ऽऽग्ने॒यम्।
तेन॒ समृ॑द्धं क्रियत॒ इति॑॥७॥

अनुवाक 2

दे॒वा वै यथा॒दर्शं॑ य॒ज्ञानाह॑रन्त।
यो᳚ऽग्निष्टो॒मम्।
य उ॒क्थ्यम्᳚।
यो॑ऽतिरा॒त्रम्।
ते स॒हैव सर्वे॑ वाज॒पेय॑मपश्यन्।
ते।
अ॒न्यो᳚ऽन्यस्मै॒ नाति॑ष्ठन्त।
अ॒हम॒नेन॑ यजा॒ इति॑।
ते᳚ऽब्रुवन्।
आ॒जिम॒स्य धा॑वा॒मेति॑॥८॥

तस्मि॑न्ना॒जिम॑धावन्।
तं बृह॒स्पति॒रुद॑जयत्।
तेना॑यजत।
स स्वारा᳚ज्यमगच्छत्।
तमिन्द्रो᳚ऽब्रवीत्।
माम॒नेन॑ याज॒येति॑।
तेनेन्द्र॑मयाजयत्।
सोऽग्रं॑ दे॒वता॑नां॒ पर्यै᳚त्।
अग॑च्छ॒थ्स्वारा᳚ज्यम्।
अति॑ष्ठन्तास्मै॒ ज्यैष्ठ्या॑य॥९॥

य ए॒वं वि॒द्वान् वा॑ज॒पेये॑न॒ यज॑ते।
गच्छ॑ति॒ स्वारा᳚ज्यम्।
अग्रꣳ॑ समा॒नानां॒ पर्ये॑ति।
तिष्ठ॑न्तेऽस्मै॒ ज्यैष्ठ्या॑य।
स वा ए॒ष ब्रा᳚ह्म॒णस्य॑ चै॒व रा॑ज॒न्य॑स्य च य॒ज्ञः।
तं वा ए॒तं वा॑ज॒पेय॒ इत्या॑हुः।
वा॒जाप्यो॒ वा ए॒षः।
वाज॒ꣴ॒ ह्ये॑तेन॑ दे॒वा ऐफ्सन्॑।
सोमो॒ वै वा॑ज॒पेयः॑।
यो वै सोमं॑ वाज॒पेयं॒ वेद॑॥१०॥

वा॒ज्ये॑वैनं॑ पी॒त्वा भ॑वति।
आऽस्य॑ वा॒जी जा॑यते।
अन्नं॒ वै वा॑ज॒पेयः॑।
य ए॒वं वेद॑।
अत्यन्नम्᳚।
आऽस्या᳚न्ना॒दो जा॑यते।
ब्रह्म॒ वै वा॑ज॒पेयः॑।
य ए॒वं वेद॑।
अत्ति॒ ब्रह्म॒णाऽन्नम्᳚।
आऽस्य॑ ब्र॒ह्मा जा॑यते॥११॥

वाग्वै वाज॑स्य प्रस॒वः।
य ए॒वं वेद॑।
क॒रोति॑ वा॒चा वी॒र्यम्᳚।
ऐनं॑ वा॒चा ग॑च्छति।
अपि॑वतीं॒ वाचं॑ वदति।
प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑शत्।
स आ॒त्मन्वा॑ज॒पेय॑मधत्त।
तं दे॒वा अ॑ब्रुवन्।
ए॒ष वाव य॒ज्ञः।
यद्वा॑ज॒पेयः॑॥१२॥

अप्ये॒व नोऽत्रा॒स्त्विति॑।
तेभ्य॑ ए॒ता उज्जि॑तीः॒ प्राय॑च्छत्।
ता वा ए॒ता उज्जि॑तयो॒ व्याख्या॑यन्ते।
य॒ज्ञस्य॑ सर्व॒त्वाय॑।
दे॒वता॑ना॒मनि॑र्भागाय।
दे॒वा वै ब्रह्म॑ण॒श्चान्न॑स्य च॒ शम॑ल॒मपा᳚घ्नन्।
यद्ब्रह्म॑णः॒ शम॑ल॒मासी᳚त्।
सा गाथा॑ नाराश॒ꣴ॒स्य॑भवत्।
यदन्न॑स्य।
सा सुरा᳚॥१३॥

तस्मा॒द्गाय॑तश्च म॒त्तस्य॑ च॒ न प्र॑ति॒गृह्यम्᳚।
यत्प्र॑तिगृह्णी॒यात्।
शम॑लं॒ प्रति॑गृह्णीयात्।
सर्वा॒ वा ए॒तस्य॒ वाचोऽव॑रुद्धाः।
यो वा॑जपेयया॒जी।
या पृ॑थि॒व्यां याऽग्नौ या र॑थन्त॒रे।
याऽन्तरि॑क्षे॒ या वा॒यौ या वा॑मदे॒व्ये।
या दि॒वि याऽऽदि॒त्ये या बृ॑ह॒ति।
याऽफ्सु यौष॑धीषु॒ या वन॒स्पति॑षु।
तस्मा᳚द्वाजपेयया॒ज्यार्त्वि॑जीनः।
सर्वा॒ ह्य॑स्य॒ वाचोऽव॑रुद्धाः॥१४॥

अनुवाक 3

दे॒वा वै यद॒न्यैर्ग्रहै᳚र्य॒ज्ञस्य॒ नावारु॑न्धत।
तद॑तिग्रा॒ह्यै॑रति॒गृह्यावा॑रुन्धत।
तद॑तिग्रा॒ह्या॑णामतिग्राह्य॒त्वम्।
यद॑तिग्रा॒ह्या॑ गृ॒ह्यन्ते᳚।
यदे॒वान्यैर्ग्रहै᳚र्य॒ज्ञस्य॒ नाव॑ रु॒न्धे।
तदे॒व तैर॑ति॒गृह्याव॑ रुन्धे।
पञ्च॑ गृह्यन्ते।
पाङ्क्तो॑ य॒ज्ञः।
यावा॑ने॒व य॒ज्ञः।
तमा॒प्त्वाऽव॑ रुन्धे॥१५॥

