मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — द्वादशस्कन्धः, अध्याय २

3
द्वादशस्कन्धः · 2

कालेन बलिना राजन् नङ्क्ष्यत्यायुर्बलं स्मृतिः

श्रीशुक उवाच

(अनुष्टुप्) ततश्चानुदिनं धर्मः सत्यं शौचं क्षमा दया ।

कालेन बलिना राजन् नङ्क्ष्यत्यायुर्बलं स्मृतिः

॥१॥

वित्तमेव कलौ नॄणां जन्माचारगुणोदयः ।

धर्मन्याय व्यवस्थायां कारणं बलमेव हि

॥२॥

दाम्पत्येऽभिरुचिर्हेतुः मायैव व्यावहारिके ।

स्त्रीत्वे पुंस्त्वे च हि रतिः विप्रत्वे सूत्रमेव हि

॥३॥

लिङ्गं एवाश्रमख्यातौ अन्योन्यापत्ति कारणम् ।

अवृत्त्या न्यायदौर्बल्यं पाण्डित्ये चापलं वचः

॥४॥

अनाढ्यतैव असाधुत्वे साधुत्वे दंभ एव तु ।

स्वीकार एव चोद्वाहे स्नानमेव प्रसाधनम्

॥५॥

दूरे वार्ययनं तीर्थं लावण्यं केशधारणम् ।

उदरंभरता स्वार्थः सत्यत्वे धार्ष्ट्यमेव हि

॥६॥

दाक्ष्यं कुटुंबभरणं यशोऽर्थे धर्मसेवनम् ।

एवं प्रजाभिर्दुष्टाभिः आकीर्णे क्षितिमण्डले

॥७॥

ब्रह्मविट्क्षत्रशूद्राणां यो बली भविता नृपः ।

प्रजा हि लुब्धै राजन्यैः निर्घृणैः दस्युधर्मभिः

॥८॥

आच्छिन्नदारद्रविणा यास्यन्ति गिरिकाननम् ।

शाकमूलामिषक्षौद्र फलपुष्पाष्टिभोजनाः

॥९॥

अनावृष्ट्या विनङ्क्ष्यन्ति दुर्भिक्षकरपीडिताः शीतवातातपप्रावृड् हिमैरन्योन्यतः प्रजाः

