मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय ३१

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 31

कृतकृत्यं तदात्मानं मन्यमानस्ततो व्रजेत्

जैमिनिरुवाच

कृतकृत्यं तदात्मानं मन्यमानस्ततो व्रजेत् ॥

अश्वमेधांगसंभूतमिंद्रद्युम्नसरः प्रति

॥१॥

यस्य तीरे निवसति नरसिंहाकृतिर्हरिः ॥

नरसिंहमनुप्रार्थ्य तत्र स्नायाद्यथाविधि

॥२॥

नरसिंह नमस्तुभ्यं यस्य ते क्षेत्र उत्तमे ॥

सहस्रं वाजिमेधस्य क्रतोश्चक्रे नृपोत्तमः

॥३॥

इन्द्रद्युम्नः प्रसादात्ते तस्य क्रत्वंगसंभवे ॥

सरसि स्नातुमायातो मामनुज्ञापय प्रभो

॥४॥

ततस्तीर्थतटं गत्वा कृतशौचाचमक्रियः ॥

प्रार्थयेदंजलिं कृत्वा इमं मंत्रमुदीरयेत्

॥५॥

अश्वमेधांगगोकोटिखुरक्षुण्णमहीतलः ॥

तन्मूत्रफेनादानांभः पूरिताखिलपावनः

॥६॥

स्नातुं तवागतः पुण्ये सर्वतीर्थमये जले ॥

पूर्वजन्मसहस्रोत्थं पापं स्नानाद्विमोचय

॥७॥

अन्तः प्रविश्य च ततो वारुणैः पंचभिर्द्विजाः ॥

स्नायादन्तर्जले जप्यात्त्रिरावृत्त्याघमर्षणम्

॥८॥

अश्वमेधांगसंभूत तीर्थ सर्वाघनाशन ॥

जन्मकोटिभवं पापं त्वयि स्नानाद्विनश्यतु

॥९॥

इमं मन्त्रं त्रिरुच्चार्य त्रिः स्नायात्तज्जले द्विजाः ॥

संस्मरेद्विष्णुगायत्र्या नरसिंहाकृतिं हरिम्

॥१०॥

आपो नारा इति प्रोक्ता यस्मात्ता नरसूनवः ॥

अयनं प्रथमं चास्य तस्मादप्सु हरिं स्मरेत्

॥११॥

देवानृषीन्पितॄंश्चैव तर्पयेद्विधिवन्नरः ॥

नरसिंहं ततो गच्छेत्पश्चिमाभिमुखं स्थितम्

॥१२॥

सिद्धं शंभुं कृत्रिमं वा पश्चिमाभिमुखं हरिम् ॥

दृष्ट्वा विमुच्यते पापैर्जन्मकोटिसमुद्भवैः

॥१३॥

तमाथर्वणमंत्रेण यजेच्च नरकेसरिम् ॥

नारदेन पुरा ह्येष मंत्रराजः प्रतिष्ठितः

॥१४॥

इन्द्रद्युम्नेन तेनैव चिरादेष उपासितः ॥

नरसिंहाकृतौ नान्यो मंत्रस्तत्सदृशो द्विजाः

॥१५॥

यस्योच्चारणमात्रेण तुष्टो भवति केसरी ॥

अनेन दारुवर्ष्मापि ब्रह्मणा संप्रतिष्ठितः

॥१६॥

पूर्वोक्तैरुपचारैस्तु पूजयेन्नरकेसरिम् ॥

जपाप्रसूनैररुणैरन्यैश्चैव सुगंधिभिः

॥१७॥

चंदनागरुकर्पूरैर्लेपयेन्नरकेसरिम् ॥

पायसं सितया युक्तं सौरभेयेण सर्पिषा

॥१८॥

कर्पूरखण्डसंयुक्तान्मोदकान्घृतपाचितान् ॥

संयावान्घृतपूपांश्च फलं नानाविधं तथा

॥१९॥

शर्करादधिसंयुक्तं शाल्यन्नं विनिवेदयेत् ॥

दृष्ट्वा स्पृष्ट्वा नमस्कृत्वा संपूज्य नरकेसरिम्

॥२०॥

स्वान्स्वानभीष्टानाप्नोति नरो वै नात्र संशयः ॥

देवत्वममरेशत्वं गंधर्वत्वं च भो द्विजाः

॥२१॥

ईशित्वं च वशित्वं च सार्वभौमत्वमेव वा ॥

यद्यत्कामयते चित्ते तत्तदाप्नोत्यसंशयम्

॥२२॥

पंचतीर्थीविधानं च कथितं पृच्छतां द्विजाः ॥

दिनानि पंच कृत्वैतां पञ्चभूतमये पुनः

