मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — बदरिकाश्रममाहात्म्यम्, अध्याय ५

3
वैष्णवखण्डः · बदरिकाश्रममाहात्म्यम् · 5

किमर्थं भगवांस्तत्र वसति श्रद्धया पुनः

स्कंद उवाच

किमर्थं भगवांस्तत्र वसति श्रद्धया पुनः ॥

किं पुण्यं किं फलं तस्य दर्शनस्पर्शनादिभिः

॥१॥

नैवेद्यभक्षणं चापि महापूजाकृतेस्तथा ॥

प्रदक्षिणस्य च फलं ब्रूहि मे कृपया पितः

॥२॥

शिव उवाच

पुरा कृतयुगस्यादौ सर्वभूतहिताय च ॥

मूर्तिमान्भगवांस्तत्र तपोयोगसमाश्रितः

॥३॥

त्रेतायुगे ह्यृषिगणैर्योगाभ्यासैकतत्परः ॥

द्वापरे समनुप्राप्ते ज्ञाननिष्ठो हि दुर्लभः

॥४॥

ऋषीणां देवतानां च दुर्दर्शो भगवानभूत् ॥

ततो ह्यृषिगणा देवा अलभ्य भगवद्गतिम्

॥५॥

स्वायंभुवं पदं याता विस्मयाकुलचेतसः ॥

तत्र गत्वा नमस्कृत्य ऊचुर्लोकेश्वरं मुदा ॥

बृहस्पतिं पुरस्कृत्य ऋषयश्च तपोधनाः

॥६॥

देवा ऊचुः

नमस्ते सर्वलोकानामाश्रयः शरणार्तिहा ॥

वृत्तिदः करुणापूर्णः पितामह सुरेश्वर ॥

निवेदनीया विपदः समुद्धर्ता पितासि नः

॥७॥

ब्रह्मोवाच

किमर्थमागता यूयं विस्मयाकुलमानसाः ॥

मिलिता ऋषिभिः साकं ब्रूतागमनकारणम्

॥८॥

देवा ऊचुः

द्वापरे समनुप्राप्ते विशालायां विशालधीः ॥

भगवान्दृश्यते नैव तत्र किं कारणं वद

॥९॥

विशाला किं परित्यक्ता ततो वा क्व गतः स्वयम् ॥

अपराधादुतास्माकं कथं चासौ प्रसीदति

॥१०॥

ब्रह्मोवाच

नाहमेतद्विजानामि श्रुतं चाद्य मुखाद्धि वः ॥

को हेतुर्दृक्पथातीतो भगवान्भवतां सुराः ॥

आगच्छत वयं यामस्तीरं क्षीरपयोनिधेः

॥११॥

इत्युक्तास्ते पुरोधाय ब्रह्माणं त्रिदिवौकसः ॥

ययुः क्षीरांबुधेस्तीरमृषयश्च तपोधनाः

॥१२॥

तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम् ॥

गीर्भिश्चित्रपदार्थाभिस्तुष्टुवुर्जगदीश्वरम्

॥१३॥

ब्रह्मोवाच

नमस्ते पुरुषाध्यक्ष सर्वभूतगुहाशय ॥

वासुदेवाखिलाधार जगद्धेतो जगन्मय

॥१४॥

त्वमेव सर्वभूतानां हेतुः पतिरुताश्रयः ॥

मायाशक्तिमुपाश्रित्य विचरस्येकसुन्दर

॥१५॥

एको नानायते योऽसौ नटवज्जायतेऽव्ययः ॥

व्यापकोऽपि कृपालुत्वाद्भक्तहृत्पद्मषट्पद ॥

ददाति विविधानंदं तं वंदे जगतां पतिम्

॥१६॥

देवा ऊचुः

विपद्वनांते हुतभुग्जनानां गृहीतसत्त्वस्त्रिदशावनीशः ॥

चराचरात्मा भगवाननंतः कृपाकटाक्षैरवलोकतां नः

॥१७॥

सकृद्यन्नामपीयूषरसपानपरः पुमान् ॥

निःश्रेयसं तृणमिव मन्यते तं हरिं भजे

॥१८॥

अविद्याप्रतिबिंबत्वाज्जीवभावमुपागतः ॥

विज्ञत्वादुपशांतात्मा स पुनातु जगत्त्रयम्

॥१९॥

गंधर्वा ऊचुः

पिबंति ये हरेः पदांबुसंगलेशतः पयः पयो न ते पुनःपुनः पिबंति मातुरंकतः ॥