सर्व॑ ऐ॒न्द्रा भ॑वन्ति।
ए॒क॒धैव यज॑मान इन्द्रि॒यं द॑धति।
स॒प्तद॑श प्राजाप॒त्या ग्रहा॑ गृह्यन्ते।
स॒प्त॒द॒शः प्र॒जाप॑तिः।
प्र॒जाप॑ते॒राप्त्यै᳚।
एक॑य॒र्चा गृ॑ह्णाति।
ए॒क॒धैव यज॑माने वी॒र्यं॑ दधाति।
सो॒म॒ग्र॒हाꣴश्च॑ सुराग्र॒हाꣴश्च॑ गृह्णाति।
ए॒तद्वै दे॒वानां᳚ पर॒ममन्नम्᳚।
यथ्सोमः॑॥१६॥

ए॒तन्म॑नु॒ष्या॑णाम्।
यथ्सुरा᳚।
प॒र॒मेणै॒वास्मा॑ अ॒न्नाद्ये॒नाव॑रम॒न्नाद्य॒मव॑ रुन्धे।
सो॒म॒ग्र॒हान्गृ॑ह्णाति।
ब्रह्म॑णो॒ वा ए॒तत्तेजः॑।
यथ्सोमः॑।
ब्रह्म॑ण ए॒व तेज॑सा॒ तेजो॒ यज॑माने दधाति।
सु॒रा॒ग्र॒हान्गृ॑ह्णाति।
अन्न॑स्य॒ वा ए॒तच्छम॑लम्।
यथ्सुरा᳚॥१७॥

अन्न॑स्यै॒व शम॑लेन॒ शम॑लं॒ यज॑माना॒दप॑हन्ति।
सो॒म॒ग्र॒हाꣴश्च॑ सुराग्र॒हाꣴश्च॑ गृह्णाति।
पुमा॒न्॒ वै सोमः॑।
स्त्री सुरा᳚।
तन्मि॑थु॒नम्।
मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय।
आ॒त्मान॑मे॒व सो॑मग्र॒हैः स्पृ॑णोति।
जा॒याꣳ सु॑राग्र॒हैः।
तस्मा᳚द्वाजपेयया॒ज्य॑मुष्मिँ॑ल्लो॒के स्त्रिय॒ꣳ॒ सम्भ॑वति।
वा॒ज॒पेया॑भिजित॒ꣴ॒ ह्य॑स्य॥१८॥

पूर्वे॑ सोमग्र॒हा गृ॑ह्यन्ते।
अप॑रे सुराग्र॒हाः।
पु॒रो॒ऽक्षꣳ सो॑मग्र॒हान्थ्सा॑दयति।
प॒श्चा॒द॒क्षꣳ सु॑राग्र॒हान्।
पा॒प॒व॒स्य॒सस्य॒ विधृ॑त्यै।
ए॒ष वै यज॑मानः।
यथ्सोमः॑।
अन्न॒ꣳ॒ सुरा᳚।
सो॒म॒ग्र॒हाꣴश्च॑ सुराग्र॒हाꣴश्च॒ व्यति॑षजति।
अ॒न्नाद्ये॑नै॒वैनं॒ व्यति॑षजति॥१९॥

स॒म्पृचः॑ स्थ॒ सं मा॑ भ॒द्रेण॑ पृ॒ङ्क्तेत्या॑ह।
अन्नं॒ वै भ॒द्रम्।
अ॒न्नाद्ये॑नै॒वैन॒ꣳ॒ सꣳसृ॑जति।
अन्न॑स्य॒ वा ए॒तच्छम॑लम्।
यथ्सुरा᳚।
पा॒प्मेव॒ खलु॒ वै शम॑लम्।
पा॒प्मना॒ वा ए॑नमे॒तच्छम॑लेन॒ व्यति॑षजति।
यथ्सो॑मग्र॒हाꣴश्च॑ सुराग्र॒हाꣴश्च॑ व्यति॒षज॑ति।
वि॒पृचः॑ स्थ॒ वि मा॑ पा॒प्मना॑ पृ॒ङ्क्तेत्या॑ह।
पा॒प्मनै॒वैन॒ꣳ॒ शम॑लेन॒ व्याव॑र्तयति॥२०॥

तस्मा᳚द्वाजपेयया॒जी पू॒तो मेध्यो॑ दक्षि॒ण्यः॑।
प्राङुद्द्र॑वति सोमग्र॒हैः।
अ॒मुमे॒व तैर्लो॒कम॒भिज॑यति।
प्र॒त्यङ्ख्सु॑राग्र॒हैः।
इ॒ममे॒व तैर्लो॒कम॒भिज॑यति।
प्रति॑ष्ठन्ति सोमग्र॒हैः।
याव॑दे॒व स॒त्यम्।
तेन॑ सूयते।
वा॒ज॒सृद्भ्यः॑ सुराग्र॒हान् ह॑रन्ति।
अनृ॑तेनै॒व विश॒ꣳ॒ सꣳसृ॑जति।
हि॒र॒ण्य॒पा॒त्रं मधोः᳚ पू॒र्णं द॑दाति।
म॒ध॒व्यो॑ऽसा॒नीति॑।
ए॒क॒धा ब्र॒ह्मण॒ उप॑ हरति।
ए॒क॒धैव यज॑मान॒ आयु॒स्तेजो॑ दधाति॥२१॥