॥२३॥

न देहे प्रविशेन्मर्त्यो व्रती विष्णुपरायणः ॥

पौर्णमास्यां प्रत्युषसि तीर्थराजजले पुनः

॥२४॥

पूर्वोक्तविधिना स्नात्वा शुद्धाहारो जितेंद्रियः ॥

एकभक्तव्रतेनैव वर्त्तते प्रीतये नरः ॥

यावत्पंच दिनानि स्युस्तावत्कालं द्विजोत्तमाः

॥२५॥

ततः प्रविश्यप्रासादं मंचस्थं पुरुषोत्तमम् ॥

रामं सुभद्रां दृष्ट्वा च मुच्यते पापकंचुकैः

॥२६॥

सर्वतीर्थमयात्कूपादुद्धृतेन सुगन्धिना ॥

वारिणा स्नाप्यमानं तु यो ज्यैष्ठ्यां पश्यते हरिम्

॥२७॥

न तस्य पापसंबंध आत्मनि प्रभविष्यति ॥

यात्राकर्तृविधिं वक्ष्ये शृणुध्वं मुनयः परम्

॥२८॥

चतुर्दश्यां दृढं मंचं कारयित्वा सुशोभनम् ॥

तृणकाष्ठमयं लिप्तं सुधया बहुलं शुभम्

॥२९॥

अथवा दार्षदं कुर्याच्चिरस्थायि द्विजोत्तमाः ॥

स्नानार्थं देवदेवस्य वित्तशाठ्यं न कारयेत्

॥३०॥

नानाद्रुमगणाकीर्णं दक्षिणानिलशीतलम् ॥

उल्लसत्सिंधुकल्लोलशाड्वलोपरि संस्कृतम्

॥३१॥

समुच्छ्रितमहामूल्यवितानवरशोभितम् ॥

विरलाच्छादनं कुर्याद्देवानां दर्शनाय वै

॥३२॥

आयांति ब्रह्मणा सार्द्धं स्नपनाय जगत्पतेः ॥

स्वर्गंगांभः समादाय पारिजातविभूषितम्

॥३३॥

ब्रह्मर्षयश्च त्रिदशा ब्रह्मणा सहिता विभुम् ॥

मंचस्थं स्नापयन्तीह वचनात्परमेष्ठिनः

॥३४॥

जयशब्दैश्च स्तुतिभिर्वंद्योऽयं त्रिदिवौकसाम् ॥

तस्मान्मंचस्तु कर्तव्यो मंडितो माल्यचामरैः

॥३५॥

नानामणिस्रजा हारिदुकूलकृततोरणम् ॥

सुगंधधूपसुरभिचंदनाभः समुक्षितम्

॥३६॥

एवं मंचं प्रतिष्ठाप्य तस्य दक्षिणतो द्विजाः ॥

कूपाद्वारि समुद्धृत्य कलशान्स्वर्णनिर्मितान्

॥३७॥

शालायां शास्त्रदृष्टेन विधिना त्वधिवासयेत्

॥३८॥

सुवासितं जलं तेषु पावमान्या प्रपूरयेत् ॥

चतुर्दशीनिशामध्ये कर्मैतत्समुदाहृतम्

॥३९॥

शनैः शनैश्च नीयासुर्हरिं हलि पुरःसरम् ॥

ब्राह्मणाः क्षत्रिया वैश्या राज्ञा संमानितादृताः

॥४०॥

चामरैस्तालवृन्तैश्च वीज्यमानं निरंतरम् ॥

पुराकृतामलेपं तं विष्णोरंगान्न हापयेत्

॥४१॥

यथा सुगंधलेपेन सुपुष्टांगो दिने दिने ॥

तथा प्रयत्नतः कार्यः कृशांगो न हि पुष्टिकृत्

॥४२॥

नयेयुरप्रमाद्यंतो भगवंतमानदिताः ॥

प्रमादतो यदि भवेत्पतनं मुरवैरिणः

॥४३॥

बलस्य वा सुभद्राया राज्ञो राज्यस्य भीतिकृत् ॥

अपि पातयतां हानिः संततेर्बहुदुःखिता

॥४४॥

नरके नियतं वासो भवेत्तेषां दुरात्मनाम् ॥

विमुह्यंतश्चिराद्दारुमयीयं प्रतिमा कथम्

॥४५॥

तिष्ठेदविश्वसंतो ये भगवद्द्रोहिणस्तु ते ॥

नरकं प्रतिपद्यंते सर्वकर्मबहिष्कृताः

॥४६॥

मूढानां नास्तिकानां च कृतघ्नानां हतात्मनाम् ॥

धर्मकृत्येषु जायंते अविश्वासस्य युक्तयः

॥४७॥

अदृष्टं यस्य यावद्धि स तु तेन विनिर्मितः ॥