प्रसंगतो यदा भिधासुधां निपीय मानवा मृताऽमृतं व्रजंत्यधो न जातु यांत्यशंकिताः

॥२०॥

ततः स्तुतो हरिः साक्षात्सिंधोरुत्थाय चाब्रवीत् ॥

अलक्षितोऽपरैर्ब्रह्मा परं तद्वेद नापरः

॥२१॥

ब्रह्मा तदुपधार्याथ नत्वा तस्मै दिवौकस ॥

बोधयामास सकलं सुराः शृणुत सादरम्

॥२२॥

अंतर्हितोऽसौ भगवान्दृष्ट्वा लोकान्कुमेधसः ॥

श्रुत्वेत्थं वचनं तस्य सर्वे देवा दिवं ययुः

॥२३॥

ततोऽहं यतिरूपेण तीर्थान्नारदसंज्ञकात् ॥

उद्धृत्य स्थापयिष्यामि हरिं लोकहितेच्छया

॥२४॥

यस्य दर्शनमात्रेण पातकानि महान्त्यपि ॥

विलीयंते क्षणादेव सिंहं दृष्ट्वा मृगा इव

॥२५॥

धर्माधर्मान्विजित्याथ बदरीशं विभुं हरिम् ॥

दृष्ट्वा मुक्तिमुपायांति विनाऽऽयासं षडानन

॥२६॥

त्यक्तप्रायाणि तीर्थानि हरिणा कलिकालतः ॥

बदरीं समनुप्राप्य साक्षादेवावतिष्ठते

॥२७॥

कलिकालमनुप्राप्य मुक्तिर्येषामभीप्सिता ॥

द्रष्टव्या बदरी तैस्तु हित्वा तीर्थान्यशेषतः

॥२८॥

विना ज्ञानेन योगेन तीर्थाटनपरिश्रमैः ॥

एकेन जन्मना जंतुः कैवल्यं पदमश्नुते

॥२९॥

जन्मांतरसहस्रैस्तु येन चाराधितो हरिः ॥

स गच्छेद्बदरीं द्रष्टुं यत्र जंतुर्न शोचति

॥३०॥

बदरीबदरीत्युक्त्वा प्रसंगान्मनुजोत्तमः ॥

संसारतिमिराबाधे दीपमुज्वालयत्यसौ

॥३१॥

यथा दीपावलोकेन तमोबाधा न जायते ॥

तथैव बदरीं दृष्ट्वा पुंसो मृत्युभयं कुतः

॥३२॥

दर्शनाद्यस्य पापानि रुदंत्यव्याहतानि च ॥

मुक्तिमार्गमुपालक्ष्य तं वंदे बदरीपतिम्

॥३३॥

सशैलकानना भूमिर्दशधा दक्षिणीकृता ॥

हरेः प्रदक्षिणं तद्वद्बदर्यां तत्पदेपदे

॥३४॥

अश्वमेधे तु यत्पुण्यं वाजपेयशतेन च ॥

हरेः प्रदक्षिणात्तद्वद्बदर्यां तत्पदेपदे

॥३५॥

चतुर्मासे तु यत्पुण्यं ब्रह्मांडदानतस्तथा ॥

हरेः प्रदक्षिणं तद्वद्बदर्यां तत्पदेपदे

॥३६॥

अतिकृच्छ्रैर्महाकृच्छ्रैश्छांदसैः सुकृतं भवेत् ॥

हरेः प्रदक्षिणं तद्वद्बदर्यां तत्पदेपदे

॥३७॥

बदर्यां विष्णुनैवेद्यं सिक्थमात्रं षडानन ॥

अशनाच्छोधयेत्पापं तुषाग्निरिव कांचनम्

॥३८॥

यदन्नं भगवानत्ति ऋषिभिर्न्नारदादिभिः ॥

तत्सत्त्वशुद्धये सर्वैर्भोक्तव्यमविचारितम्

॥३९॥

अमरा अपि यन्नूनं व्याजेनेच्छन्ति सर्वतः ॥

भोक्तुं बदरिकां विष्णोर्नैवेद्यं यांति तत्पराः

॥४०॥

भोजनानंतरं विष्णोः प्रगच्छन्ति स्वमालयम् ॥

प्रह्लादप्रमुखा भक्ताः प्रविशंति हरेः पदम्

॥४१॥

बाल्ययौवनवार्द्धक्ये यत्पापं ज्ञानतः कृतम् ॥

नैवेद्यभक्षणाद्विष्णोर्बदर्यां तद्विलीयते

॥४२॥

प्राणांतं यस्य पापस्य प्रायश्चित्तं प्रकीर्तितम् ॥