अनुवाक 4

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
नाग्नि॑ष्टो॒मो नोक्थ्यः॑।
न षो॑ड॒शी नाति॑रा॒त्रः।
अथ॒ कस्मा᳚द्वाज॒पेये॒ सर्वे॑ यज्ञक्र॒तवोऽव॑रुध्यन्त॒ इति॑।
प॒शुभि॒रिति॑ ब्रूयात्।
आ॒ग्ने॒यं प॒शुमाल॑भते।
अ॒ग्नि॒ष्टो॒ममे॒व तेनाव॑ रुन्धे।
ऐ॒न्द्रा॒ग्नेनो॒क्थ्यम्᳚।
ऐ॒न्द्रेण॑ षोड॒शिनः॑ स्तो॒त्रम्।
सा॒र॒स्व॒त्याऽति॑रा॒त्रम्॥२२॥

मा॒रु॒त्या बृ॑ह॒तः स्तो॒त्रम्।
ए॒ताव॑न्तो॒ वै य॑ज्ञक्र॒तवः॑।
तान्प॒शुभि॑रे॒वाव॑ रुन्धे।
आ॒त्मान॑मे॒व स्पृ॑णोत्यग्निष्टो॒मेन॑।
प्रा॒णा॒पा॒नावु॒क्थ्ये॑न।
वी॒र्यꣳ॑ षोड॒शिनः॑ स्तो॒त्रेण॑।
वाच॑मतिरा॒त्रेण॑।
प्र॒जां बृ॑ह॒तः स्तो॒त्रेण॑।
इ॒ममे॒व लो॒कम॒भिज॑यत्यग्निष्टो॒मेन॑।
अ॒न्तरि॑क्षमु॒क्थ्ये॑न॥२३॥

सु॒व॒र्गं लो॒कꣳ षो॑ड॒शिनः॑ स्तो॒त्रेण॑।
दे॒व॒याना॑ने॒व प॒थ आरो॑हत्यतिरा॒त्रेण॑।
नाकꣳ॑ रोहति बृह॒तः स्तो॒त्रेण॑।
तेज॑ ए॒वाऽऽत्मन्ध॑त्त आग्ने॒येन॑ प॒शुना᳚।
ओजो॒ बल॑मैन्द्रा॒ग्नेन॑।
इ॒न्द्रि॒यमै॒न्द्रेण॑।
वाचꣳ॑ सारस्व॒त्या।
उ॒भावे॒व दे॑वलो॒कं च॑ मनुष्यलो॒कं चा॒भिज॑यति मारु॒त्या व॒शया᳚।
स॒प्तद॑श प्राजाप॒त्यान्प॒शूनाल॑भते।
स॒प्त॒द॒शः प्र॒जाप॑तिः॥२४॥

प्र॒जाप॑ते॒राप्त्यै᳚।
श्या॒मा एक॑रूपा भवन्ति।
ए॒वमि॑व॒ हि प्र॒जाप॑तिः॒ समृ॑द्ध्यै।
तान्पर्य॑ग्निकृता॒नुथ्सृ॑जति।
म॒रुतो॑ य॒ज्ञम॑जिघाꣳसन्प्र॒जाप॑तेः।
तेभ्य॑ ए॒तां मा॑रु॒तीं व॒शामाल॑भत।
तयै॒वैना॑नशमयत्।
मा॒रु॒त्या प्र॒चर्य॑।
ए॒तान्थ्संज्ञ॑पयेत्।
म॒रुत॑ ए॒व श॑मयि॒त्वा॥२५॥

ए॒तैः प्रच॑रति।
य॒ज्ञस्याघा॑ताय।
ए॒क॒धा व॒पा जु॑होति।
ए॒क॒दे॒व॒त्या॑ हि।
ए॒ते।
अथो॑ एक॒धैव यज॑माने वी॒र्यं॑ दधाति।
नै॒वा॒रेण॑ स॒प्तद॑शशरावेणै॒तर्हि॒ प्रच॑रति।
ए॒तत्पु॑रोडाशा॒ ह्ये॑ते।
अथो॑ पशू॒नामे॒व छि॒द्रमपि॑दधाति।
सा॒र॒स्व॒त्योत्त॒मया॒ प्रच॑रति।
वाग्वै सर॑स्वती।
तस्मा᳚त्प्रा॒णानां॒ वागु॑त्त॒मा।
अथो᳚ प्र॒जाप॑तावे॒व य॒ज्ञं प्रति॑ष्ठापयति।
प्र॒जाप॑ति॒र्‌॒हि वाक्।
अप॑न्नदती भवति।
तस्मा᳚न्मनु॒ष्याः᳚ सर्वां॒ वाचं॑ वदन्ति॥२६॥

अनुवाक 5

सा॒वि॒त्रं जु॑होति॒ कर्म॑णः कर्मणः पु॒रस्ता᳚त्।
कस्तद्वे॒देत्या॑हुः।
यद्वा॑ज॒पेय॑स्य॒ पूर्वं॒ यदप॑र॒मिति॑।
स॒वि॒तृप्र॑सूत ए॒व य॑थापू॒र्वं कर्मा॑णि करोति।
सव॑नेसवने जुहोति।
आ॒क्रम॑णमे॒व तथ्सेतुं॒ यज॑मानः कुरुते।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै।
वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति न॒ इत्या॑ह।
वाग्वै दे॒वानां᳚ पु॒राऽन्न॑मासीत्।
वाच॑मे॒वास्मा॒ अन्नꣴ॑ स्वदयति॥२७॥

इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै।
वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमित्या॑ह।
यच्चै॒वेयम्।
यच्चा॒स्यामधि॑।
तदे॒वाव॑ रुन्धे।
अथो॒ तस्मि॑न्ने॒वोभये॒ऽभिषि॑च्यते।
अ॒फ्स्व॑न्तर॒मृत॑म॒फ्सु भे॑ष॒जमित्यश्वा᳚न्पल्पूलयति।
अ॒फ्सु वा अश्व॑स्य॒ तृती॑यं॒ प्रवि॑ष्टम्।
तद॑नु॒वेन॒न्वव॑प्लवते।
यद॒फ्सु प॑ल्पू॒लय॑ति॥२८॥

यदे॒वास्या॒फ्सु प्रवि॑ष्टम्।
तदे॒वाव॑ रुन्धे।
ब॒हु वा अश्वो॑ऽमे॒ध्यमुप॑गच्छति।
यद॒फ्सु प॑ल्पू॒लय॑ति।
मेध्या॑ने॒वैना᳚न्करोति।
वा॒युर्वा᳚ त्वा॒ मनु॑र्वा॒ त्वेत्या॑ह।
ए॒ता वा ए॒तं दे॒वता॒ अग्रे॒ अश्व॑मयुञ्जन्।
ताभि॑रे॒वैनान्॑ युनक्ति।
स॒वस्योज्जि॑त्यै।
यजु॑षा युनक्ति॒ व्यावृ॑त्त्यै॥२९॥

अपा᳚न्नपादाशुहेम॒न्निति॒ सम्मा᳚र्ष्टि।
मेध्या॑ने॒वैना᳚न्करोति।
अथो॒ स्तौत्ये॒वैना॑ना॒जिꣳ स॑रिष्य॒तः।
वि॒ष्णु॒क्र॒मान्क्र॑मते।
विष्णु॑रे॒व भू॒त्वेमाँल्लो॒कान॒भिज॑यति।
वै॒श्व॒दे॒वो वै रथः॑।
अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथं॒ यावित्या॑ह।
या ए॒व दे॒वता॒ रथे॒ प्रवि॑ष्टाः।
ताभ्य॑ ए॒व नम॑स्करोति।
आ॒त्मनोऽना᳚र्त्यै।
अश॑मरथं भावुकोऽस्य॒ रथो॑ भवति।
य ए॒वं वेद॑॥३०॥

अनुवाक 6

दे॒वस्या॒हꣳ स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाजं॑ जेष॒मित्या॑ह।
स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वाज॒मुज्ज॑यति।
दे॒वस्या॒हꣳ स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वर्षि॑ष्ठं॒ नाकꣳ॑ रुहेय॒मित्या॑ह।
स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वर्षि॑ष्ठं॒ नाकꣳ॑ रोहति।
चात्वा॑ले रथच॒क्रं निमि॑तꣳ रोहति।
अतो॒ वा अङ्गि॑रस उत्त॒माः सु॑व॒र्गं लो॒कमा॑यन्।
सा॒क्षादे॒व यज॑मानः सुव॒र्गं लो॒कमे॑ति।
आवे᳚ष्टयति।
वज्रो॒ वै रथः॑।
वज्रे॑णै॒व दिशो॒ऽभिज॑यति॥३१॥

वा॒जिना॒ꣳ॒ साम॑ गायते।
अन्नं॒ वै वाजः॑।
अन्न॑मे॒वाव॑ रुन्धे।
वा॒चो वर्ष्म॑ दे॒वेभ्योऽपा᳚क्रामत्।
तद्वन॒स्पती॒न्प्रावि॑शत्।
सैषा वाग्वन॒स्पति॑षु वदति।
या दु॑न्दु॒भौ।
तस्मा᳚द्दुन्दु॒भिः सर्वा॒ वाचोऽति॑वदति।
दु॒न्दु॒भीन्थ्स॒माघ्न॑न्ति।
प॒र॒मा वा ए॒षा वाक्॥३२॥

या दु॑न्दु॒भौ।
प॒र॒मयै॒व वा॒चाऽव॑रां॒ वाच॒म॑व रुन्धे।
अथो॑ वा॒च ए॒व वर्ष्म॒ यज॑मा॒नोऽव॑ रुन्धे।
इन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापय॒तेन्द्रो॒ वाज॑मजयि॒दित्या॑ह।
ए॒ष वा ए॒तर्हीन्द्रः॑।
यो यज॑ते।
यज॑मान ए॒व वाज॒मुज्ज॑यति।
स॒प्तद॑श प्रव्या॒धाना॒जिं धा॑वन्ति।
स॒प्त॒द॒शꣴ स्तो॒त्रं भ॑वति।
स॒प्तद॑शसप्तदश दीयन्ते॥३३॥

स॒प्त॒द॒शः प्र॒जाप॑तिः।
प्र॒जा॑पते॒राप्त्यै᳚।
अर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्या॑ह।
अ॒ग्निर्वा अर्वा᳚।
वा॒युः सप्तिः॑।
आ॒दि॒त्यो वा॒जी।
ए॒ताभि॑रे॒वास्मै॑ दे॒वता॑भिर्देवर॒थं यु॑नक्ति।
प्र॒ष्टि॒वा॒हिनं॑ युनक्ति।
प्र॒ष्टि॒वा॒ही वै दे॑वर॒थः।
दे॒व॒र॒थमे॒वास्मै॑ युनक्ति॥३४॥

वाजि॑नो॒ वाजं॑ धावत॒ काष्ठां᳚ गच्छ॒तेत्या॑ह।
सु॒व॒र्गो वै लो॒कः काष्ठा᳚।
सु॒व॒र्गमे॒व लो॒कं य॑न्ति।
सु॒व॒र्गं वा ए॒ते लो॒कं य॑न्ति।
य आ॒जिं धाव॑न्ति।
प्राञ्चो॑ धावन्ति।
प्राङि॑व॒ हि सु॑व॒र्गो लो॒कः।
च॒त॒सृभि॒रनु॑ मन्त्रयते।
च॒त्वारि॒ छन्दाꣳ॑सि।
छन्दो॑भिरे॒वैना᳚न्थ्सुव॒र्गं लो॒कं ग॑मयति॥३५॥

