मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय ४९

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 49

भगवञ्जैमिने सर्वं वेदवेदांगपारग

मुनय ऊचुः

भगवञ्जैमिने सर्वं वेदवेदांगपारग ॥

त्वदनुग्रहतोऽस्माभिर्माहात्म्यं जगदीशितुः

॥१॥

क्षेत्रराजस्य तस्यैव यात्राणां चैव सर्वशः ॥

भगवद्भोजनोच्छिष्टप्राशनादिफलं तथा

॥२॥

इंद्रद्युम्नस्य राज्ञो वै वृत्तांतमतिदुर्लभम् ॥

नीलमाधवरूपं तु दारुब्रह्मप्रकाशनम्

॥३॥

श्रुतं त्वद्वदनांभोजाद्गलितं तद्यथाविधि ॥

इदानीं श्रोतुमिच्छामस्त्वत्तो हि वदतां वर

॥४॥

सर्वं विस्तरतो ब्रह्मन्वयं सर्वे मुदान्विताः ॥

पुराणश्रवणस्यैव यदुक्तं फलमेव तत्

॥५॥

को वा तस्य विधिश्चैव केन वा स्यात्तु सांगकम् ॥

अस्मासु चेदनुक्रोशो यथावद्वक्तुमर्हसि

॥६॥

जैमिनिरुवाच

साधु साधु मुनिश्रेष्ठा यत्पृष्टं परया मुदा ॥

तत्र मे प्रीतिरतुला जाता रोमांचकारिणी

॥७॥

तद्वः सर्वं प्रवक्ष्यामि शृणुध्वं सावधानतः ॥

पुराणश्रवणारंभे यथाविभवमात्मनः

॥८॥

आदौ संकल्प्य विधिवद्ब्राह्मणं शुद्धवंशजम् ॥

अव्यंगावयवं शांतं स्वशाखं स्वपुरोधसम्

॥९॥

सर्वशास्त्रार्थतत्त्वज्ञं भूषणैरतिशोभनैः ॥

वस्त्रचंदनमाल्याद्यैर्वृणुयात्पाठसंश्रुतौ

॥१०॥

कृतांजलिपुटो भूत्वा ततः संप्रार्थयेद्द्विजम् ॥

त्वं विष्णुर्विष्णुरेव त्वं न तु भेदः कदाचन

॥११॥

निर्विघ्नं मे भवत्वेव त्वत्प्रसादात्प्रसीद च ॥

ततो वृतं ब्राह्मणं च बहुमूल्यासने शुभे

॥१२॥

वासयित्वा च तस्यैव गले मालां विनिक्षिपेत् ॥

मस्तके पुष्पगर्भं च चंदनैरनुलेपयेत्

॥१३॥

यस्मात्तस्मिंश्च समये विप्रो व्याससमो मतः ॥

तेनैव ब्राह्मणेनैव पुस्तके विष्णुरूपके

॥१४॥

कारयेद्व्यासपूजां च श्रीखण्डागुरुपुष्पकैः ॥

नानोपचारै रुचिरैर्भक्ष्यभोज्यादिकैरपि

॥१५॥

भक्त्या चासनदानादिविधिः कार्यो दिने दिने ॥

सांप्रतं कथयाम्येवं श्रूयतां श्रोतृलक्षणम्

॥१६॥

गतानुगतिकानां च निवासार्थं तथा द्विजाः ॥

आसनानि यथायोग्यं रचयित्वा स्वयं तथा

॥१७॥

शुभासनांतरस्थो हि भवेदुत्कण्ठमानसः ॥

अथवा संस्कृते देशे सर्वैः सह वसेद्भुवि

॥१८॥

व्यासस्याग्रे निवसतिरासने नोच्च एव च ॥

कृतस्नानो मुदा युक्तो धारयंञ्छुक्लवाससी

॥१९॥

आचांतः शंखचक्रादितिलकान्वितविग्रहः ॥

मनसा भावयेद्विष्णुं विश्वासं कारयेद्भृशम्

॥२०॥

पुराणे ब्राह्मणे चैव देवे च मंत्रकर्मणि ॥

तीर्थे वृद्धस्य वचने विश्वासः फलदायकः

॥२१॥

अतो मुनिवराः सर्वं पुण्यं विश्वासकारणम् ॥

पाषंडादिकसंभाषं वृथालापं प्रयत्नतः

॥२२॥

पुराणश्रवणे काले सर्वचिंतां च वर्जयेत् ॥

अनेन विधिना विप्राः प्रत्यहं शृणुयान्मुदा

॥२३॥

ततः पाठे समाप्ते च करतालादिकैर्मुहुः ॥

जय कृष्ण जगन्नाथ हर इत्यादिनामभिः

॥२४॥

विस्तारयेद्यथाकाशे श्रूयते शब्द एव सः ॥