विष्णोर्निवेदितं भुक्त्वा बदर्य्यां तन्निवर्त्तते

॥४६॥

तीर्थांतरेषु यत्नेन मुक्तिं गच्छति मानवः ॥

नैवेद्यभक्षणाद्विष्णोः सालोक्यं लभते नरः

॥४४॥

हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः ॥

पादोदकं सनिर्माल्यं मस्तके यस्य सोऽच्युतः

॥४५॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥

नैवेद्यभक्षणाद्विष्णोर्बदर्यां यांति संक्षयम्

॥४६॥

बदरीसदृशं क्षेत्रं नैवेद्यसदृशं वसु ॥

नारदीयसमं क्षेत्रं न भूतं न भविष्यति

॥४७॥

बदरी यत्नतो गम्या भोक्तव्यं तन्निवेदितम् ॥

द्रष्टव्यो भगवान्वह्नितीर्थे स्नानं सुदुर्लभम्

॥४८॥

पृथिव्यां यानि तीर्थानि व्रतानि नियमास्तथा ॥

पादोदकं विशालायां पावनं पुरतो भवेत्

॥४९॥

किं तस्य दानैस्तपसा तीर्थाटनपरिश्रमैः ॥

बदर्यां विष्णुपादोदबिंदुमात्रं लभेद्यदि

॥५०॥

प्रायश्चित्तानि जल्पंति तावदेव षडानन ॥

यावन्न लभ्यते विष्णोर्बदर्यां चरणोदकम्

॥५१॥

अनायासेन येषां वा इच्छा मुक्तिपथे नृणाम् ॥

कर्त्तव्यं तैः प्रयत्नेन विष्णोर्नैवेद्यभक्षणम्

॥५२॥

ये नराः प्रतिगृह्णंति पापाः संसारभागिनः ॥

यात्राकृतं फलं तेषां न कदाचित्प्रजायते

॥५३॥

नैवेद्यनिंदनाद्विष्णोर्निंद्यंते ते तमोगताः ॥

नैवेद्यभक्षणात्सत्त्वशुद्धिरेव न संशयः

॥५४॥

नैवेद्यं स्वयमानीय ब्राह्मणान्भोजयंति ये ॥

तुलापुरुषदानेन किं फलं ते कृतार्थिनः

॥५५॥

कुरुक्षेत्रे समासाद्य राहुग्रस्ते दिवाकरे ॥

महादानेन यत्पुण्यं बदर्य्यां ग्रासमात्रतः

॥५६॥

बदरीक्षेत्रमासाद्य ग्रासमात्रं प्रयत्नतः ॥

उपायोऽयं महांस्तत्र बदर्यां हरितोषणे ॥

यतिभ्यो भोजनाद्विष्णोरपराध्यपि वल्लभः

॥५७॥

न विष्णोः सदृशो देवो न विशाला समा पुरी ॥

न भिक्षुसदृशं पात्रमृषितीर्थसमं न हि

॥५८॥

चातुर्मास्यं प्रकुर्वंति ये नराः पुण्यशालिनः ॥

तेषां पुण्यफलं वक्तुं ब्रह्मणापि न शक्यते

॥५९॥

भिक्षुकाणां फलावाप्तिर्विशेषादिह कीर्त्यते ॥

वेदांतश्रवणात्पुण्यं दशधा यत्प्रकीर्तितम्

॥६०॥

बदरी दृष्टिमात्रेण भिक्षुकाणां तदिष्यते ॥

चातुर्मास्ये विशेषेण कैवल्यफलभागिनः

॥६१॥

न्यासिनो बदरीस्थाने विनायासेन पुत्रक ॥

ये मूर्खा जाड्यमापन्ना दम्भकाषायवाससः ॥

बदरीदर्शनात्तेषां मुक्तिः करतले स्थिता

॥६२॥

ज्ञानिनोऽज्ञानिनो वापि न्यासिनो नियतव्रता ॥

द्रष्टव्या बदरी तैस्तु फलानि समभीप्सुभिः

॥६३॥

श्रुत्वाऽध्यायमिमं पुण्यं प्रसंगेनापि मानवः ॥

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते

॥६४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे पंचमोऽध्यायः ॥ ५ ॥