प्र वा ए॒ते᳚ऽस्माल्लो॒काच्च्य॑वन्ते।
य आ॒जिं धाव॑न्ति।
उदं॑ च॒ आव॑र्तन्ते।
अ॒स्मादे॒व तेन॑ लो॒कान्नय॑न्ति।
र॒थ॒वि॒मो॒च॒नीयं॑ जुहोति॒ प्रति॑ष्ठित्यै।
आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दित्या॑ह।
अन्नं॒ वै वाजः॑।
अन्न॑मे॒वाव॑ रुन्धे।
य॒था॒लो॒कं वा ए॒त उज्ज॑यन्ति।
य आ॒जिं धाव॑न्ति॥३६॥

कृ॒ष्णलं॑ कृष्णलं वाज॒सृद्भ्यः॒ प्रय॑च्छति।
यमे॒व ते वाजं॑ लो॒कमु॒ज्जय॑न्ति।
तं प॑रि॒क्रीयाव॑ रुन्धे।
ए॒क॒धा ब्र॒ह्मण॒ उप॑हरति।
ए॒क॒धैव यज॑माने वी॒र्यं॑ दधाति।
दे॒वा वा ओष॑धीष्वा॒जिम॑युः।
ता बृह॒स्पति॒रुद॑जयत्।
स नी॒वारा॒न्निर॑वृणीत।
तन्नी॒वारा॑णां नीवार॒त्वम्।
नै॒वा॒रश्च॒रुर्भ॑वति॥३७॥

ए॒तद्वै दे॒वानां᳚ पर॒ममन्नम्᳚।
यन्नी॒वाराः᳚।
प॒र॒मेणै॒वास्मा॑ अ॒न्नाद्ये॒नाव॑रम॒न्नाद्य॒मव॑ रुन्धे।
स॒प्तद॑शशरावो भवति।
स॒प्त॒द॒शः प्र॒जाप॑तिः।
प्र॒जाप॑ते॒राप्त्ये᳚।
क्षी॒रे भ॑वति।
रुच॑मे॒वास्मि॑न्दधाति।
स॒र्पिष्वा᳚न्भवति मेध्य॒त्वाय॑।
बा॒र्॒ह॒स्प॒त्यो वा ए॒ष दे॒वत॑या॥३८॥

यो वा॑ज॒पेये॑न॒ यज॑ते।
बा॒र्॒ह॒स्प॒त्य ए॒ष च॒रुः।
अश्वा᳚न्थ्सरिष्य॒तः स॒स्रुष॒श्चाव॑ घ्रापयति।
यमे॒व ते वाजं॑ लो॒कमु॒ज्जय॑न्ति।
तमे॒वाव॑ रुन्धे।
अजी॑जिपत वनस्पतय॒ इन्द्रं॒ वाजं॒ विमु॑च्यध्व॒मिति॑ दुन्दु॒भीन् विमु॑ञ्चति।
यमे॒व ते वाजं॑ लो॒कमि॑न्द्रि॒यं दु॑न्दु॒भय॑ उ॒ज्जय॑न्ति।
तमे॒वाव॑ रुन्धे॥३९॥

अनुवाक 7

ता॒र्प्यं यज॑मानं॒ परि॑धापयति।
य॒ज्ञो वै ता॒र्प्यम्।
य॒ज्ञेनै॒वैन॒ꣳ॒ सम॑र्धयति।
द॒र्भ॒मयं॒ परि॑धापयति।
प॒वित्रं॒ वै द॒र्भाः।
पु॒नात्ये॒वैनम्᳚।
वाजं॒ वा ए॒षोऽव॑रुरुथ्सते।
यो वा॑ज॒पेये॑न॒ यज॑ते।
ओष॑धयः॒ खलु॒ वै वाजः॑।
यद्द॑र्भ॒मयं॑ परिधा॒पय॑ति॥४०॥

वाज॒स्याव॑रुद्ध्यै।
जाय॒ एहि॒ सुवो॒ रोहा॒वेत्या॑ह।
पत्नि॑या ए॒वैष य॒ज्ञस्या᳚न्वार॒म्भोऽन॑वच्छित्त्यै।
स॒प्तद॑शारत्नि॒र्यूपो॑ भवति।
स॒प्त॒द॒शः प्र॒जाप॑तिः।
प्र॒जाप॑ते॒राप्त्यै᳚।
तू॒प॒रश्चतु॑रश्रिर्भवति।
गौ॒धू॒मं च॒षालम्᳚।
न वा ए॒ते व्री॒हयो॒ न यवाः᳚।
यद्गो॒धूमाः᳚॥४१॥

ए॒वमि॑व॒ हि प्र॒जाप॑तिः॒ समृ॑द्ध्यै।
अथो॑ अ॒मुमे॒वास्मै॑ लो॒कमन्न॑वन्तं करोति।
वासो॑भिर्वेष्टयति।
ए॒ष वै यज॑मानः।
यद्यूपः॑।
स॒र्व॒दे॒व॒त्यं॑ वासः॑।
सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिः॒ सम॑र्धयति।
अथो॑ आ॒क्रम॑णमे॒व तथ्सेतुं॒ यज॑मानः कुरुते।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै।
द्वाद॑श वाजप्रस॒वीया॑नि जुहोति॥४२॥

