वसुधारातीर्थमाहात्म्यवर्णनम्
स्कंद उवाच
कराद्विगलितं यत्र कपालं ते महेश्वर ॥
तस्य तीर्थस्य माहात्म्यं कृपया वद मे पितः
॥१॥शिव उवाच
अतिगुह्यमिदं तीर्थं सुरासुरनमस्कृतम् ॥
ब्रह्महाऽपि नरो यत्र स्नानमात्रेण शुद्ध्यति
॥२॥पंच तीर्थानि तिष्ठंति कपाले पापमोचने ॥
तत्र स्नानं तपो दानं सर्वमक्षयमिष्यते
॥३॥पिंडं विधाय विधिवन्नरकात्तारयेत्पितॄन् ॥
पितृतीर्थमिदं प्रोक्तं गयातोऽष्टगुणाधिकम्
॥४॥तिलतर्प्पणतो यांति पितरः स्वर्गमुत्तमम्
॥५॥अहोरात्रं स्थिरो भूत्वा जपनिष्ठः समाहितः ॥
तस्येष्टसिद्धिर्महती तत्क्षणादेव जायते
॥६॥पारलौकिककर्माणि सर्वाण्यव्याहतानि च ॥
कपालमोचने तीर्थे नाधिकं पितृकर्मणि
॥७॥स्कंद उवाच
कुत्र वा ब्रह्मतीर्थं वै फलं वा कीदृशं भवेत् ॥
के वा तत्र वसंतीह कृपया वद मे पितः
॥८॥शिव उवाच
एकदा विष्णुनाभ्यम्भोरुहस्थस्य प्रजापतेः ॥
वेदान्मुखांबुजाद्धृत्वा जग्मतुर्मधुकैटभौ
॥९॥ततो ह्युत्थाय शयनात्सिसृक्षुरब्जसंभवः ॥
स्रष्टुं विनाऽगमं लोके न शशाक हृतस्मृतिः
॥१०॥तदा बदरिकामेत्य हरिणा प्रतिपालिताम् ॥
तुष्टाव प्रणतो भूत्वा भगवंतं सनातनम्
॥११॥ततः कुंडात्समुद्भूतो हयशीर्षो निजायुधः ॥
पीतांबरधरः शुक्लश्चतुर्बाहुः सुदृप्तदृक्
॥१२॥अत्यद्भुतः प्रकटकठोरलोचनश्चलच्छटाविच्छुरितमेघडंबरः ॥
स्वतेजसा हतनिखिलप्रभाकुलः कृपान्वितो द्रुहिणपुरःसरोऽभवत्
॥१३॥निरीक्ष्य तं विधिरपि विस्मयाकुलः प्रणम्य च स्तुतिमकरोत्प्रसन्नदृक्
॥१४॥ब्रह्मोवाच
नमः कमलनाभाय नमस्ते कमलाश्रय ॥
नमस्ते कमलावासविशालवनमालिने
॥१५॥नमो विज्ञानभात्राय गुहावास निवासिने ॥
हृषीकेशाय शांताय तुभ्यं भगवते नमः
॥१६॥स्वभक्तरक्षणकृते धृतदेहाय शार्ङ्गिणे ॥
अनंतक्लेशनाशाय गदिने ब्रह्मणे नमः
॥१७॥संसारविविधासारनिवृत्तिकृतकर्मणे ॥
रक्षित्रे सर्वजंतूनां विष्णवे जिष्णवे नमः
॥१८॥नमो विश्वंभराशेषनिवृत्तगुणवृत्तये ॥
सुरासुरवरस्तंभनिवृत्तिस्थितिकीर्तये
॥१९॥इतीरितः सुरपतिना महेश्वरो हृदिस्थितोऽखिलविदशेषकर्मभिः ॥
ततोऽन्तरं सपदि गतो निबध्य तौ सुरद्रुहौ किल निजघान लीलया
॥२०॥ततो निगममादाय ब्रह्मणोंऽतिकमाययौ ॥
दत्त्वा स्वनिगमं तस्मै स्वस्थोऽभूत्स समीडितः
॥२१॥ततः प्रभृति तत्तीर्थं ब्रह्मणा प्रकटीकृतम् ॥
ब्रह्मकुंडमिति ख्यातं त्रिषु लोकेषु विश्रुतम्
॥२२॥यस्य दर्शनमात्रेण महापातकिनो जनाः ॥
विमुक्तकिल्बिषाः सद्यो ब्रह्मलोकं व्रजंति ते
॥२३॥स्नानं कुर्वंति ये लोका व्रतचर्यामथापि वा ॥
ब्रह्मलोकमतिक्रम्य विष्णुलोकं व्रजंति ते
॥२४॥स्कंद उवाच
ततः किमकरोद्धाता लब्ध्वा वेदाञ्जनार्द्दनात् ॥
एतदन्यच्च सर्वं मे कृपया वद सांप्रतम्
॥२५॥महादेव उवाच
चतुर्णामपि वेदानां दृष्ट्वा बदरिकाश्रमम् ॥
मतिर्न जायते गंतुं ब्रह्मणा सह पुत्रक
