अग्नितीर्थनारदशिलामार्कण्डेयशिलामाहात्म्यवर्णनम्
स्कन्द उवाच
भगवन्सर्वभूतेषु सर्वधर्मविशारद ॥
अग्नितीर्थस्य माहात्म्यं कृपया वद मे पितः
॥१॥शिव उवाच
अतिगुह्यतमं तीर्थं सर्वतीर्थनिषेवितम् ॥
संक्षेपात्कथयाम्येतत्तवादरवशादहम्
॥२॥महापातकिनो ये च अतिपातकिनस्तथा ॥
स्नानमात्रेण शुद्ध्यंति विनायासेन पुत्रक
॥३॥प्रायश्चित्तेन यत्पापं न गच्छेन्मरणांतिकम् ॥
स्नानमात्रेण तीर्थस्य पावकस्य विशुद्ध्यति
॥४॥अत्यंतमलसंबद्धं यथा शुद्ध्यति हाटकम् ॥
तथाग्नितीर्थमासाद्य देही पापैर्विशुद्ध्यति
॥५॥कुशाग्रेणोदबिंदुं च पीत्वा वर्षत्रयं नरः ॥
अन्यक्षेत्रे तपः कृत्वा तदत्र स्नानमात्रतः
॥६॥ब्राह्मणान्भोजयित्वास्मिन्यथाविभवसंभवैः ॥
दरिद्रता कुले तेषां न कदाचित्प्रजायते
॥७॥उपवासेन यः प्राणान्वह्नितीर्थे त्यजेन्नरः ॥
स भित्त्वा सूर्यलोकादीन्विष्णुलोकं प्रपद्यते
॥८॥चांद्रायणसहस्रैस्तु कृच्छ्रैः कोटिभिरेव च ॥
यत्फलं लभते मर्त्यस्तत्स्नानाद्वह्नितीर्थतः
॥९॥पंचधा ये प्रकुर्वंति पापमस्मिन्षडानन ॥
जपेन पवनायामैर्विशुद्धिरिति मे मतिः
॥१०॥ज्ञानेन मोहवशतः पापं कुर्वन्ति येऽधमाः ॥
पैशाचीं योनिमायामति यावदिंद्राश्चतुर्दश
॥११॥अनाश्रमी चाश्रमी वा यावद्देहस्यधारणम् ॥
न तीर्थे पावके कुर्यात्पातकं बुद्धिपूर्वकम्
॥१२॥स्नानं दानं जपो होमः संध्या देवार्चनं तथा ॥
अत्रानंतगुणं प्रोक्तमन्यतीर्थात्षडानन
॥१३॥बहूनि संति तीर्थानि पावनानि महांत्यपि ॥
वह्नितीर्थसमं तीर्थं न भूतं न भविष्यति
॥१४॥न ब्रह्मा न शिवः शेषो न देवा न च तापसाः ॥
शक्नुवंति फलं नालं वक्तुं पावकतीर्थजम्
॥१५॥किं तेषां बहुभिर्यज्ञैः किं दानैर्नियमैर्यमैः ॥
येषां पावकतीर्थेऽस्मिन्स्नानं दशदिनं भवेत्
॥१६॥उपवासेन यः प्राणान्वह्नितीर्थे जयेन्नरः ॥
उपवासत्रयं कृत्वा पूजयित्वा जनार्द्दनम् ॥
नरः पावकतीर्थेऽस्मिन्स भवेत्पावकोपमः
॥१७॥शिलापंचकमध्यस्थं सान्निध्यं नित्यदा हरेः ॥
तत्रैव पावकं तीर्थं सर्वपापप्रणाशनम्
॥१८॥स्कंद उवाच
कथं तत्र शिलाः पंच केन वा तत्र निर्मिताः ॥
किं पुण्यं किं फलं तासां वक्तुमर्हस्यशेषतः
॥१९॥शिव उवाच
नारदी नारसिंही च वाराही गारुडी तथा ॥
मार्कंडेयीति विख्याताः शिलाः सर्वार्थसिद्धिदाः
॥२०॥नारदो भगवांस्तेपे तपः परमदारुणम् ॥
दर्शनार्थं महाविष्णोः शिलायां वायुभोजनः
॥२१॥षष्टिवर्षसहस्राणि शिलायां वृक्षवृत्तिमान् ॥
तदासौ भगवान्विष्णुस्तत्र ब्राह्मणरूपधृक्
॥२२॥जगाम पुरतस्तस्य कृपया मुनिसत्तमम् ॥
उवाच वचनं चारु किमिति क्लिश्यते ह्यृषे ॥
किं वा तवेप्सितं ब्रूहि तपसा क्षीणकल्मष