द्वाद॑श॒ मासाः᳚ संवथ्स॒रः।
सं॒व॒थ्स॒रमे॒व प्री॑णाति।
अथो॑ संवथ्स॒रमे॒वास्मा॒ उप॑दधाति।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै।
द॒शभिः॒ कल्पै॑ रोहति।
नव॒ वै पुरु॑षे प्रा॒णाः।
नाभि॑र्दश॒मी।
प्रा॒णाने॒व य॑थास्था॒नं क॑ल्पयि॒त्वा।
सु॒व॒र्गं लो॒कमे॑ति।
ए॒ताव॒द्वै पुरु॑षस्य॒ स्वम्॥४३॥

याव॑त्प्रा॒णाः।
याव॑दे॒वास्यास्ति॑।
तेन॑ स॒ह सु॑व॒र्गं लो॒कमे॑ति।
सुव॑र्दे॒वाꣳ अ॑ग॒न्मेत्या॑ह।
सु॒व॒र्गमे॒व लो॒कमे॑ति।
अ॒मृता॑ अभू॒मेत्या॑ह।
अ॒मृत॑मिव॒ हि सु॑व॒र्गो लो॒कः।
प्र॒जाप॑तेः प्र॒जा अ॑भू॒मेत्या॑ह।
प्रा॒जा॒प॒त्यो वा अ॒यं लो॒कः।
अ॒स्मादे॒व तेन॑ लो॒कान्नैति॑॥४४॥

सम॒हं प्र॒जया॒ सं मया᳚ प्र॒जेत्या॑ह।
आ॒मे॒वैतामा शा᳚स्ते।
आ॒स॒पु॒टैर्घ्न॑न्ति।
अन्नं॒ वा इ॒यम्।
अ॒न्नाद्ये॑नै॒वैन॒ꣳ॒ सम॑र्धयन्ति।
ऊषै᳚र्घ्नन्ति।
ए॒ते हि सा॒क्षादन्नम्᳚।
यदूषाः᳚।
सा॒क्षादे॒वैन॑म॒न्नाद्ये॑न॒ सम॑र्धयन्ति।
पु॒रस्ता᳚त्प्र॒त्यञ्चं᳚ घ्नन्ति॥४५॥

पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म॒द्यते᳚।
शी॒र्॒ष॒तो घ्न॑न्ति।
शी॒र्॒ष॒तो ह्यन्न॑म॒द्यते᳚।
दि॒ग्भ्यो घ्न॑न्ति।
दि॒ग्भ्य ए॒वास्मा॑ अ॒न्नाद्य॒मव॑रुन्धते।
ई॒श्व॒रो वा ए॒ष परा᳚ङ्प्र॒दघः॑।
यो यूप॒ꣳ॒ रोह॑ति।
हिर॑ण्यम॒ध्यव॑रोहति।
अ॒मृतं॒ वै हिर॑ण्यम्।
अ॒मृतꣳ॑ सुव॒र्गो लो॒कः॥४६॥

अ॒मृत॑ ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठति।
श॒तमा॑नं भवति।
श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति।
पुष्ट्यै॒ वा ए॒तद्रू॒पम्।
यद॒जा।
त्रिः सं॑वथ्स॒रस्या॒न्यान्प॒शून्परि॒ प्रजा॑यते।
ब॒स्ता॒जि॒नम॒ध्यव॑ रोहति।
पुष्ट्या॑मे॒व प्र॒जन॑ने॒ प्रति॑ तिष्ठति॥४७॥

अनुवाक 8

स॒प्तान्न॑हो॒माञ्जु॑होति।
स॒प्त वा अन्ना॑नि।
याव॑न्त्ये॒वान्ना॑नि।
तान्ये॒वाव॑ रुन्धे।
स॒प्त ग्रा॒म्या ओष॑धयः।
स॒प्तार॒ण्याः।
उ॒भयी॑षा॒मव॑रुद्ध्यै।
अन्न॑स्यान्नस्य जुहोति।
अन्न॑स्यान्न॒स्याव॑रुद्ध्यै।
यद्वा॑जपेयया॒ज्यन॑वरुद्धस्याश्ञी॒यात्॥४८॥

अव॑रुद्धेन॒ व्यृ॑द्ध्येत।
सर्व॑स्य समव॒दाय॑ जुहोति।
अन॑वरुद्ध॒स्याव॑रुद्ध्यै।
औदु॑म्बरेण स्रु॒वेण॑ जुहोति।
ऊर्ग्वा अन्न॑मुदु॒म्बरः॑।
ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुद्ध्यै।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह।
स॒वि॒तृप्र॑सूत ए॒वैनं॒ ब्रह्म॑णा दे॒वता॑भिर॒भिषि॑ञ्चति।
अन्न॑स्यान्नस्या॒भिषि॑ञ्चति।
अन्न॑स्यान्न॒स्याव॑रुद्ध्यै॥४९॥

पु॒रस्ता᳚त्प्र॒त्यञ्च॑म॒भिषि॑ञ्चति।
पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म॒द्यते᳚।
शी॒र्॒ष॒तो॑ऽभिषि॑ञ्चति।
शी॒र्॒ष॒तो ह्यन्न॑म॒द्यते᳚।
आ मुखा॑द॒न्वव॑स्रावयति।
मु॒ख॒त ए॒वास्मा॑ अ॒न्नाद्यं॑ दधाति।
अ॒ग्नेस्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह।
ए॒ष वा अ॒ग्नेः स॒वः।
तेनै॒वैन॑म॒भिषि॑ञ्चति।
इन्द्र॑स्य त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह॥५०॥

