मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — बदरिकाश्रममाहात्म्यम्, अध्याय १

3
वैष्णवखण्डः · बदरिकाश्रममाहात्म्यम् · 1

सर्वतीर्थाधिकत्ववर्णनम्

श्रीबदरीनाथाय नमः

शौनक उवाच

सूतसूत महाभाग सर्वधर्मविदां वर ॥

सर्वशास्त्रार्थतत्त्वज्ञ पुराणे परिनिष्ठित

॥१॥

व्यासः सत्यवतीपुत्रो भगवान्विष्णुरव्ययः ॥

तस्य यत्प्रियशिष्यस्त्वं त्वत्तो वेत्ता न कश्चन

॥२॥

प्राप्ते कलियुगे घोरे सर्वधर्मबहिष्कृते ॥

जना वै दुष्टकर्माणः सर्वधर्मविवर्जिताः

॥३॥

क्षुद्रायुषः क्षुद्रप्राणबलवीर्यतपःक्रियाः ॥

अधर्मनिरताः सर्वे वेदशास्त्रविवर्जिताः

॥४॥

तीर्थाटनतपोदानहरिभक्तिविवर्जिताः ॥

कथमेषामल्पकानामुद्धारोऽल्पप्रयत्नतः

॥५॥

तीर्थानामुत्तमं तीर्थं क्षेत्राणामुत्तमं तथा ॥

मुमुक्षूणां कुतः सिद्धिः कुत्र वा ऋषिसंचयः

॥६॥

कुत्र वाल्पप्रयत्नेन तपो मन्त्राश्च सिद्धिदाः ॥

कुत्र वा वसति श्रीमाञ्जगतामीश्वरेश्वरः ॥

भक्तानामनुरक्तानामनुग्रहकृपालयः

॥७॥

एतदन्यच्च सर्वं मे परार्थैकप्रयोजनम् ॥

ब्रूहि भद्राय लोकानामनुग्रहविचक्षण

॥८॥

सूत उवाच

साधु साधु महाभाग भवान्परहिते रतः ॥

हरिभक्तिकृतासक्तिप्रक्षालितमनोमलः

॥९॥

अथ मे देवकीपुत्रो हृत्पद्ममधिरोहति ॥

प्रसंगात्तव विप्रर्षे दुर्ल्लभः साधुसंगमः

॥१०॥

हरति दुष्कृतसंचयमुत्तमां गतिमलं तनुते तनुमानिनाम् ॥

अधिकपुण्यवशादवशात्मनां जगति दुर्लभः साधुसमागमः

॥११॥

हरति हृदयबन्धं कर्मपाशार्दितानां वितरति पदमुच्चैरल्पजल्पैकभाजाम ॥

जननमरणकर्मश्रांतविश्रांतिहेतुस्त्रिजगति मनुजानां दुर्ल्लभः सत्प्रसंगः

॥१२॥

सूत उवाच

अयं प्रश्नः पुरा साधो स्कन्देनाकारि सर्वतः ॥

कैलासशिखरे रम्य ऋषीणां परिशृण्वताम् ॥

पुरतो गिरिजाभर्तुः कर्तुं निःश्रेयसं सताम्

॥१३॥

स्कंद उवाच

भगवन्सर्वलोकानां कर्त्ता हर्त्ता पिता गुरुः ॥

क्षेमाय सर्वजंतूनां तपसे कृतनिश्चयः

॥१४॥

कलिकाले ह्यनुप्राप्ते वेदशास्त्रविवर्जिते ॥

कुत्र वा वसति श्रीमान्भगवान्सात्वतां पतिः

॥१५॥

क्षेत्राणि कानि पुण्यानि तीर्थानि सरितस्तथा ॥

केन वा प्राप्यते साक्षाद्भगवान्मधुसूदनः ॥

श्रद्दधानाय भगवन्कृपया वद मे पितः

॥१६॥

श्रीमहादेव उवाच

बहूनि संति तीर्थानि क्षेत्राणि च षडानन ॥

हरिवासनिवासैकपराणि परमार्थिनाम्

॥१७॥

काम्यानि कानिचित्संति कानिचिन्मुक्तिदान्यपि ॥

इहामुत्रार्थदान्येव बहुपुण्यप्रदानि वै

॥१६॥

गंगा गोदावरी रेवा तपती यमुना सरित् ॥

क्षिप्रा सरस्वती पुण्या गौतमी कौशिकी तथा

॥१९॥

कावेरी ताम्रपर्णी च चंद्रभागा महेंद्रजा ॥

चित्रोत्पला वेत्रवती सरयूः पुण्यवाहिनी

॥२०॥