॥२३॥नारद उवाच
को भवान्विजनेऽरण्ये ममानुग्रहतत्परः ॥
मनः प्रसन्नतामेति दर्शनात्ते द्विजोत्तम
॥२४॥इत्युक्तो नारदेनासौ शंखचक्रगदाधरः ॥
पीतांबरलसत्पद्मवनमालाविभूषणः
॥२५॥श्रीवत्सकौस्तुभभ्राजत्कमलाविमलालयः ॥
सुनंदनप्रमुख्यैः स स्तूयमानो जनार्द्दनः
॥२६॥दर्शयामास रूपं स्वं नारदाय कृपार्दितः ॥
तं दृष्ट्वा सहसोत्थाय तनुं प्राण इवागतः
॥२७॥कृतांजलिपुटो भूत्वा नमस्कृत्य पुनः पुनः ॥
तुष्टाव प्रणतो भूत्वा जगतामीश्वरेश्वरम्
॥२८॥नारद उवाच
यः सर्वसाक्षी जगतामधीश्वरो भक्तेच्छया जातशरीरसंपदः ॥
कृपामहांभोनिधिराश्रितानां प्रसीदतां पावनदिव्यमूर्तिः
॥२९॥हिताय लोकस्य सतां पुनर्मनः सुतोषणायाचिरमुत्कलादिभिः ॥
प्रसन्नलीलाहसितावलोकनः प्रसीदतां सत्त्वनिकायमूर्तिमान्
॥३०॥कंदर्प्पलावण्यविलाससुंदरः प्रसन्नगंभीरगिरेंदिरोत्सवः ॥
स्वमाश्रितानां वरकल्पपादपः प्रसीदतां दीनदयार्द्रमानसः
॥३१॥यदंघ्रिपद्मार्चननिर्मलांतरा ज्ञानासिना शातितबंधहेतवः ॥
विदंति यद्ब्रह्मसुखं गतक्लमाः प्रसीदतां दीनदयार्द्रमानसः
॥३२॥संसारवारांनिधिबद्धसेतुर्यः सृष्टिपालांतविधानहेतुः ॥
उपांतनामा गुणलब्धमूर्तिः प्रसीदतां ब्रह्मसुखानुभूतिः
॥३३॥य इंद्रियाधिष्ठितभूतसूक्ष्माद्विकासहेतुर्द्युतिमद्वरिष्ठः ॥
जीवात्मतां गच्छति मायया स्वया स एक ईशो भगवान्प्रसीदताम्
॥३४॥स्वदृग्गुणैर्येन विलिप्यते महान्गुणाश्रयं येन च पाञ्चभौतिकम् ॥
एकोऽपि नानागुणसंप्रयुक्तः प्रसीदतां दीनदयालुवर्यः
॥३५॥यस्यानुवर्तिनो देवा विपदां पदमंबुधिम् ॥
कृत्वा वत्सपदं स्वर्गे निरातंका वसंति हि
॥३६॥नमस्ते वासुदेवाय नमः संकर्षणाय च ॥
प्रद्युम्नायानिरुद्धाय सर्वभूतात्मने नमः
॥३७॥अद्य मे जीवितं धन्यमद्य मे सफलं तपः ॥
अद्य मे सफलं ज्ञानं दर्शनात्ते जनार्दन
॥३८॥श्रीभगवानुवाच
तुष्टोऽहं तपसानेन स्तोत्रेण तव नारद ॥
त्वत्तो भक्तो न मे कश्चित्त्रिषु लोकेषु विद्यते
॥३९॥वरं वरय भद्रं ते वरदोऽहं तवाग्रतः ॥
मद्दर्शनात्ते कामः स्यात्संसिद्धो विद्धि नारद
॥४०॥नारद उवाच
वरदो यदि मे देव वरार्हो यदि वाप्यहम् ॥
भक्तिं तव पदांभोजे निश्चलां देहि मे विभो
॥४१॥पच्छिलासन्निधानं च न त्याज्यं ते कदाचन ॥
मत्तीर्थदर्शनात्स्पर्शात्स्नानादाचमनात्तथा ॥
देहैर्न युज्यते देयस्ततीयस्तु वरो मम
॥४२॥श्रीभगवानुवाच
एवमस्तु तव स्नेहात्तव तीर्थे वसाम्यहम् ॥
चराचराणां जंतूनां विदेहाय न संशयः
॥४३॥एवमुक्त्वा हरिः साक्षात्तत्रैवांतरधीयत ॥
नारदोऽपि महातेजा दिनानि कतिचित्सह ॥
बदरीमावसन्हृष्टो ययौ मधुपुरीं ततः
॥४४॥स्कंद उवाच
मार्कंडेयशिलायास्तु महिमानं वदस्व मे ॥