॥२६॥ततस्तु विकलं दृष्ट्वा ब्रह्माणं जनवासिनः ॥
सिद्धास्तु विधिवत्स्तुत्वा प्रणिपत्येदमब्रुवन्
॥२७॥सिद्धा ऊचुः
आज्ञा भगवतः कार्या सर्वैः स्थावरजंगमैः ॥
भगवान्सर्वजंतूनां कर्त्ता हर्ता पिता गुरुः
॥२८॥स्थितिर्ब्रह्मांतिके वश्च हरिणैवानुकल्पिता ॥
निवृत्तिर्वर्तते चैषा तथाप्येतन्निरामयम्
॥२९॥एकांते द्रवरूपेण मूर्तिर्वोऽत्रावतिष्ठताम् ॥
द्वितीया ब्रह्मणा सार्द्धं ब्रह्मलोकं व्रजेत्पुनः
॥३०॥ततः सहृदया वेदा द्वैधीकृतात्मरूपकाः ॥
ब्रह्मणा ब्रह्मलोकं ते ययुः सार्द्धं प्रहर्षिताः
॥३१॥ततस्त्रिलोकं विधिवत्ससर्ज चतुराननः ॥
द्रवरूपेषु वेदेषु स्नानदानतपःक्रियाः ॥
कृता विच्छेदिता न स्युर्यावदाभूतसंप्लवम्
॥३२॥फलमुद्दिश्य कुर्वंति उपवासत्रयं नराः ॥
चतुर्णामपि वेदानां व्याख्यातारो न संशयः
॥३३॥अनुक्रमेण तिष्ठंति वेदाश्चत्वार एव च ॥
ऋग्यजुःसामाथर्वाख्या भगवत्पार्श्ववर्तिनः
॥३४॥ये पुण्यवंतोऽकलुषा वेदवेदांगपारगाः ॥
ते वेदघोषं विरलाः शृण्वंत्यपि कलौ युगे
॥३५॥चतुर्णामपि वेदानामुदगस्ति सरस्वती ॥
जप्ताथ सा नृणां हंति जडतां जलरूपिणी
॥३६॥सरस्वत्या जले स्थित्वा जपं कृत्वा समाहितः ॥
मनोस्तस्य न विच्छेदः कदाचिदपि जायते
॥३७॥वेदव्यासोऽपि भगवान्यत्प्रसादादुदारधीः ॥
पुराणसंहितार्थज्ञोऽभवदत्र न संशयः
॥३८॥त्रयाणामपि लोकानां हिताय जगतां पतिः ॥
स्थापयामास विधिना वाणीं वाग्विभवप्रदाम्
॥३९॥दर्शनस्पर्शनस्नानपूजास्तुत्यभिवन्दनैः ॥
सरस्वत्या न विच्छेदः कुले तस्य कदाचन
॥४०॥मन्त्रसिद्धिर्विशेषेण सरस्वत्यास्तटे नृणाम् ॥
जपतामचिरणैव जायते नात्र संशयः
॥४१॥बहुना किमिहोक्तेन वाणी वाग्विभवप्रदा ॥
द्रवरूपधरा नृणां दर्शनात्पूतिरुज्ज्वला
॥४२॥ततोऽर्वाग्दक्षिणे भागे द्रवधारेति विश्रुतम् ॥
तीर्थमिंद्रपदं यत्र तपश्चक्रे पुरंदरः
॥४३॥सुदारुणं तपः कृत्वा परितोष्य जनार्द्दनम् ॥
पदमैंद्रं समालेभे सुरासुरनमस्कृतम्
॥४४॥तपो दानं जपो होमो व्रतानि नियमा यमाः ॥
तत्रानन्तगुणं प्रोक्तं तत्तीर्थमतिदुर्लभम्
॥४५॥प्रतिमासे त्रयोदश्यां शुक्लायां हरितोषणे ॥
स्नात्वा सुतीर्थे सुत्रामाच्छन्दं चोपेत्य संगतः
॥४६॥उपवासद्वयं कृत्वा पूजयित्वा जनार्द्दनम् ॥
सर्वपापविनिर्मुक्तः शक्रलोके महीयते
॥४७॥तत्रैव मानसोद्भेदः सर्वपापप्रणाशनः ॥
दुर्लभः सर्वजंतूनां यत्र ते स्युर्महर्षयः
॥४८॥मानसं चिदचिद्ग्रन्थिमुद्ग्रथ्नंति च सर्वतः ॥
मानसोद्भेव इत्याख्या ऋषिभिः परिगीयते
॥४९॥भिंदंति हृदयग्रंथीश्छिंदन्ति बहुसंशयम् ॥
कर्माणि क्षपयन्त्यस्मान्मानसोद्भेद इत्यभूत्
॥५०॥यदि भाग्यवशादत्र बिंदुमात्रं लभेन्नरः ॥
तत्क्षणान्मुक्तिमाप्नोति किमतस्त्वधिकं भवेत्
॥५१॥गिरिदरीनिलये निवसत्यमी ऋषिगणाः फलमूलजलाशनाः ॥