इ॒न्द्रि॒यमे॒वास्मि॑न्ने॒तेन॑ दधाति।
बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह।
ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑।
ब्रह्म॑णै॒वैन॑म॒भिषि॑ञ्चति।
सो॒म॒ग्र॒हाꣴश्चा॑वदानी॒यानि॑ च॒र्त्विग्भ्य॒ उप॑हरन्ति।
अ॒मुमे॒व तैर्लो॒कमन्न॑वन्तं करोति।
सु॒रा॒ग्र॒हाꣴश्चा॑नवदानी॒यानि॑ च वाज॒सृद्भ्यः॑।
इ॒ममे॒व तैर्लो॒कमन्न॑वन्तं करोति।
अथो॑ उ॒भयी᳚ष्वे॒वाभिषि॑च्यते।
वि॒मा॒थं कु॑र्वते वाज॒सृतः॑॥५१॥

इ॒न्द्रि॒यस्याव॑रुद्ध्यै।
अनि॑रुक्ताभिः प्रातः सव॒ने स्तु॑वते।
अनि॑रुक्तः प्र॒जाप॑तिः।
प्र॒जाप॑ते॒राप्त्यै᳚।
वाज॑वतीभि॒र्माध्यं॑ दिने।
अन्नं॒ वै वाजः॑।
अन्न॑मे॒वाव॑ रुन्धे।
शि॒पि॒वि॒ष्टव॑तीभिस्तृतीयसव॒ने।
य॒ज्ञो वै विष्णुः॑।
प॒शवः॒ शिपिः॑।
य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति।
बृ॒हदन्त्यं॑ भवति।
अन्त॑मे॒वैनꣴ॑ श्रि॒यै ग॑मयति॥५२॥

अनुवाक 9

नृ॒षदं॒ त्वेत्या॑ह।
प्र॒जा वै नॄन्।
प्र॒जाना॑मे॒वैतेन॑ सूयते।
द्रु॒षद॒मित्या॑ह।
वन॒स्पत॑यो॒ वै द्रु।
वन॒स्पती॑नामे॒वैतेन॑ सूयते।
भु॒व॒न॒सद॒मित्या॑ह।
य॒दा वै वसी॑या॒न्भव॑ति।
भुव॑नमग॒न्निति॒ वै तमा॑हुः।
भुव॑नमे॒वैतेन॑ गच्छति॥५३॥

अ॒फ्सु॒षदं॑ त्वा घृत॒सद॒मित्या॑ह।
अ॒पामे॒वैतेन॑ घृ॒तस्य॑ सूयते।
व्यो॒म॒सद॒मित्या॑ह।
य॒दा वै वसी॑या॒न्भव॑ति।
व्यो॑माग॒न्निति॒ वै तमा॑हुः।
व्यो॑मै॒वैतेन॑ गच्छति।
पृ॒थि॒वि॒षदं॑ त्वाऽन्तरिक्ष॒सद॒मित्या॑ह।
ए॒षामे॒वैतेन॑ लो॒कानाꣳ॑ सूयते।
तस्मा᳚द्वाजपेयया॒जी न कञ्च॒न प्र॒त्यव॑रोहति।
अपी॑व॒ हि दे॒वता॑नाꣳ सू॒यते᳚॥५४॥

ना॒क॒सद॒मित्या॑ह।
य॒दा वै वसी॑या॒न्भव॑ति।
नाक॑मग॒न्निति॒ वै तमा॑हुः।
नाक॑मे॒वैतेन॑ गच्छति।
ये ग्रहाः᳚ पञ्चज॒नीना॒ इत्या॑ह।
प॒ञ्च॒ज॒नाना॑मे॒वैतेन॑ सूयते।
अ॒पाꣳ रस॒मुद्व॑यस॒मित्या॑ह।
अ॒पामे॒वैतेन॒ रस॑स्य सूयते।
सूर्य॑रश्मिꣳ स॒माभृ॑त॒मित्या॑ह सशुक्र॒त्वाय॑॥५५॥

अनुवाक 10

इन्द्रो॑ वृ॒त्रꣳ ह॒त्वा।
असु॑रान्परा॒भाव्य॑।
सो॑ऽमावा॒स्यां᳚ प्रत्याग॑च्छत्।
ते पि॒तरः॑ पूर्वे॒द्युराग॑च्छन्।
पि॒तॄन् य॒ज्ञो॑ऽगच्छत्।
तं दे॒वाः पुन॑रयाचन्त।
तमे᳚भ्यो॒ न पुन॑रददुः।
ते᳚ऽब्रुव॒न्वरं॑ वृणामहै।
अथ॑ वः॒ पुन॑र्दास्यामः।
अ॒स्मभ्य॑मे॒व पू᳚र्वे॒द्युः क्रि॑याता॒ इति॑॥५६॥

तमे᳚भ्यः॒ पुन॑रददुः।
तस्मा᳚त्पि॒तृभ्यः॑ पूर्वे॒द्युः क्रि॑यते।
यत्पि॒तृभ्यः॑ पूर्वे॒द्युः क॒रोति॑।
पि॒तृभ्य॑ ए॒व तद्य॒ज्ञं नि॒ष्क्रीय॒ यज॑मानः॒ प्रत॑नुते।
सोमा॑य पि॒तृपी॑ताय स्व॒धा नम॒ इत्या॑ह।
पि॒तुरे॒वाधि॑ सोमपी॒थमव॑ रुन्धे।
न हि पि॒ता प्र॒मीय॑माण॒ आहै॒ष सो॑मपी॒थ इति॑।
इ॒न्द्रि॒यं वै सो॑मपी॒थः।
इ॒न्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्धे।
तेने᳚न्द्रि॒येण॑ द्वि॒तीयां᳚ जा॒याम॒भ्य॑श्ञुते॥५७॥