तदंते तस्य क्षीयंते प्रासादप्रतिमादयः

॥४८॥

न चायं निर्मितः केन द्रुमः सोऽपि प्रवर्द्धितः ॥

वरं ददाति या नूनं न चासौ प्रतिमा मता

॥४९॥

निर्मितायां प्रतिकृतौ पुरा मन्वंतरादिषु ॥

व्यतीतेष्वपि वर्द्धंते जनानां च सुपर्वणाम्

॥५०॥

भक्तयस्तादृशो विप्राः सर्वेषां पृथिवीक्षिताम् ॥

स्वारोचिषेंऽतरे चैव आविर्भूतः कृपानिधिः

॥५१॥

वैवस्वतेंऽतरे सप्तविंशे चैव चतुर्युगे ॥

द्वापरांते समायातौ तदा कृष्णार्जुनावुभौ

॥५२॥

त्रिदिनानि स्थितावत्र व्रतस्थौ मधुसूदनम् ॥

भक्त्या संपूज्य तं स्तुत्वा जग्मतुर्द्वारकां पुनः

॥५३॥

न केऽपि तत्त्वं जानंति मानुषीं तनुमास्थिताः ॥

अवताराः प्रवर्तंते विष्णोरस्य युगेयुगे

॥५४॥

धर्मस्थापनया विप्रा लीयंते स्वपदे पुनः ॥

पूर्वं च ब्रह्मणा प्रोक्तः स चानेन परस्परम्

॥५५॥

स्थाता परार्द्धपर्यंतं भगवान्दारुरूपधृक् ॥

सदायं वरदो विष्णुः शुद्धसत्त्वेन भावितः

॥५६॥

यस्य यावांस्तु विश्वासस्तस्य सिद्धिस्तु तावती ॥

प्रमादीकृतविश्वासो भक्तो दृढमतिः पुमान्

॥५७॥

यत्नानुरूपं लभते फलमस्मात्सुदुर्लभम् ॥

पुरा वः कथितं सर्वमंबरीषविमोचनम्

॥५८॥

ततस्तस्मिञ्जगन्नाथे परमात्मस्वरूपिणि ॥

विधाय सुदृढां भक्तिं वसध्वं पुरुषोत्तमे

॥५९॥

अतोऽयं भक्तितो नेयः श्रीकृष्णमंच उत्तमः ॥

सुभद्राबलभद्रौ च राजवत्परिचर्य वै

॥६०॥

उत्तोलितेषु च्छत्रेषु चामरैर्वीजितेषु च ॥

कालागुरुसुधूपासु दिक्षु गंभीरनादिषु

॥६१॥

नानाविधेषु वाद्येषु त्वगारे परिपूरिते ॥

तौर्यत्रिके साधुवृत्ते दीपिका श्रेणिराजिते

॥६२॥

अंधकारेऽथ सर्वेषां वर्द्धमाने महोत्सवे ॥

आच्छन्ने श्रीपतेरंगे प्रमादपरिशंकया

॥६३॥

पटुपट्टदुकूलेषु नीयमानेषु दूरतः ॥

गतेर्वेगात्तदोत्तानीकृतास्ये जगतां गुरौ

॥६४॥

आवर्त्तदृष्टयो देवा दिवारोहणशंकिनः ॥

जयस्व राम कृष्णेति जय भद्रेति चोचिरे

॥६५॥

एवं सलीलं भगवाञ्जन्मज्यैष्ठ्याभिषेचने ॥

नीयते मंचदेशं तु निशीथे ब्राह्मणादिभिः

॥६६॥

अहंपूर्विकशब्दस्तु देवानां श्रूयते दिवि ॥

देवदुंदुभयश्चैव जयशब्दविमिश्रिताः

॥६७॥

ततो मंचस्थितं ब्रह्मरूपं प्रत्यर्चया सह ॥

आच्छाद्य सर्वाण्यंगानि मुखवर्जं सुचेलकैः

॥६८॥

विना निवेद्यं संपूज्य उपचारैः पुरोदितैः ॥

अधिवासितकुंभैश्च शांतिघोषपुरःसरम्

॥६९॥

समुदज्येष्ठामंत्रेण स्नापयेत्सुरपुंगवान् ॥

पश्यतामभिषेक्तॄणां कृतकृत्यत्वहेतवे

॥७०॥

स्नाप्यमानं तु पश्यंति ये नरास्तत्र संस्थिताः ॥

गर्भोदकेन स्नपनं न ते पुनरवाप्नुयुः

॥७१॥

ज्येष्ठस्नानं भगवतो ये पश्यंति मुदान्विताः ॥

न ते भवाब्धौ मज्जंति यात्रामुत्कंठमानसाः

॥७२॥

बुद्ध्यबुद्धिकृतः पुंसामनादिः पापसंचयः ॥

