मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — बदरिकाश्रममाहात्म्यम्, अध्याय २

3
वैष्णवखण्डः · बदरिकाश्रममाहात्म्यम् · 2

श्रीबदरिकाश्रममाहात्म्येऽग्निकृतभगवत्स्तुतिवर्णनम्

स्कंद उवाच

कथमेतत्समुत्पन्नं कैर्वा क्षेत्रं निषेवितम् ॥

को वा तस्याप्यधीशः स्यादेतद्विस्तरतो वद

॥१॥

शिव उवाच

अनादिसिद्धमेतत्तु यथा वेदा हरेस्तनूः ॥

अधिष्ठाता हरिः साक्षान्नारदाद्यैर्निषेवितम्

॥२॥

पुरा कृतयुगस्यादौ स्वीयां दुहितरं विधिः ॥

रूपयौवनसंपन्नां स तां यभितुमुद्यतः

॥३॥

तं दृष्ट्वा तादृशं रोषाच्छिरः खड्गेन पञ्चधा ॥

चिच्छेदाऽहं कपालं तद्ब्रह्महत्यासमुद्यते

॥४॥

हस्ते कृत्वा जगामाशु तत्र तीर्थानि सेवितुम् ॥

दिवि भूमौ च पाताले तपश्चरणपूर्वकम्

॥५॥

न गता ब्रह्महत्या मे कपालं तादृशं करे ॥

तदा वैकुण्ठमगमं द्रष्टुं लक्ष्मीपतिं हरिम्

॥६॥

विनयावनतो भूत्वा नमस्कृत्य पुनः पुनः ॥

सर्वमाख्यातवांस्तस्मै व्यसनं करुणात्मने

॥७॥

तस्योपदिष्टमादाय बदरीं समुपागतः ॥

तत्क्षणाद्ब्रह्महत्या मे वेपमाना मुहुर्मुहुः

॥८॥

अंतर्हितं कपालं तत्कराद्विगलितं मम ॥

ततःप्रभृति तत्क्षेत्रं पार्वत्या सह सादरम्

॥९॥

तिष्ठामि तप आस्थाय ऋषीणां प्रीतिमावहन् ॥

वाराणस्यां यथा प्रीतिः श्रीशैलशिखरे तथा

॥१०॥

कैलासे शिवया सार्द्धं ततोनंतगुणाधिका ॥

अन्यत्र भरणान्मुक्तिः स्वधर्मविधिपूर्वकात

॥११॥

बदरी दर्शनादेव मुक्तिः पुंसां करे स्थिता ॥

हरेश्चरणसान्निध्यं यत्र वैश्वानरः स्वयम्

॥१२॥

तत्र केदाररूपेण मम लिंगं प्रतिष्ठितम् ॥

केदारदर्शनात्स्पर्शादर्च्चनाद्भक्तिभावतः ॥

कोटिजन्मकृतं पापं भस्मीभवति तत्क्षणात् ॥

कलामात्रेण तिष्ठामि तत्र क्षेत्रे विशेषतः ॥

कला पंचदशैवात्र मूर्तिमध्ये ह्यवस्थितम्

॥१५॥

जितकृतांतभयाः शिवयोगिनः कृतमृगाजिनकृत्तिसुवाससः ॥

वरविभूतिजटान्वितभूषणाः स्वयमुपासत एव जटाधरम् ॥

फलदलांबुसमीरणतोषिताः शिवमनोजितमृत्युपरिश्रमाः ॥

गिरिवरस्थितनिर्जितमानसाः प्रसरनिर्म्मलबुद्धिमहोदयाः

॥१७॥

कमलकोमलकांतिमुखांबुजाः शिवकृपाजितनिर्भरवैरिणः ॥

करधृतांजलिमौलिशिवेक्षणाः शिवमुपासत एव निशामुखे

॥१८॥

करधृतजपमालाः शांतिसंतोषभाजः कृतनतिपरनित्यप्रार्थनाश्चन्द्रमौलौ ॥

हरचरणसरोजध्यानविज्ञानमूर्तिव्यथितजनमनोजाः सर्वभावान्नितांतम्

॥१९॥

वाराणस्यां मृतानां च तारकं ब्रह्मसंज्ञकम् ॥

जनानां पूजनात्तत्र मम लिंगस्य जायते

॥२०॥

वह्नितीर्थं परिभ्राजद्भगवच्चरणांतिके ॥

केदाराख्यं महालिंगं दृष्ट्वा नो जन्मभाग्भवेत्

॥२१॥

स्कन्द उवाच

कथं वैश्वानरः श्रीमान्सर्वलोकैककारणम् ॥

बदरीमनुसंतस्थौ तन्मे वद महामते

॥२२॥

शिव उवाच