जितमनोविषयाः शितबुद्धयः कलिभयादिव पापभयाकुलाः
॥५२॥फलसमीरणगह्वरनिर्झराश्रमभरादुपलब्धपटोत्तमाः ॥
त्रिषवणक्रमनिर्जितदुर्जयेन्द्रियपराक्रमणा मुनयस्त्वमी
॥५३॥साधनानि बहून्येव कायक्लेशकराण्यहो ॥
सुलभं साधनं लोके मानसोद्भेददर्शनम्
॥५४॥यस्मिन्दिने जलं चैतल्लभते पुण्यवाञ्जनः ॥
भवति व्याससदृशो यमपितृसमः क्रमात्
॥५५॥काम्यतीर्थमिदं नॄणां कामनावशकृत्पुनः ॥
अकामतस्तु मुक्तिः स्यादुभयोरेष निश्चयः
॥५६॥यदि कश्चित्प्रमादेन कामनां कुरुते नरः ॥
फलं भुक्त्वा पुनर्मुक्तिर्भवत्येव न संशयः
॥५७॥महरादिषु लोकेषु भुक्त्वा भोगान्यथेप्सितान् ॥
भोगे भुक्ते पुनर्याति कामनावशतो जनः
॥५८॥पुरुषार्थसमावाप्त्यै यतनीयं मनीषिभिः ॥
मानसोद्भेदने तीर्थे नापेत्यत्रेति मे मतिः
॥५९॥मानसोद्भेदनात्प्रत्यग्दिशि सर्वमनोहरम् ॥
वसुधारेति विख्यातं तीर्थं त्रैलोक्यदुर्लभम्
॥६०॥त्रिलोक्यां सर्वतीर्थेभ्यः श्रेष्ठो बदरिकाश्रमः ॥
श्रुत्वा तन्नारदात्सर्वे वसवः समुपागताः
॥६१॥त्रिंशद्वर्षसहस्राणि तपः परमदारुणम् ॥
दलांबुप्राशनाश्चक्रुस्ततः सिद्धिमुपाययुः
॥६२॥भगवद्दर्शनात्प्राप्तानंदनिर्वृत्तविक्लमाः ॥
हृदयानन्दसंदोहप्रफुल्लितमुखांबुजाः
॥६३॥दृष्ट्वा नारायणं देवं वरं लब्ध्वा मनोरमम् ॥
हरिभक्तिसुखैश्वर्य्यं परं लब्ध्वा मुदं ययुः
॥६४॥अत्र स्नात्वा जलं पीत्वा पूजयित्वा जनार्द्दनम् ॥
इह लोके सुखं भुक्त्वा यात्यंते परमं पदम्
॥६५॥अत्र पुण्यवतां ज्योतिर्दृश्यते जलमध्यतः ॥
यद्दृष्ट्वा न पुनर्भूयो गर्भवासं प्रपद्यते
॥६६॥येऽशुद्धपितृजाः पापाः पाषंडमतिवृत्तयः ॥
न तेषां शिरसि प्रायः पतंत्यापः कदाचन
॥६७॥दिनत्रयं शुचिर्भूत्वा पूजयित्वा जनार्दनम् ॥
उपोष्य भगवद्भक्त्या सिद्धान्पश्यंति साधवः
॥६८॥ये तत्र चपलास्तथ्यं न वदंति च लोलुपाः ॥
परिहासपरद्रव्यपरस्त्रीकपटाग्रहाः
॥६९॥मलचैलावृताऽशांताऽशुचयस्त्यक्तसत्क्रियाः ॥
तेषां मलिनचित्तानां फलमत्र न जायते
॥७०॥ये तत्र साधकाः शांता विरला विधिवर्त्मगाः ॥
तेषां जपस्तपोहोमो दानव्रतजपक्रियाः
॥७१॥क्रियमाणा यथाशक्त्या ह्यक्षय्यफलदायकाः
॥७२॥यत्किंचिच्छुभकर्माणि क्रियमाणानि देहिनाम् ॥
महदादिफलं दद्युर्निःश्रेयसमनुत्तमम्
॥७३॥श्रावणीयमिह किं फलाधिकं यत्र यांति विबुधाः फलार्थिनः ॥
पूजितादनु हरेः प्रियार्थिनः स्वर्गमार्गनिरताः प्रमोदिनः
॥७४॥यत्र संति न च विघ्नकारिणः कर्मणां हरिभयात्सुसिध्यति ॥
निर्विशंति च फलं विवेकिनः कर्ममार्गनिरताः सुदेहिनः
॥७५॥ये पठंत्यथ च पाठयंत्यहो पुण्यतीर्थविषयं प्रकाशितम् ॥
भक्तिभावसमलंकृताश्च ते संप्रयान्ति हरिमंदिरं शुभम्
॥७६॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे वसुधारातीर्थमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ॥ ६ ॥
शिव उवाच