चर्मण्वती शतद्रूश्च पयस्विन्यत्रिसंभवा ॥

गंडिका बाहुदा सर्वाः पुण्याः सिंधुः सरस्वती

॥२१॥

भुक्तिमुक्तिप्रदाश्चैताः सेव्यमाना मुहुर्मुहुः ॥

अयोध्या द्वारका काशी मधुरावंतिका तथा

॥२२॥

कुरुक्षेत्रं रामतीर्थं कांची च पुरुषोत्तमम् ॥

पुष्करं दर्दुरं क्षेत्रं वाराहं विधिनिर्मितम् ॥

बदर्य्याख्यं महापुण्यं क्षेत्रं सर्वार्थसाधनम्

॥२३॥

अयोध्यां विधिवद्दृष्ट्वा पुरीं मुक्त्येकसाधनीम् ॥

सर्वपापविनिर्मुक्ताः प्रयांति हरिमंदिरम्

॥२४॥

विविधविष्णुनिषेवणपूर्वकाचरितपूजननर्तनकीर्तनाः ॥

गृहमपास्य हरेरनुचिंतनाज्जितगृहार्जितमृत्युपराक्रमाः

॥२५॥

स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा रामालयं शुचिः ॥

न तस्य कृत्यं पश्यामि कृतकृत्यो भवेद्यतः

॥२६॥

द्वारिकायां हरिः साक्षात्स्वालयं नैव मुंचति ॥

अद्यापि भवनं कैश्चित्पुण्यवद्भिः प्रदृश्यते

॥२७॥

गोमत्यां तु नरः स्नात्वा दृष्ट्वा कृष्णमुखांबुजम् ॥

मुक्तिः प्रजायते शेषो विना सांख्यं षडानन

॥२८॥

असीवरुणयोर्मध्ये पंचक्रोश्यां महाफलम् ॥

अमरा मृत्युमिच्छंति का कथा इतरे जनाः

॥२९॥

मणिकर्ण्यां ज्ञानवाप्यां विष्णुपादोदके तथा ॥

ह्रदे पंचनदे स्नात्वा न मातुः स्तनपो भवेत्

॥३०॥

प्रसंगेनापि विश्वेशं दृष्ट्वा काश्यां षडानन ॥

मुक्तिः प्रजायते पुंसां जन्ममृत्युविवर्जिता

॥३१॥

बहुना किमिहोक्तेन नैतत्क्षेत्रसमं क्वचित् ॥

तपोपवासनिरतो मथुरायां षडानन ॥

जन्मस्थानं समासाद्य सर्वपापैः प्रमुच्यते

॥३२॥

विश्रांतितीर्थे विधिवत्स्नात्वा कृत्वा तिलोदकम् ॥

पितॄनुद्धृत्य नरकाद्विष्णुलोकं प्रगच्छति

॥३३॥

यदि कुर्यात्प्रमादेन पातकं तत्र मानवः ॥

विश्रांते स्नानमासाद्य भस्मीभवति तत्क्षणात्

॥३४॥

अवंत्यां विधिवत्स्नात्वा शिप्रायां माधवे नराः ॥

पिशाचत्वं न पश्यंति जन्मांतरशतैरपि

॥३५॥

कोटितीर्थे नरः स्नात्वा भोजयित्वा द्विजोत्तमान् ॥

महाकालं हरं दृष्ट्वा सर्वपापैः प्रमुच्यते

॥३६॥

मुक्तिक्षेत्रमिदं साक्षान्मम लोकैकसाधनम् ॥

दानाद्दरिद्रताहानिरिह लोके परत्र च

॥३७॥

कुरुक्षेत्रे रामतीर्थे स्वर्णं दत्त्वा स्वशक्तितः ॥

सूर्योपरागे विधिवत्स नरो मुक्तिभाग्भवेत्

॥३८॥

ये तत्र प्रतिगृह्णंति नरा लोभवशंगताः ॥

पुरुषत्वं न तेषां वै कल्पकोटिशतैरपि

॥३९॥

हरिक्षेत्रे हरिं दृष्ट्वा स्नात्वा पादोदके जनः ॥

सर्वपापविनिर्मुक्तो हरिणा सह मोदते

॥४०॥

खगगणा विविधा निवसंत्यहो ऋषिगणाः फलमूलदलाशनाः ॥

पवनसंयमनक्रमनिर्जितेंद्रियपराक्रमणा मुनयस्त्विह

॥४१॥

विष्णुकांच्यां हरिः साक्षाच्छिवकांच्यां शिवः स्वयम् ॥

अभेदादुभयोर्भक्त्या मुक्तिः करतले स्थिता ॥