पुरा समाजः समभूदृषीणामूर्ध्वरेतसाम् ॥

गंगा भगवती यत्र कालिंद्या सह संगता

॥२३॥

दशाश्वमेधिकं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥

बभूव तत्र भगवान्हुतभुक्प्रश्रयानतः ॥

ऋषीणामग्रतः स्थित्वा प्रष्टुं समुपचक्रमे

॥२४॥

वैश्वानर उवाच

दृष्ट्वा इहैकदृग्ज्ञाना भवन्तो ब्रह्मवित्तमाः ॥

दीनार्थे करुणापूर्णा हृदयार्द्रा दयालवः

॥२५॥

सर्वदुर्लक्षणोद्भूतपातकालिप्तचेतसः ॥

कथं स्यान्निरयान्मुक्तिर्मम ब्रह्मविदुत्तमाः

॥२६॥

सर्वेषामृषिवर्य्याणामाजगाम मुनीश्वरः ॥

गंगांभसि समाप्लुत्य वाक्यं चेदमुवाच ह

॥२७॥

व्यास उवाच

अस्त्येकः परमोपायो भवतः पापनिष्कृतौ ॥

सर्वभक्षाख्यदोषस्य बदरीं शरणं श्रय

॥२८॥

यत्रास्ते भगवान्साक्षाद्देवदेवो जनार्द्दनः ॥

भक्तानामप्यभक्तानामघहा मधुसूदनः

॥२९॥

तत्र गंगांभसि स्नात्वा कृत्वा प्रदक्षिणां हरेः ॥

दंडवत्प्रणिपातेन सर्वपापक्षयो भवेत्

॥३०॥

ततो व्यासमुखाच्छ्रुत्वा ऋषीणामनुवादतः ॥

उत्तराभिमुखो वह्निर्गंधमादनमाययौ

॥३१॥

ततो बदरिकां प्राप्य स्नात्वा गंगांभसि स्वयम् ॥

नारायणाश्रमं गत्वा नत्वा प्रोवाच भक्तिमान्

॥३२॥

अग्निरुवाच

विशुदविज्ञानघनं पुराणं सनातनं विश्वसृजां पतिं गुरुम् ॥

अनेकमेकं जगदेकनाथं नमाम्यनंताश्रितशुद्धबुद्धिम्

॥३३॥

मायामयीं शक्तिमुपेत्य विश्वकर्त्तारमुद्दिश्य रजोपयुक्तम् ॥

सत्त्वेन चास्य स्थितिहेतुमुग्रमथो तमोभिग्रसितारमीडे

॥३४॥

अविद्यया विश्वविमोहितात्मा विद्यैकरूपं विततं त्रिलोक्याम् ॥

विद्याश्रितत्वात्सकलज्ञमीशं त्वविद्यया जीवमहं प्रपद्ये

॥३५॥

भक्तेच्छयाविष्कृतदेहयोगमाभोगभोगार्पितयोगयोगम् ॥

कौशेयपीताम्बरजुष्टशक्तिं विचित्रशक्त्यष्टमयेष्टमीडे

॥३६॥

अथ प्रसन्नो भगवान्स्तुतः सर्वैर्हृदि स्थितः ॥

प्रोवाच मधुरं वाक्यं पावकं पावनार्थिनम्

॥३७॥

श्रीनारायण उवाच

वरं वरय भद्रं ते वरदोऽहमुपागतः ॥

स्तवेनानेन तुष्टोऽस्मि विनयेन तवानध

॥३८॥

अग्निरुवाच

ज्ञातं भगवता सर्वं यदर्थमहमागतः ॥

तथापि कथयाम्येतदीश्वराज्ञानुपालनम्

॥३९॥

सर्वभक्षो भवाम्येव निष्कृतिस्तु कथं भवेत् ॥

अत्यन्तभयसंपत्तिरेतस्माज्जायते मम

॥४०॥

श्रीनारायण उवाच

क्षेत्रदर्शनमात्रेण प्राणिनां नास्ति पातकम् ॥

मत्प्रसादात्पातकं तु त्वयि मास्तु कदाचन

॥४१॥

ततः प्रभृति भूतात्मा पावकः सर्वतो भृशम् ॥

कलयावस्थितश्चात्र सर्वदोषविवर्जितः

॥४२॥

य एतत्प्रातरुत्थाय शृणोति श्रावयेच्छुचिः ॥

अग्नितीर्थकृतस्नानं फलं प्राप्नोत्यसंशयम्

॥४३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीबदरिकाश्रममाहात्म्येऽग्निकृतभगवत्स्तुतिवर्णनंनाम द्वितीयोऽध्यायः ॥ २ ॥