किं पुण्यं किं फलं तस्याः संज्ञा च तादृशी कथम्
॥४५॥शिव उवाच
पुरा त्रेतायुगस्यांते मृकंडुतनयो महान् ॥
स्वल्पायुषं निजं ज्ञात्वा जजाप परमं जपम्
॥४६॥द्वादशाक्षरमंत्रेण पूजितो हरिरव्ययः ॥
सप्तकल्पायुषं ज्ञात्वा तत्रैवांतरतो ययौ
॥४७॥मार्कंडेयस्ततः श्रुत्वा तीर्थाटनपरिश्रमम् ॥
दर्शनं नारदस्यासीन्मथुरायां षडानन
॥४८॥पूजितो वंदितस्तेन नारदो मुनिसत्तमः ॥
कथयामास माहात्म्यं बदर्या यत्र केशवः
॥४९॥नारद उवाच
किमिति क्लिश्यते साधो तीर्थाटनपरिश्रमैः ॥
बदर्याख्यं महाक्षेत्रं सान्निध्यं नित्यदा हरेः
॥५०॥तत्र याहि यत्र साक्षाद्धरिं पश्यसि चक्षुषा ॥
तच्छ्रुत्वा विस्मयोपेतो विशालामाययावृषिः
॥५१॥स्नात्वा शिलामुपविशञ्जजापाष्टाक्षरं परम् ॥
ततःप्रसन्नो भगवाँस्त्रिरात्र्यंते जनार्दनः
॥५२॥शंखचक्रगदापद्मवनमालाविभूषणम् ॥
तं दृष्ट्वा सहसोत्थाय प्रेमगद्गदया गिरा ॥
तुष्टाव प्रणतो भूत्वा मार्कंडेयो जनार्दनम्
॥५३॥मार्कंडेय उवाच
अशाश्वते च संसारे सारे ते चरणांबुजे ॥
समुद्धारः कथं नृणां त्राहि मां परमेश्वर
॥५४॥तापत्रयपरिश्रांतमनेकाज्ञानजृंभितम् ॥
संसारकुहरे भ्रांतं त्राहि मां कृपयाऽच्युत
॥५५॥अनेकयोनियंत्रेषु निःसृतेस्तनुवेदनाम् ॥
गर्भवासकृतां प्राप्तं त्राहि मां करुणांबुधे
॥५६॥कृमिभक्षितसर्वांगं क्षुत्पिपासाकुलं च हि ॥
आंत्रमालाकुलेगर्भे त्राहि मां मधुसूदन
॥५७॥अमेध्यादिभिरालिप्तं निश्चेष्टश्रममाकुलम् ॥
स्मरंतं निजकर्मोत्थं त्राहि मां मधुसूदन
॥५८॥वचनादाननिःश्वासाशक्तं भयमुपागतम् ॥
गर्भवासमहादुःखं त्राहि मां मधुसूदन
॥५९॥जरामरणबाल्यादिदुःखसंसारपीडितम् ॥
दुःखाब्धौ सुखबुद्धिं मां कृपासिंधो प्रपालय
॥६०॥कदाचित्कृमितां प्राप्तं कदाचित्स्वेदजन्मिताम् ॥
कदाचिदुद्भिज्जत्वं च कदाचिन्नरतां गतम्
॥६१॥सर्वयोनिसमापन्नं विपन्नं विगतप्रभम् ॥
अनाथं त्वां समापन्नं त्राहि मां कृपयाऽच्युत
॥६२॥एवं स्तुतस्ततः कृष्णो मार्कण्डेयेन धीमता ॥
प्रीतस्तमाह विप्रर्षे वरं मे व्रियतामिति
॥६३॥श्रीमार्कंडेय उवाच
यदि तुष्टो भवान्मह्यं भगवन्दीनवत्सल ॥
निश्चलां देहि मे भक्तिं पूजायां दर्शने तव ॥
शिलायां तव सान्निध्यमेष एव वरो मम
॥६४॥सूत उवाच
तथेत्युक्त्वा महाविष्णुर्ययावंतर्हितं द्विज ॥
मार्कंडेयस्ततस्तुष्टो जगाम पितुराश्रमम्
॥६५॥उपस्थानमिदं पुण्यं सर्वपापप्रणाशनम् ॥
शृणुयाच्छ्रावयेन्मर्त्यो गोविन्दे लभते गतिम्
॥६६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे शिवकार्तिकेयसंवादे अग्नितीर्थनारदशिलामार्कण्डेयशिलामाहात्म्यवर्णनंनाम तृतीयोऽध्यायः ॥ ३ ॥