मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — बदरिकाश्रममाहात्म्यम्, अध्याय ७

3
वैष्णवखण्डः · बदरिकाश्रममाहात्म्यम् · 7

ततो नैर्ऋत्यदिग्भागे पंचधाराः पतंत्यधः

शिव उवाच

ततो नैर्ऋत्यदिग्भागे पंचधाराः पतंत्यधः ॥

प्रभासं पुष्करं चैव गयां नैमिषमेव च ॥

कुरुक्षेत्रं विजानीहि द्रवरूपं षडानन

॥१॥

पुरा ते ब्रह्मणः स्थानं गता मलिनरूपिणः ॥

पापिनां पापदोषेण विकृताः कृतबुद्धयः

॥२॥

तत्र गत्वा नमस्कृत्य ब्रह्माणं लोकभावनम् ॥

ऊचुः प्रांजलयः सर्वे निजागमनकारणम्

॥३॥

तच्छ्रुत्वा ध्यानमालंब्य प्रहस्य जगदीश्वरः ॥

उवाच वचनं चारु स्मृत्वा बदरीकाश्रमम्

॥४॥

मा भैष्ट गच्छत क्षिप्रं हरेर्बदरिकाश्रमम् ॥

यस्य निर्देशमात्रेण सद्यः पुण्यं भविष्यति

॥५॥

ततस्ते हर्षवेगेन नमस्कृत्य पितामहम् ॥

जग्मुरुत्फुल्लनयना विशालाममितप्रभाम्

॥६॥

यस्य निर्वेशमात्रेण तत्क्षणाद्विगतेनसः ॥

ततो द्विरूपमास्थाय स्वस्थानं ययुरुत्सुकाः

॥७॥

द्रवरूपेण चान्येन पंच तिष्ठंति निर्मलाः ॥

तेषु स्नात्वा विधानेन कृत्वा नित्यक्रियां शुचिः

॥८॥

तत्तत्तीर्थफलं लब्ध्वा यात्यंते परमं पदम् ॥

पंचोपवास निरतः पूजयित्वा जनार्दनम्

॥९॥

इह भोगान्बहून्भुक्त्वा हरेः सालोक्यमाप्नुयात्

॥१०॥

ततस्तु विमलं तीर्थं सोमकुंडाभिधं परम् ॥

तपश्चकार भगवान्सोमो यत्र कलानिधिः

॥११॥

स्कन्द उवाच

सोमकुण्डस्य माहात्म्यं वद मे वदतां वर ॥

त्वत्प्रसादादहं श्रोतुमिच्छामि परमेश्वर

॥१२॥

शिव उवाच

पुरात्रितनयः श्रीमान्सोमः संप्राप्य यौवनम् ॥

श्रुत्वा स्वर्वासिनां सौख्यं गंधर्वेभ्यो मुहुर्मुहुः ॥

तदा स्वपितरं प्रायात्प्रष्टुं तल्लभते कथम्

॥१३॥

सोम उवाच

भगवन्सर्वधर्मज्ञ करुणामृतसागर ॥

कथं वा लभ्यते स्वर्गः सर्वेषामुत्तमोत्तमः

॥१४॥

ग्रहनक्षत्रताराणामोषधीनां पतिः प्रभो ॥

स्यामहं येन तं यत्नं कृपया वद मे पितः

॥१५॥

अत्रिरुवाच

तपसाराध्य गोविंदं यमैर्वा नियमैः सुत ॥

किं दुर्ल्लभं तु साधूनामिह लोके परत्र च

॥१६॥

ततस्तु नारदाच्छ्रुत्वा क्षेत्रं परमनिर्मलम् ॥

जगाम बदरीं नत्वा पितरं दिशमुत्तराम्

॥१७॥

तत्र गत्वा फलैर्मेध्यैर्विष्णोः पूजामकल्पयत् ॥

जजाप परमं जाप्यमष्टाक्षरं मनोहरम्

॥१८॥

अष्टाशीतिसहस्राणि वर्षाणि भगवत्परम् ॥

तपस्तेपेऽतिपरमं सर्वलोकभयावहम्

॥१९॥

ततस्तुष्टः समागत्य भगवान्भक्तवत्सलः ॥