ए॒तद्वै ब्राह्म॑णं पु॒रा वा॑जवश्रव॒सा वि॒दाम॑क्रन्।
तस्मा॒त्ते द्वेद्वे॑ जा॒ये अ॒भ्या᳚क्षत।
य ए॒वं वेद॑।
अ॒भि द्वि॒तीयां᳚ जा॒याम॑श्ञुते।
अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा नम॒ इत्या॑ह।
य ए॒व पि॑तृ॒णाम॒ग्निः।
तं प्री॑णाति।
ति॒स्र आहु॑तीर्जुहोति।
त्रिर्निद॑धाति।
षट्थ्सं प॑द्यन्ते॥५८॥

षड्वा ऋ॒तवः॑।
ऋ॒तूने॒व प्री॑णाति।
तू॒ष्णीं मेक्ष॑ण॒माद॑धाति।
अस्ति॑ वा॒ हि ष॒ष्ठ ऋ॒तुर्न वा᳚।
दे॒वान् वै पि॒तॄन्प्री॒तान्।
म॒नु॒ष्याः᳚ पि॒तरोऽनु॒ प्रपि॑पते।
ति॒स्र आहु॑तीर्जुहोति।
त्रिर्निद॑धाति।
षट्थ्सं प॑द्यन्ते।
षड्वा ऋ॒तवः॑॥५९॥

ऋ॒तवः॒ खलु॒ वै दे॒वाः पि॒तरः॑।
ऋ॒तूने॒व दे॒वान्पि॒तॄन्प्री॑णाति।
तान्प्री॒तान्।
म॒नु॒ष्याः᳚ पि॒तरोऽनु॒ प्रपि॑पते।
स॒कृ॒दा॒च्छि॒न्नं ब॒र्॒हिर्भ॑वति।
स॒कृदि॑व॒ हि पि॒तरः॑।
त्रिर्निद॑धाति।
तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑।
ताने॒व प्री॑णाति।
परा॒ङाव॑र्तते॥६०॥

ह्लीका॒ हि पि॒तरः॑।
ओष्मणो᳚ व्या॒वृत॒ उपा᳚स्ते।
ऊ॒ष्मभा॑गा॒ हि पि॒तरः॑।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
प्राश्या(३)न्न प्राश्या(३)मिति॑।
यत्प्रा᳚श्ञी॒यात्।
जन्य॒मन्न॑मद्यात्।
प्र॒मायु॑कः स्यात्।
यन्न प्रा᳚श्ञी॒यात्।
अह॑विः स्यात्॥६१॥

पि॒तृभ्य॒ आवृ॑श्च्येत।
अ॒व॒घ्रेय॑मे॒व।
तन्नेव॒ प्राशि॑तं॒ नेवाप्रा॑शितम्।
वी॒रं वा॒ वै पि॒तरः॑ प्र॒यन्तो॒ हर॑न्ति।
वी॒रं वा॑ ददति।
द॒शां छि॑नत्ति।
हर॑णभागा॒ हि पि॒तरः॑।
पि॒तॄने॒व नि॒रव॑दयते।
उत्त॑र॒ आयु॑षि॒ लोम॑ छिन्दीत।
पि॒तृ॒णाꣴ ह्ये॑तर्हि॒ नेदी॑यः॥६२॥

नम॑स्करोति।
न॒म॒स्का॒रो हि पि॑तृ॒णाम्।
नमो॑ वः पितरो॒ रसा॑य।
नमो॑ वः पितरः॒ शुष्मा॑य।
नमो॑ वः पितरो जी॒वाय॑।
नमो॑ वः पितरः स्व॒धायै᳚।
नमो॑ वः पितरो म॒न्यवे᳚।
नमो॑ वः पितरो घो॒राय॑।
पित॑रो॒ नमो॑ वः।
य ए॒तस्मिँ॑ल्लो॒के स्थ॥६३॥

यु॒ष्माꣴस्तेऽनु॑।
ये᳚ऽस्मिँल्लो॒के।
मां तेऽनु॑।
य ए॒तस्मिँ॑ल्लो॒के स्थ।
यू॒यं तेषां॒ वसि॑ष्ठा भूयास्त।
ये᳚ऽस्मिँल्लो॒के।
अ॒हं तेषां॒ वसि॑ष्ठो भूयास॒मित्या॑ह।
वसि॑ष्ठः समा॒नानां᳚ भवति।
य ए॒वं वि॒द्वान्पि॒तृभ्यः॑ क॒रोति॑।
ए॒ष वै म॑नु॒ष्या॑णां य॒ज्ञः॥६४॥

दे॒वानां॒ वा इत॑रे य॒ज्ञाः।
तेन॒ वा ए॒तत्पि॑तृलो॒के च॑रति।
यत्पि॒तृभ्यः॑ क॒रोति॑।
स ई᳚श्व॒रः प्रमे॑तोः।
प्रा॒जा॒प॒त्यय॒र्चा पुन॒रैति॑।
य॒ज्ञो वै प्र॒जाप॑तिः।
य॒ज्ञेनै॒व स॒ह पुन॒रैति॑।
न प्र॒मायु॑को भवति।
पि॒तृ॒लो॒के वा ए॒तद्यज॑मानश्चरति।
यत्पि॒तृभ्यः॑ क॒रोति॑।
स ई᳚श्व॒र आर्ति॒मार्तोः᳚।
प्र॒जाप॑ति॒स्त्वावैनं॒ तत॒ उन्ने॑तुमर्ह॒तीत्या॑हुः।
यत्प्रा॑जाप॒त्यय॒र्चा पुन॒रैति॑।
प्र॒जाप॑तिरे॒वैनं॒ तत॒ उन्न॑यति।
नार्ति॒मार्च्छ॑ति॒ यज॑मानः॥६५॥