दोलारोहणम्
जैमिनिरुवाच
फाल्गुने मासि कुर्वीत दोलारोहणमुत्तमम् ॥
यत्र क्रीडति गोविंदो लोकानुग्रहणाय वै
॥१॥प्रत्यर्चां देवदेवस्य गोविंदाख्यां तु कारयेत् ॥
प्रासादपुरतः कुर्यात्षोडश स्तंभमुच्छ्रितम
॥२॥चतुरस्रं चतुर्द्वारं मण्डपं वेदिकान्वितम् ॥
चारुचंद्रातपं माल्यचामरध्वजशोभितम्
॥३॥भद्रासनं वेदिकायां श्रीपर्णीकाष्ठनिर्मितम् ॥
फल्गूत्सवं प्रकुर्वीत पञ्चाहानि त्र्यहाणि वा
॥४॥फाल्गुन्यां पूर्वतो विप्राश्चतुर्दश्यां निशामुखे ॥
वह्न्युत्सवं प्रकुर्वीत दोलामण्डपपूर्वतः
॥५॥गोविंदानुगृहीतं तु यात्रांगं तत्प्रकीर्तितम् ॥
आचार्यवरणं कृत्वा वह्निं निर्मथनोद्भवम्
॥६॥भूमिं संस्कृत्य विधिवत्तृणराशिं महोच्छ्रयम् ॥
सुसमं कारयित्वा तु वह्निं तत्र विनिक्षिपेत्
॥७॥पूजयित्वा विधानेन कूष्मांडविधिना हुनेत् ॥
गोविंदं पूजयित्वा तु भ्रामयेत्स तत विभुम्
॥८॥यत्नात्तं रक्षयेद्वह्निं यावद्यात्रा समाप्यते ॥
प्रातर्यामे चतुर्दश्यां गोविंदप्रतिमां शुभाम्
॥९॥वासयित्वा हरेरग्रे पूजयेत्पुरुषोत्तमम् ॥
उपचारावशिष्टैस्तु प्रत्यर्चामपि पूजयेत्
॥१०॥ततोऽवरोप्य वसनं मालां च द्विजसत्तमाः ॥
अर्चायां विन्यसेन्मंत्री परं ज्योतिर्विभावयन्
॥११॥ततः सा प्रतिमा साक्षाज्जायते पुरुषोत्तमः ॥
रत्नांदोलिकया तां वै नयेत्स्नानस्य मंडपम्
॥१२॥तत्र नाना तूर्यनादैः शंखध्वनिपुरःसरम् ॥
जयशब्दैस्तथा स्तोत्रैः पुष्पवृष्टिभिरेव च
॥१३॥छत्रध्वजपताकाभिश्चामरैर्व्यजनैस्तथा ॥
निरंतरं दीपिकाभिस्तदा कुर्यान्महोत्सवम्
॥१४॥आगच्छंति तदा देवाः पितामहपुरोगमाः ॥
द्रष्टुं चर्षिगणैः सार्द्धं गोविंदस्य महोत्सवम्
॥१५॥भद्रासनेऽधिवास्यैव पूजयेदुपचारकैः ॥
महास्नानस्य विधिना स्नपनं तस्य कारयेत्
॥१६॥पंचामृतैश्च सर्वैश्च तेषामन्यतमेन वा ॥
स्नानांते गंधतोयेन श्रीसूक्तेनाभिषेचयेत्
॥१७॥संप्रोक्ष्य भूषयेद्देवं वस्त्रालंकारमाल्यकैः ॥
नीराजयित्वा संपूज्य प्रासादं परिवेष्टयेत्
॥१८॥सप्तकृत्वस्ततो देवं दोलामंडपमानयेत् ॥
सुसंस्कृतायां रथ्यायां पताकातोरणादिभिः ॥
अधोदेशे मंडपं तं सप्तशो भ्रामयेत्पुनः
॥१९॥ऊर्द्ध्वदेशे पुनः सप्त स्तंभवेद्यां च सप्त वै ॥
यात्रावसाने च पुनर्भ्रामयेदेकविंशतिम्
॥२०॥इयं लीला भगवतः पितामहमुखेरिता ॥
राजर्षिणेंद्रद्युम्नेन कारिता पूर्वमेव हि