उवाच सोमं विधिवद्वरं वरय सुव्रत

॥२०॥

ततः सोमः समुत्थाय नमस्कृत्य पुनःपुनः ॥

ग्रहनक्षत्रताराणामोषधीनामहं पतिः ॥

द्विजानामपि सर्वेषां भूयासं ते प्रसादतः

॥२१॥

हरिरुवाच

वरमन्यं वृणुष्वातो दुर्ल्लभं त्वं भवादृशाम् ॥

वरान्नो वरयामास तदा तं हिमजात्मज

॥२२॥

ततोऽतिविमनाः सोमः पुनस्तेपे तपो महत् ॥

त्रिंशद्वर्षसहस्राणि देवमानेन पुत्रक

॥२३॥

तदासौ करुणापूर्णहृदयो भगवानगात् ॥

वरं वरय भद्रं ते वरदोऽहं तवाग्रतः ॥

सोमस्तु तादृशं वव्रे तच्छ्रुत्वान्तर्द्दधे हरिः

॥२४॥

ततोऽतिविमनाः सोमः पुनस्तेपे तपो महत् ॥

चत्वारिंशत्सहस्राणि तपस्तप्तं सुदुष्करम्

॥२५॥

ततस्तुष्टो हरिः साक्षाच्छंखचक्रगदाधरः ॥

उवाच वचनं चारु सोमं श्रांतं तपोनिधिम्

॥२६॥

उत्तिष्ठोत्तिष्ठ भद्रं ते वरं वरय सुव्रत ॥

तपसाराधितो नूनं त्वयाहं तपसां निधिः

॥२७॥

सोम उवाच

यदि तुष्टो भवान्मह्यं भगवान्वरदर्षभः ॥

ग्रहनक्षत्रताराणामाधिपत्यं प्रयच्छ मे ॥

तथौषधीनां विप्राणां यामिन्याश्च जगत्पते

॥२८॥

श्रीभगवानुवाच

दुर्ल्लभं प्रार्थितं वत्स वितरामि तथाप्यहम् ॥

एवमस्तु ततः सर्वे समागत्य दिवौ कसः ॥

अभिषिक्तवंतो विधिवत्सोमं राजानमादृताः

॥२९॥

ततो विमानमारूढो रथेन शुभ्रवाससा ॥

अभिष्टुतः सुरैरभूद्दिवं गतो निशाकरः

॥३०॥

ततः प्रभृति तीर्थं तत्सोमकुंडेति दुर्ल्लभम् ॥

यद्दृष्टिमात्रान्मनुजा गतदोषा भवंति हि

॥३१॥

यदुपस्पर्शनाद्यांति सोमलोकं विनिंदिताः ॥

यत्र स्नात्वा विधानेन संतर्प्य पितृदेवताः

॥३२॥

सोमलोकं विनिर्भिद्य विष्णुलोकं प्रपद्यते ॥

उपवासत्रयं कृत्वा पूजयित्वा जनार्द्दनम्

॥३३॥

न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥

त्रिरात्रेण स्थितो भूत्वा पूजयित्वा जनार्द्दनम् ॥

जपं कुर्वन्विशेषेण मंत्रसिद्धिः प्रजायते

॥३४॥

कर्मणा मनसा वाचा यत्कृतं पातकं नृभिः ॥

तत्सर्वं क्षयमायाति सोमकुंडेक्षणादिह

॥३५॥

ततस्तु द्वादशादित्यतीर्थं पापहरं परम् ॥

यत्र तप्त्वा पुनः कृच्छ्रं काश्यपः सूर्यतां ययौ

॥३६॥

दुर्ल्लभं त्रिषु लोकेषु तपःसिद्ध्येककारणम् ॥

रविवारेषु सप्तम्यां संक्रात्यां विधिवन्नरः ॥

सप्तजन्मकृतात्पापात्स्नानमात्रेण शुद्ध्यति

॥३७॥

पाराकं विधिवत्कृत्वा पूजनीयो जनार्द्दनः ॥

सूर्यलोके सुखं भुक्त्वा विष्णुलोके महीयते

॥३८॥

महारोगाभिभूतस्तु स्नात्वा पीत्वा जलं शुचिः ॥