विभेदजननात्पुंसां जायते कुत्सिता गतिः

॥४२॥

सकृद्दृष्ट्वा जगन्नाथं मार्कंडेयह्रदे प्लुतः ॥

विना ज्ञानेन योगेन न मातुः स्तनपो भवेत्

॥४३॥

रोहिण्यामुदधौ स्नात्वा इंद्रद्युम्नह्रदे तथा ॥

भुक्त्वा निेवेदितं विष्णोर्वैकुंठे वसतिं लभेत्

॥४४॥

दशयोजनविस्तीर्णं क्षेत्रं शंखोपरि स्थितम् ॥

चतु्र्भुजत्वमायांति कीटा अपि न संशयः

॥४५॥

कार्त्तिक्यां पुष्करे स्नात्वा श्राद्धं कृत्वा सदक्षिणम् ॥

भोजयित्वा द्विजान्भक्त्या ब्रह्मलोके महीयते

॥४६॥

सकृत्स्नात्वा ह्रदे तस्मिन्यूपं दृष्ट्वा समाहितः ॥

सर्वपापविनिर्मुक्तो जायते द्विजसत्तमः

॥४७॥

षष्टिवर्षसहस्राणि योगाभ्यासेन यत्फलम् ॥

सौकरे विधिवत्स्नात्वा पूजयित्वा हरिं शुचिः

॥४८॥

सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥

तीर्थराजं महापुण्यं सर्वतीर्थनिषेवितम्

॥४९॥

कामिनां सर्वजंतूनामीप्सितं कर्मभिर्भवेत् ॥

वेण्यां स्नात्वा शुचिर्भूत्वा कृत्वा माधवदर्शनम् ॥

भुक्त्वा पुण्यवतां भोगानन्ते माधवतां व्रजेत्

॥५०॥

माघे मासि नरः स्नात्वा त्रिवेण्यां भक्तिभावितः ॥

बदरीकीर्तनात्पुण्यं तत्समाप्नोति मानवः

॥५१॥

दशाश्वमेधिकं तीर्थं दशयज्ञफलप्रदम् ॥

संक्षेपात्कथितं पुत्र किं भूयः श्रोतुमिच्छसि

॥५२॥

स्कंद उवाच

बदर्य्याख्यं हरेः क्षेत्रं त्रिषु लोकेषु दुर्लभम् ॥

क्षेत्रस्य स्मरणादेव महापातकिनो नराः ॥

विमुक्तकिल्विषाः सद्यो मरणान्मुक्तिभागिनः

॥५३॥

अन्यतीर्थे कृतं येन तपः परमदारुणम् ॥

तत्समा बदरीयात्रा मनसापि प्रजायते

॥५४॥

बहूनि संति तीर्थानि दिवि भूमौ रसातले ॥

बदरीसदृशं तीर्थं न भूतं न भविष्यति

॥५५॥

अश्वमेध सहस्राणि वायुभोज्ये च यत्फलम् ॥

क्षेत्रांतरे विशालायां तत्फलं क्षणमात्रतः

॥५६॥

कृते मुक्तिप्रदा प्रोक्ता त्रेतायां योगसिद्धिदा ॥

विशाला द्वापरे प्रोक्ता कलौ बदरिकाश्रमः

॥५७॥

स्थूलसूक्ष्मशरीरं तु जीवस्य वसतिस्थलम् ॥

तद्विनाशयति ज्ञानाद्विशाला तेन कथ्यते

॥५८॥

अमृतं स्रवते या हि बदरीतरुयोगतः ॥

बदरी कथ्यते प्राज्ञैर्ऋषीणां यत्र संचयः

॥५९॥

त्यजेत्सर्वाणि तीर्थानि कालेकाले युगेयुगे ॥

बदरीं भगवान्विष्णुर्न मुञ्चति कदाचन

॥६०॥

सर्वतीर्थावगाहेन तपोयोगसमाधितः ॥

तत्फलं प्राप्यते सम्यग्बदरीदर्शनाद्गुह

॥६१॥

षष्टिवर्षसहस्राणि योगाभ्यासेन यत्फलम् ॥

वाराणस्यां दिनैकेन तत्फलं बदरीं गतौ

॥६२॥

तीर्थानां वसतिर्यत्र देवानां वसतिस्तथा ॥

ऋषीणां वसतिर्यत्र विशाला तेनकथ्यते

॥६३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे बदरिकाश्रमस्य सर्वतीर्थाधिकत्ववर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