॥२१॥फलपुष्पोपनम्रैश्च शाखिभिः परिकल्पिते ॥
वृंदावनांतरे रम्ये मत्तभ्रमरराविणि
॥२२॥कोकिलारावमधुरे नानापक्षिगणाकुले ॥
नानोपशोभारचितनानागुरुसुधूपिते
॥२३॥प्रफुल्लकेतकीषंडगंधामोदिदिगंतरे ॥
मल्लिकाशोकपुन्नागचंपकैरुपशोभिते
॥२४॥तत्काननांतर्घटिते मंडपे चारुतोरणे ॥
भूषिते माल्यवसनचामरैरुपशोभिते
॥२५॥रत्नखट्वांदोलिकायां तन्मध्ये वासयेत्प्रभुम् ॥
सद्रत्नमुकुटं तारहारशोभितवक्षसम्
॥२६॥अनर्घ्यरत्नघटितकुंडलोद्भासितश्रुतिम् ॥
यथास्थानं यथाशोभं दिव्यालंकारमंजुलम्
॥२७॥विकचांबुजमध्यस्थं विश्वधात्र्या श्रिया युतम्
॥२८॥शंखचक्रगदापद्मधारिणं वनमालिनम् ॥
सुप्रसन्नं सुनासं तं पीनवक्षःस्थलोज्ज्वलम्
॥२९॥पुरो व्योमस्थितैर्देवैर्ब्रह्माद्यैर्नतमस्तकैः ॥
कृतांजलिपुटैर्भक्त्या जयशब्दैरभिष्टुतम्
॥३०॥गंधर्वैरप्सरोभिश्च किन्नरैः सिद्धचारणैः ॥
हाहाहूहूप्रभृतिभिः सत्वरं दिव्यगायनैः
॥३१॥अहंपूर्विकया नृत्यगीतवादित्रकारिभिः ॥
नेत्रांबुजसहस्रैश्च पूज्यमानं मुदान्वितैः
॥३२॥किरद्भिः सर्वतोदिक्षु गंधचंदनजं रजः ॥
उपवेश्याथ गोविंदं पूजयेदुपचारकैः
॥३३॥बल्लवीवृंदमध्यस्थं कदंबतरुमूलगम् ॥
हावहास्यविलासैश्च क्रीडमानं वनांतरे
॥३४॥गोपीभिश्चैव गोपालैर्लीलांदोलितयानगम् ॥
चिंतयित्वा जगन्नाथं विकिरेद्गंधचूर्णकैः
॥३५॥सकर्पूरै रक्तपीतशुक्लैर्दिक्षु समंततः ॥
दिव्यैर्वस्त्रैर्दिव्यमाल्यैर्द्दिव्यैर्गंधैः सुधूपकैः
॥३६॥चामरांदोलनैर्गीतैः स्तुतिभिश्च समर्चितम् ॥
आंदोलयेद्दोलिकास्थं सप्तवाराञ्छनैः शनैः
॥३७॥तदा पश्यंति ये कृष्णं मुक्तिस्तेषां न संशयः ॥
ब्रह्महत्यादिपापानां पंचकानां क्षयो भवेत्
॥३८॥त्रिरेवं दोलयेद्देवं सर्वपापापनोदनम् ॥
भक्त्यानुग्राहकं पुंसां भुक्तिमुक्त्येककारणम्
॥३९॥लीलाविचेष्टितं यस्य कृत्रिमं सहजं तथा ॥
अंहःसंघक्षयकरं मूलाविद्यानिवर्त्तकम्
॥४०॥पश्यन्द्वितीयं हरति गोहत्याद्युपपातकम् ॥
हरत्यशेषपापानि तृतीये नात्र संशयः
॥४१॥दृष्ट्वा दोलायितं देवं सर्वपापैः प्रमुच्यते ॥
आध्यात्मिकैराधिभौतैराधिदैवैर्विमुच्यते
॥४२॥इमां यात्रां कारयित्वा चक्रवर्ती भवेन्नृपः ॥
ब्राह्मणस्तु चतुर्वेदी ज्ञानवाञ्जायते ध्रुवम्
॥४३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये दोलारोहणंनाम त्रयश्चत्वारिंशोऽध्यायः ॥ ४३ ॥