रोगमुक्तोऽचिरादेव नात्र कार्या विचारणा

॥३९॥

चतुःस्रोतं परं तीर्थं विलोचनमनोहरम् ॥

धर्मार्थकाममोक्षास्ते तिष्ठंति द्रवरूपिणः

॥४०॥

हरेराज्ञानुसारेण क्षेत्रेऽस्मिन्वैष्णवे स्वयम् ॥

पुरुषार्था द्रवीभूता भूतानां मुक्तिहेतवः

॥४१॥

पूर्वादिदिक्षु क्रमसन्निविष्टा धर्मप्रधाना इव रूपभाजः ॥

भजंति ये तान्क्रमसन्निविष्टान्प्रसन्नतैषां सततं भवेद्धि

॥४२॥

नान्यत्र क्षेत्रे मिलिताः कथंचिच्चत्वार एते त्रिदशैरलभ्याः ॥

तानग्रिमं जन्म जवेन लब्ध्वा पश्यंति पूर्वार्जितपुण्यपुंजाः

॥४३॥

ये दुर्जना दुर्जनसंगभाजः क्षमार्जवप्राणजयप्रधानाः ॥

क्रीडामृगा ग्राम्यवधूजनानां न ते प्रपश्यंत्यचिरात्पुमर्थान्

॥४४॥

तथैव पश्यंत्यचिरेण तत्त्वज्ञानैकहेतूनपि तान्पुमर्थान्

॥४५॥

अत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥

पर्वणि प्रयताः स्नातुं समायांति षडानन

॥४६॥

ततः सत्यपदंनाम तीर्थं सर्वमनोहरम् ॥

त्रिकोणाकारमेवैतत्कुंडं कल्मषनाशनम् ॥

एकादश्यां हरिस्तत्र स्वयमायाति पावने

॥४७॥

तत्पश्चादृषयः सर्वे मुनयश्च तपोधनाः ॥

स्नातुमायांति विधिवत्कुंडे सत्यपदाभिधे

॥४८॥

गंधर्वाप्सरसां यत्र मध्याह्ने हरिवासरे ॥

गानं शृण्वंति विरलाः सत्यव्रतपरायणाः

॥४९॥

दर्शनाद्यस्य तीर्थस्य पातकानि महांत्यपि ॥

पलायंते भयेनैव सिंहं दृष्ट्वा मृगा इव

॥५०॥

स्वशाखोक्तविधानेन स्नानं कृत्वा विचक्षणः ॥

सत्यलोकमवाप्नोति ततो नैःश्रेयसं पदम्

॥५१॥

अहोरात्रं शुचिर्भूत्वा उपोष्य च जनार्द्दनम् ॥

पूजयित्वा यथाशक्त्या स जीवन्मुक्तिभाजनः

॥५२॥

ब्रह्मा विष्णुश्च रुद्रश्च त्रिकोणस्थाः समाहिताः ॥

तपः कुर्वंत्यनुदिनं सर्वलोकादितोषणम्

॥५३॥

त्रिकोणमंडितं तीर्थं नाम्ना सत्यपदप्रदम् ॥

दर्शनीयं प्रयत्नेन सर्वपापमुमुक्षुभिः

॥५४॥

जपं तपो हरिस्तोत्रं पूजां स्तुत्यभिवंदनम् ॥

माहात्म्यं कुर्वतां वक्तुं ब्रह्मणापि न शक्यते

॥५५॥

ततोऽतिविमलं नाम नरनारायणाश्रमम् ॥

द्विविधं दृश्यते तत्र पाथः परमनिर्मलम्

॥५६॥

उभाभ्यामुभयोः प्रीतिर्भवतीति विनिश्चितम् ॥

तत्र स्नात्वा प्रयत्नेन पूजयित्वा जनार्द्दनम् ॥

सर्वपापविनिर्मुक्तस्तत्क्षणान्नात्र संशयः

॥५७॥

ततो नारायणावासशिखरे विमलाकृति ॥

तीर्थं पवित्रमुर्वश्या अभिव्यक्तिकरं भवेत्

॥५८॥

स्कन्द उवाच

अभिव्यक्तिः कथं तस्या उर्वश्याः शिखरे पितः ॥