एवं च प्रत्यहं कुर्यात्प्रीतये मुरवैरिणः

॥२५॥

ततो ग्रंथसमाप्तौ च विष्णुप्रीणनतत्परः ॥

विशेषाद्वस्त्रमाल्यादिचंदनैर्भूषणैस्तथा ॥

भूषयेत्परया भक्त्या विप्रं व्याससमं द्विजाः

॥२६॥

आत्मशक्त्या प्रदद्याच्च दक्षिणां वै यथाविधि ॥

ये ये प्रदद्युर्यद्यच्च मत्तस्तच्छृणुताधुना

॥२७॥

राजानः करिणो दद्युः सालंकारान्सुलक्षणान् ॥

क्षत्रिया एवमेवं च ते वै राजसमा मताः

॥२८॥

ब्राह्मणाः पुस्तकांश्चैव विष्णोरर्चाकरंडिकाः ॥

कनकं रजतं चैव धान्यं वस्त्रं स्वभक्तितः

॥२९॥

विशश्च रत्नभूषाढ्यान्सिन्धुदेशोद्भवानपि ॥

गाश्च लक्षणसंयुक्ताः सवत्साश्च पयस्विनीः

॥३०॥

अन्यच्च कनकाद्यं च त्यजेयुर्धर्मतत्पराः ॥

शूद्राः प्रदद्युः परया मुदा संयुक्तमानसाः

॥३१॥

वासांसि च सुवर्णं च धान्यं रत्नानि गास्तथा ॥

नानालंकारयुक्ताश्च घटोघ्नीर्बालगर्भिणीः

॥३२॥

एवं वै दक्षिणां दद्याद्येन संतुष्यते गुरुः ॥

आत्मनः शक्तितो विप्रा वित्तशाठ्यं न कारयेत्

॥३३॥

शांतिकं पौष्टिकं चैव व्रतोद्वाहादि कर्म च ॥

मोक्षस्य साधकं कर्म पुराणश्रवणं तथा

॥३४॥

यज्ञादिकं च दानं च व्रतं नानाविधं तथा ॥

यदि चेद्दक्षिणाहीनं तदा भवति निष्फलम्

॥३५॥

असुराः कर्मणस्तस्य हरंति फलमेव तत् ॥

यथा स्त्रीणां च लावण्यं भर्तृस्नेहविवर्जितम्

॥३६॥

युद्धात्पलायितानां च पृष्ठं कृत्वा धनुष्मताम् ॥

विना धावनमश्वानां दुष्टत्वं हि यथा द्विजाः

॥३७॥

मूकत्वेनेव पांडित्यं सर्वशास्त्रविपश्चिताम् ॥

हीनं दक्षिणया यद्यत्कर्म तद्वच्च निष्फलम्

॥३८॥

दानेन क्षीयते यस्मादुरितानां कदंबकम् ॥

दक्षिणेति तथा विप्रा गीयते शास्त्रवेदिभिः

॥३९॥

ततो विप्रान्भोजयेद्वै यथाशक्तिप्रकल्पितैः ॥

कर्पूरेण च खंडेन सर्पिषा पायसैर्युतैः

॥४०॥

षड्विधैरन्नपानाद्यैः सुस्वादैरमृतोपमैः ॥

तेभ्योपि स्वर्णवस्त्रादि यथाशक्त्या प्रदापयेत्

॥४१॥

एतद्वः कथितं सर्वं पुराणश्रवणस्य च ॥

सांगोपांगविधानं च येन स्यात्सफलं त्विदम् ॥

इदानीं भो मुनिश्रेष्ठाः किमन्यज्ज्ञातुमिच्छथ

॥४२॥

मुनय ऊचुः

अहोऽस्माकं महाभाग्यं यत्पापौघविनाशनम् ॥

पुराणश्रवणस्यैव फलमस्माभिरेव च

॥४३॥

सांगोपांगविधानं च श्रुतं त्वन्मुखपंकजात् ॥

धन्याः स्म कृतपुण्याः स्म संसारे विगतज्वराः

॥४४॥

इदानीमात्मशक्त्या वै दीयते भवते मुने ॥

दक्षिणा फलसंप्राप्त्यै प्रसन्नस्त्वं गृहाण च

॥४५॥

इत्युक्तवंतो मुनयो ह्यकिंचनाः समित्कुशं पुष्पफलाक्षतादिकम् ॥

क्लृप्त्वा च तस्मै मुनयः सुमुक्ताः क्षेत्रोत्तमं जग्मुरतिप्रहर्षिताः

॥४६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्र माहात्म्ये जैमिनिऋषिसंवाद एकोनपंचाशत्तमोऽध्यायः ॥ ४९ ॥

इति वैष्णवखण्डे द्वितीयं श्रीपुरुषोत्तम (जगन्नाथ) क्षेत्रमाहात्म्यं समाप्तम् ॥ (२-२)