तत्क्षणान्नाशमायाति पश्यतां स्नपनं हरेः

॥७३॥

सत्यं सत्यं पुनः सत्यं ब्रवीमि द्विजपुंगवाः ॥

सर्वसंतापशमनमशेषमलनाशनम्

॥७४॥

स्नपनं श्रीपतेर्ज्यैष्ठ्यां यदि भक्त्या विलोकनम् ॥

प्रायश्चित्तनिमित्तानि यानि पापानि संति वै

॥७५॥

तानि सर्वाणि क्षीयंते पश्यतां स्नपनं हरेः ॥

नातः परतरं कर्म ह्यनायासेन मोचनम्

॥७६॥

ज्येष्ठजन्मदिने स्नानं हरेर्यदवलोकितम् ॥

स्नानदानतपःश्राद्धजपयज्ञादयस्तु ये

॥७७॥

विधयः कोटिगुणिताः कोटिजन्मोपपादिताः ॥

स्नानदर्शनपुण्यस्य हरेस्ते न तुलां गताः

॥७८॥

भक्त्या यः स्नपनं विष्णोरेकस्मिन्वत्सरेऽपि वा ॥

पश्येन्न शोचते विप्रा इह संसारमोचने

॥७९॥

तेनेष्टं क्रतुभिः पुण्यैः श्रद्धाविपुलदक्षिणैः ॥

महादानानि दत्तानि भोजिताः कोटिशो द्विजाः

॥८०॥

श्राद्धानि गयशीर्षादौ कोटिशश्च कृतानि वै ॥

पुण्यकाले च तीथार्दौ तपांसि चरितानि च

॥८१॥

अर्धोदयादियोगेषु कोटितीर्थेषु कोटिशः ॥

स्नातानि तेन भो विप्रा यः पश्येत्स्नपनं हरेः

॥८२॥

सत्यं सत्यं पुनः सत्यं ब्रवीमि द्विजपुंगवाः ॥

नातः श्रेयस्करं कर्म शास्त्रदृष्टपथिस्थितम्

॥८३॥

मञ्चस्थं स्नाप्यमानं हि यः पश्येत्पुरुषोत्तमम् ॥

स्नानाच्छतगुणं पुण्यं लभते वै न संशयः

॥८४॥

मञ्चस्थितं जगन्नाथं स्नानार्द्रं यस्तु पश्यति ॥

सांद्रानन्दार्द्रचित्तोऽसौ न किंचित्पापमश्नुते

॥८५॥

यदेव पुण्यमुदितं स्नानदर्शनकर्मणि ॥

तत्तत्फलमवाप्नोति दृष्ट्वा मञ्चस्थमच्युतम्

॥८६॥

एक एव जगन्नाथस्त्रिधा तत्र स्थितो द्विजाः ॥

एकैकस्यापि स्नपनदर्शनं भुक्तिमुक्तिदम्

॥८७॥

जयस्व रामभद्रेति जय भद्रेति यो वदेत् ॥

जय कृष्ण जगन्नाथ जयेत्युच्चारयेन्मुदा

॥८८॥

स्नानकाले स वै मुक्तिं प्रयाति द्विजसत्तमाः ॥

अधिवासादिकं तत्र यैः कृतं स्नानकर्मणि

॥८९॥

तेषां श्रद्धामुदायुक्तः प्रदद्याद्दक्षिणाः पृथक् ॥

ब्राह्मणेभ्यश्च मिष्टान्नं वस्त्रालंकरणानि च

॥९०॥

प्रदद्याच्छ्रद्धया युक्तो दीनानाथांश्च तर्पयेत् ॥

ये द्रष्टुमागताः स्नानं जीवन्मुक्तास्तु ते ध्रुवम्

॥९१॥

तान्यथाशक्ति वै राजा मानयेत्प्रीतये हरेः ॥

स्नानावशेषतोयेन स्नायाद्भद्रासनस्थितः

॥९२॥

नारी वा पुरुषो वापि तस्य पुण्यं वदामि वः ॥

कल्पः स्याच्चिररोगार्तो ह्यपमृत्युं जयेदसौ

॥९३॥

अपुत्रा मृतवत्सा वा वन्ध्या वापि लभेत्सुतम् ॥

सुभगः सर्वलोकानां निर्धनो धनवान्भवेत्

॥९४॥

गुर्विणी लभते पुत्रं दीर्घायुर्गुणवत्तरम् ॥

गंगादिसर्वतीर्थानां स्नानजं फलमुच्यते

॥९५॥

स्नानदर्शनजं पुण्यं धर्मात्मा लभते ध्रुवम्

॥९६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्य एकत्रिंशोऽध्यायः ॥ ३१ ॥