किं पुण्यं किं फलं तत्र परं कौतूहलं वद

॥५९॥

शिव उवाच

धर्मस्यपत्नी मूर्त्यासीत्तस्यां जातौ षडानन ॥

नरनारायणौ साक्षाद्भगवानेव केवलम्

॥६०॥

पित्रोराज्ञामनुप्राप्य तपोऽर्धं कृतमानसौ ॥

उभयोर्नगयोस्तौ तु तपोमूर्ती इव स्थितौ

॥६१॥

तौ दृष्ट्वा विस्मितः शक्रः प्रेषयामास मन्मथम् ॥

सगणं तपसो ध्वंसो यथा स्याद्गन्धमादनम्

॥६२॥

विक्रम्य विधिवत्ते तु नारायणबलोदयम् ॥

ज्ञात्वा हतमनस्कास्तानुवाच जगतीपतिः

॥६३॥

हरिरुवाच

किमर्थमागता यूयमातिथ्यं गृह्यतामिति

॥६४॥

इत्युक्त्वा फलमूलानि तेभ्यो दत्त्वोर्वशीं तथा ॥

दत्त्वान्तर्धिमगादेव पश्यतां विघ्नकारिणीम्

॥६५॥

ते तु गत्वा दिवं भीते शक्रायोचुर्बलं हरेः ॥

शक्रस्तामुर्वशीं प्राप्य हर्षणैकयुतोऽभवत्

॥६६॥

ततः प्रभृति तत्तीर्थमुर्वशी नामतः पृथक् ॥

प्रसिद्धं यत्र भगवान्स्वयमास्ते तपोमयः

॥६७॥

तत्र स्नात्वा विधानेन उपोष्य रजनिद्वयम् ॥

पूजयित्वा हरिस्तत्र नरो नारायणो भवेत्

॥६८॥

उर्वशीकुण्डमासाद्य कामनावशतो नरः ॥

उर्वशीलोकमाप्नोति स्नानमात्रेण पुत्रक

॥६९॥

सदैव भगवांस्तत्र उर्वशीकुंड सन्निधौ ॥

भूतानां भावयन्भव्यं तपोमूर्तिर्व्यवस्थितः

॥७०॥

आमोदं तदुपरि वै प्रभञ्जनोऽपि श्रीभर्तुर्वहति पदांबुजैकलब्धम् ॥

यत्संगात्कलियुगकल्मषातुराणामुत्संगे न भवति पापभारपाकः

॥७१॥

यत्संगाद्धर्षमुपावहत्पदश्रीनिर्विण्णो गिरिविवरेच्युतैकसेवी ॥

श्रीभर्तुश्चरणयुगं वहन्समन्तादभ्येति प्रशममहस्तपःसमीरे

॥७२॥

गीर्वाणानुपहसति स्वघेन पूर्णः कीटोऽपिप्रशमितदुर्नयो निरीहः ॥

यत्रस्थः कुसुमनिवेदमात्मयोगपर्युष्टं जहदुपयास्यते पदं तत्

॥७३॥

यत्रेत्वा मुनिमतयो बहिःपदार्थान्नापश्यन्निहितपदांबुजैकभाजः ॥

यत्रस्थः स्वयमपि गोपतिर्जनानामाधत्ते स्वपदमनुक्रमागतानाम्

॥७४॥

बहूनि संति तीर्थानि गिरौ नारायणाश्रिते ॥

सर्वपापहराण्याशु तान्यहं वेद नो जनः

॥७५॥

संसारकुहरे घोरे यत्र स्थगितमात्मनः ॥

उर्वशीकुण्डमासाद्य दिनमेकं वसेन्नरः

॥७६॥

उर्वशीदक्षिणे भागे आयुधानि जगत्पतेः ॥

विद्यंते दर्शनात्तेषां न शस्त्रभयभाग्भवेत्

॥७७॥

य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ॥

सर्वपापविनिर्मुक्तः सालोक्यं लभते हरेः

॥७८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे पञ्चधारादितीर्थमाहात्म्यवर्णनंनाम सप्तमोध्यायः ॥ ७ ॥