॥१०॥

क्षुत्तृड्भ्यां व्याधिभिश्चैव संतप्स्यन्ते च चिन्तया ।

त्रिंशद्विंशति वर्षाणि परमायुः कलौ नृणाम्

॥११॥

क्षीयमाणेषु देहेषु देहिनां कलिदोषतः ।

वर्णाश्रमवतां धर्मे नष्टे वेदपथे नृणाम्

॥१२॥

पाषण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु ।

चौर्यानृतवृथाहिंसा नानावृत्तिषु वै नृषु

॥१३॥

शूद्रप्रायेषु वर्णेषु च्छागप्रायासु धेनुषु ।

गृहप्रायेष्वाश्रमेषु यौनप्रायेषु बन्धुषु

॥१४॥

अणुप्रायास्वोषधीषु शमीप्रायेषु स्थास्नुषु ।

विद्युत्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु

॥१५॥

इत्थं कलौ गतप्राये जने तु खरधर्मिणि ।

धर्मत्राणाय सत्त्वेन भगवान् अवतरिष्यति

॥१६॥

चराचर गुरोर्विष्णोः ईश्वरस्याखिलात्मनः ।

धर्मत्राणाय साधूनां जन्म कर्मापनुत्तये

॥१७॥

संभलग्राम मुख्यस्य ब्राह्मणस्य महात्मनः ।

भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति

॥१८॥

अश्वं आशुगमारुह्य देवदत्तं जगत्पतिः ।

असिनासाधुदमनं अष्टैश्वर्य गुणान्वितः

॥१९॥

विचरन् आशुना क्षौण्यां हयेनाप्रतिमद्युतिः ।

नृपलिङ्गच्छदो दस्यून् कोटिशो निहनिष्यति

॥२०॥

अथ तेषां भविष्यन्ति मनांसि विशदानि वै ।

वासुदेवाङ्गरागाति पुण्यगंधानिलस्पृशाम् ।

पौरजानपदानां वै हतेष्वखिलदस्युषु

॥२१॥

तेषां प्रजाविसर्गश्च स्थविष्ठः संभविष्यति ।

वासुदेवे भगवति सत्त्वमूर्तौ हृदि स्थिते

॥२२॥

यदावतीर्णो भगवान् कल्किर्धर्मपतिर्हरिः ।

कृतं भविष्यति तदा प्रजासूतिश्च सात्त्विकी

॥२३॥

यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती ।

एकराशौ समेष्यन्ति भविष्यति तदा कृतम्

॥२४॥

येऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवाः ।

ते ते उद्देशतः प्रोक्ता वंशीयाः सोमसूर्ययोः

॥२५॥

आरभ्य भवतो जन्म यावत् नन्दाभिषेचनम् ।

एतद् वर्षसहस्रं तु शतं पञ्चदशोत्तरम्

॥२६॥

सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि ।

तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि

॥२७॥

तेनैव ऋषयो युक्ताः तिष्ठन्त्यब्दशतं नृणाम् ।

ते त्वदीये द्विजाः काले अधुना चाश्रिता मघाः

॥२८॥

विष्णोर्भगवतो भानुः कृष्णाख्योऽसौ दिवं गतः ।

तदाविशत् कलिर्लोकं पापे यद् रमते जनः

॥२९॥

यावत् स पादपद्माभ्यां स्पृशनास्ते रमापतिः ।

तावत् कलिर्वै पृथिवीं पराक्रान्तुं न चाशकत्

॥३०॥

यदा देवर्षयः सप्त मघासु विचरन्ति हि ।

तदा प्रवृत्तस्तु कलिः द्वादशाब्द शतात्मकः

॥३१॥

यदा मघाभ्यो यास्यन्ति पूर्वाषाढां महर्षयः ।

तदा नन्दात् प्रभृत्येष कलिर्वृद्धिं गमिष्यति

॥३२॥

यस्मिन् कृष्णो दिवं यातः तस्मिन् एव तदाहनि ।

प्रतिपन्नं कलियुगं इति प्राहुः पुराविदः

॥३३॥

दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुनः कृतम् ।

भविष्यति तदा नॄणां मन आत्मप्रकाशकम्

॥३४॥

इत्येष मानवो वंशो यथा सङ्ख्यायते भुवि ।

तथा विट्शूद्रविप्राणां तास्ता ज्ञेया युगे युगे

॥३५॥

एतेषां नामलिङ्गानां पुरुषाणां महात्मनाम् ।

कथामात्रावशिष्टानां कीर्तिरेव स्थिता भुवि

॥३६॥

देवापिः शान्तनोर्भ्राता मरुश्चेक्ष्वाकुवंशजः ।

कलापग्राम आसाते महायोगबलान्वितौ

॥३७॥

ताविहैत्य कलेरन्ते वासुदेवानुशिक्षितौ ।

वर्णाश्रमयुतं धर्मं पूर्ववत् प्रथयिष्यतः

॥३८॥

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।

अनेन क्रमयोगेन भुवि प्राणिषु वर्तते

॥३९॥

राजन् एते मया प्रोक्ता नरदेवास्तथापरे ।

भूमौ ममत्वं कृत्वान्ते हित्वेमां निधनं गताः

॥४०॥

कृमिविड् भस्मसंज्ञान्ते राजनाम्नोऽपि यस्य च ।

भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः

॥४१॥

कथं सेयमखण्डा भूः पूर्वैर्मे पुरुषैर्धृता ।

मत्पुत्रस्य च पौत्रस्य मत्पूर्वा वंशजस्य वा

॥४२॥

तेजोऽबन्नमयं कायं गृहीत्वाऽऽत्मतयाबुधाः ।

महीं ममतया चोभौ हित्वान्तेऽदर्शनं गताः

॥४३॥

ये ये भूपतयो राजन् भुंजते भुवमोजसा ।

कालेन ते कृताः सर्वे कथामात्राः कथासु च

॥४४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु