मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय ५

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 5

निर्विण्णचेतसौ तौ तु त्यक्त्वा वेश्यादिसंगतिम्

जैमिनि रुवाच

निर्विण्णचेतसौ तौ तु त्यक्त्वा वेश्यादिसंगतिम् ॥

ध्यायंतौ मनसा विष्णुं शुद्धाहारव्रतावुभौ

॥१॥

कालेन कियता प्राप्तौ नीलाद्रिनिलयं हरेः ॥

तीर्थराजजले स्नात्वा यथावद्विधिचोदितम्

॥२॥

प्रासादद्वारि तिष्ठंतौ साष्टांगं प्रणिपत्य च ॥

भगवंतं निरीक्षंतौ नापश्यतां तदा द्विजा

॥३॥

विवर्णवदनौ देवमदृष्ट्वा चिंतयाकुलौ ॥

आरभेते ह्यनशनं भगवद्दर्शनावधि

॥४॥

कीर्तयंते भगवतो नाम कल्मषनाशनम् ॥

तृतीयस्यां त्रियामायां ज्योतिरेकमपश्यताम्

॥५॥

त्रीण्यहानि पुनस्तौ च तदोपावसतां स्थिरौ ॥

मध्ये सप्तमरात्रेस्तु भगवंतमपश्यताम्

॥६॥

त्रिदशानां स्तुतीः श्रुत्वा दिव्यज्ञानौ बभूवतुः ॥

अपास्तपापनिर्मोकौ साक्षाद्देवमपश्यताम्

॥७॥

शंखचक्रगदापाणि दिव्यालंकारभूषितम् ॥

रत्नपादुकयोः पृष्ठे विन्यस्तचरणांबुजम्

॥८॥

व्याकोशपुंडरीकाक्षं प्रसन्नवदनं विभुम् ॥

वामपार्श्वे स्थितां लक्ष्मीं वामेनालिंग्य बाहुना

॥९॥

नागवल्लीदलं बद्धमाददानं श्रिया हृतम् ॥

रत्नवेत्रकराः काश्चित्काश्चिच्चामरपाणयः

॥१०॥

गंधतैलप्रदीपास्तु रत्नवर्तिप्रदीपिकाः ॥

काश्चिद्दधानाः स्वकरैर्योवनाढ्याः सुभूषिताः

॥११॥

पश्चाद्रत्नमयं छत्रं बिभ्रती काचिदुज्ज्वला ॥

धूपपात्रं मुखाभ्याशे कृष्णागुरुसुधूपितम्

॥१२॥

काचिद्दधाना प्रम्लोचां हसंती विग्रहश्रिया ॥

लीलालकदृशा देवाननुगृह्णंतमग्रतः

॥१३॥

बद्धांजलिपुटान्नम्रकन्धरान्स्तुवतः पृथक् ॥

सिद्धान्मुनिगणान्दिव्यान्सनकादीन्स्मितेन च

॥१४॥

नारदादींश्च गंधर्वान्दिव्यगानमनोहरान् ॥

दत्तावधानं श्रवणे लीलयैवानुकम्पिनम्

॥१५॥

प्रह्लादादीन्वैष्णवाग्र्यान्स्वरूपं ध्यायतोऽग्रतः ॥

चित्ताकर्षणसंलीनां विदधानं स्वविग्रहे

॥१६॥

वक्षःस्थलप्रविलसत्कौस्तुभप्रतिबिंबितैः ॥

देवादिभिर्विश्वरूपमूर्त्तेः स्वस्याः प्रकाशकम्

॥१७॥

उपर्युपरि दिव्यायाः पुष्पवृष्टेरधः स्थितम् ॥

श्रीसन्निधानविगतश्रियमप्सरसां गणम्

॥१८॥

पश्यंतं विविधं नित्यमङ्गहारमनोहरम् ॥

दिव्यलीलाविलासं तं दृष्ट्वा तौ द्विजबाहुजौ

॥१९॥

बभूवतुः क्षणात्सर्वविद्यानां पारगौ द्विजाः ॥

त्रिः परिक्रम्य देवेशं कृतांजलिपुटावुभौ ॥

साष्टांगपातप्रणतौ तुष्टुवाते मुदान्वितौ

॥२०॥

पुण्डरीक उवाच

नमस्ते जगदाधार सर्गस्थित्यंतकारण ॥

नारायण नमस्तेऽस्तु परमात्मन्परायण

॥२१॥

परमार्थस्त्वमेवैको भवाप्ययविवर्जितः ॥

नित्यानन्दस्वरूपं त्वां विदन्ति ध्यानचक्षुषः

॥२२॥

चिन्मात्रं जगतामीशमधिष्ठानं परात्परम् ॥

कथं नु मूढहृदयास्त्वां जानंति सुनिर्मलम्

॥२३॥

कामार्थलिप्सासंभ्रातचेतसोऽत्यंतदुःखिनः ॥

गतागतपथे श्रांताः सुखभाजः कदाचन

॥२४॥

अनुकंपय मां नाथ सुदीनं शरणागतम् ॥

मूढं दुष्कृतकर्माणं पतितं भवसागरे

॥२५॥

कोऽन्यस्त्वत्सदृशो बन्धुर्ब्रह्मांडे नाथ वर्त्तते ॥

स्वकर्त्तव्यानपेक्षो यो दीनानाथदयालुकः

॥२६॥

उच्चावचभ्रमाद्दुःखं जलयंत्रघटीमिव ॥

अजस्रमधिकर्त्तारं परित्राहि कृपांबुधे

॥२७॥

योगक्षेमाभिसंधाना ये मूढास्त्वामुपासते ॥

लीलाविमुक्तिदं ते वै त्वन्मायापरिमोहिताः ॥

नारायणेति त्वन्नाम कीर्तितं तु यदृच्छया ॥

त्वत्तोऽधिकं जगन्नाथ चतुर्वर्गैकसाधनम्

॥२९॥

त्वं तु तैस्तैः पृथग्यज्ञैस्तास्ताः सिद्धीः प्रयच्छसि ॥

त्वमेकः शरणं नाथ पतितानां भवार्णवे

॥३०॥

ज्ञाननौकासमारूढः करुणाक्षेपणीकरः ॥

परं पारं प्रभो नेतुं संसाराब्धेर्विचेतनम्

॥३१॥

त्वमेक ईशिषे भक्त्यानन्यया परिचिंतितः ॥

येऽन्ये मुक्तिप्रदा देवाः शास्त्रेषु परिनिष्ठिताः

॥३२॥

दुःखाब्धिकुम्भयोनिं ते त्वद्भक्तिं प्रापयंति वै

॥३३॥

तन्मे प्रसीद भगवन्पदपंकजे ते भक्तिं दृढां वितर नाथ भवाब्धिमुच्चैः ॥

घोरं सुदुस्तरममुं हि यया तरेयमष्टांगयोगजनितश्रमवर्जितोऽपि

॥३९३॥

धर्मार्थकामनिचयैः कुमतिप्रगृह्यैः क्षुद्रैरमीभिरहिताल्पसुखैर्न कार्यम् ।

आज्ञापयांघ्रिनलिनद्वयचिंतनेद्य सांद्रानुवर्धितसुखार्णवमज्जनं मे

॥३५॥

स्तुत्वेत्थं जगदीशस्य पादपद्मांतिके द्विजः ॥

पपात त्राहि कृष्णेति वदन्वाष्पार्द्रया गिरा ॥

तस्थौ स पुनरुत्थाय कृतांजलिपुटः स्तुवन्

॥३६॥

अम्बरीष उवाच

प्रसीद देव सर्वात्मन्नसंख्येयशिरोभुज ॥

असंख्य घ्राणनयनपाणिपाद नमोऽस्तु ते

॥३७॥

षट्त्रिंशत्तत्त्वातीतोऽसि निष्प्रपंच प्रपंचकः ॥

चतुर्विधजगद्धाम विश्वमूर्ते नमोऽस्तु ते

॥३८॥

एकपादस्त्रिपादश्च तीर्थपादोंऽतरिक्षपात् ॥

यस्य पादोद्भवा गंगा पुनाति भुवनत्रयम्

॥३९॥

ब्रह्महत्यादिपापानां शोधकं यस्य नाम वै ॥

कीर्तितं सर्वशुभदं नमस्तस्मै शुभात्मने

॥४०॥

देव त्वन्नामकीर्त्यापि जायंते सर्वसिद्धयः ॥

कौतुकात्त्वां हि मृग्यंति विद्वांसो बुद्धिशालिनः

॥४१॥

नाथ त्वत्पादसलिलं संश्रयात्तापहारकम् ॥

तापत्रयाभिभूतस्य भक्तिं मेऽत्र दृढां कुरु

॥४२॥

अनन्यस्वामिनो मेऽद्य नास्त्यन्यत्प्रार्थनीयकम् ॥

प्रणिपत्य जगन्नाथ त्वां प्रयाचे सहस्रधा

॥४३॥

समस्तपुरुषार्थस्य बीजं त्वत्पादपंकजे ॥

यावत्प्राणान्धारयामि तावद्भक्तिर्दृढास्तु मे

॥४४॥

सृष्टिं विनिर्ममे चेमां यया भक्त्या पितामहः ॥

संहरत्यखिलं रुद्रो लक्ष्मीश्चैश्वर्यदायिनी

॥४५॥

दीनानुकंपिंस्तां भक्तिं प्रार्थये नान्यमानसः ॥

अनाद्य विद्यापंकेस्मिन्सुदृढे दुस्तरं भृशम्

॥४६॥

निमग्नस्य जगन्नाथ निरालंबं प्रणश्यतः ॥

महामहिम्नस्त्वद्भक्तेर्नान्यदस्ति परायणम्

॥४७॥

श्रुतिस्मृत्यादिसंभिन्नमार्गाः संमोहहेतवः ॥

त्वद्भक्तिमपहार्येते न प्रवर्त्तितुमीश्वराः

॥४८॥

अनन्यशरणं स्वामिन्ननुकम्पय मां विभो ॥

इति स्तुवञ्जगन्नाथपादपद्मांतिके मुदा

॥४९॥

पपात दण्डवद्भूमौ प्रसीदेति वदन्मुहुः ॥

ततस्ते देवताः सर्वे स्तुत्वा संपूज्य केशवम्

॥५०॥

तल्लीलापांगसंतुष्टाः प्रयातास्त्रिदिवं पुनः ॥

तत उन्मीलितदृशौ पुण्डरीकांबरीषकौ

॥५१॥

मायया मोहितौ विष्णोः स्वप्नदृष्टमबुध्यताम् ॥

यां दृष्ट्वा दिव्यलीलां हि साक्षात्पललचक्षुषा

॥५२॥

पुनर्मानुषभावौ तौ दिव्यसिंहासनस्थितम् ॥

नीलजीमूतसंकाशं फुल्लपद्मायतेक्षणम्

॥५३॥

शोणाधरं चारुनासं दिव्यकुण्डलभूषितम् ॥

शंखचक्रगदापद्मधारिणं वनमालिनम्

॥५४॥

पीनोरस्कं चारुहारमनर्घ्यमुकुटोज्ज्वलम् ॥

श्रीवत्सकौस्तुभोरस्कं दिव्यांगदविभूषितम्

॥५५॥

प्रलंबबाहुं दीनार्तपरित्राणसमुद्यतम् ॥

सुवर्णसूत्रसंनद्ध मध्यग्रंथिमणीयुतम्

॥५६॥

दिव्य पीतांबरधरं दिव्यस्रग्गन्धभूषितम् ॥

स्वर्णपद्मासनासीनं सर्वांगालिंगितश्रियम्

॥५७॥

प्रपन्नसंतापहरं सुधासागरमुल्बणम् ॥

अशेषवांछाफलदं कल्पवृक्षं सुपुष्पितम्

॥५८॥

दक्षपार्श्वस्थितं तस्य ददृशाते हलायुधम् ॥

बिभर्त्ति येन ब्रह्मांडं बलेन महता विभुः

॥५९॥

तं बलं नागराजानं फणासप्तकमंडितम् ॥

कैलासशिखरोत्तुंग धवलं कुण्डलोज्ज्वलम्

॥६०॥

विचित्रवनमालाढ्यं दिव्यनीलनिचोलिनम् ॥

सततं वारुणीक्षीब घूर्णोन्नयनपंकजम्

॥६१॥

निम्नपृष्ठोन्नतोरस्कं कुण्डलीकृतविग्रहम् ॥

शंखचक्रगदापद्मसमुज्ज्वलचतुर्भुजम्

॥६२॥

नानालंकाररुचिरं नतकल्मषनाशनम् ॥

तयोर्मध्ये स्थितां भद्रां सुभद्रां कुंकुमारुणाम्

॥६३॥

सर्वलावण्यवसतिं सर्वदेव नमस्कृताम् ॥

लक्ष्मीं लक्ष्मीशहृदयपंकजस्थां पृथक्स्थिताम्

॥६४॥

वराब्जधारिणीं देवीं दिव्यनेपथ्यभूषणाम् ॥

प्रपन्नकल्पलतिकां सर्वकल्मषनाशिनीन्

॥६५॥

संसारार्णवमग्नानां तारिणीं देवतारणीम् ॥

वामपार्श्वस्थितं विष्णोरद्राष्टां चक्रमुत्तमम्

॥६६॥

दार्वग्रनिर्मितं विप्राः स्वर्णभक्तिसमुज्ज्वलम् ॥

चतुर्द्धावस्थितं विष्णुं दृष्ट्वा तौ द्विजबाहुजौ

॥६७॥

अरुणोदयवेलायां श्रमं सार्थममन्यताम् ॥

संस्मृत्य तां स्वप्नलीलां विस्मयं जग्मतुस्तदा

॥६८॥

न दारुप्रतिमा चेयं साक्षाद्ब्रह्म प्रकाशते ॥

सदोगतानां विप्राणां वाक्यं श्रद्दधतुश्च तौ

॥६९॥

क्वावां महापातकिनौ यातनाक्रमभागिनौ ॥

क्वेदं सुरसमाक्रांतस्थितं विष्णोः प्रदर्शनम्

॥७०॥

मूर्खयोरावयोरष्टादशविद्याप्रवीणता ॥

यस्मात्तस्मान्न च भ्रांतिर्ज्ञानं तत्समवादिनः

॥७१॥

यदूचुर्दारवं ब्रह्म तीर्थराजतटे स्थितम् ॥

वटमूले प्रकाशंतं दृष्ट्वा जंतुर्विमुच्यते

॥७२॥

तदेवायं जगन्नाथश्चतुर्द्धा संव्यवस्थितः ॥

क्षितौ यदावतरति चतूरूपः प्रकाशते

॥७३॥

तदास्य संनिधावावां स्थास्यावः प्राणधारिणौ ॥

यावन्नान्यत्र गच्छावः क्षुद्रकामपराङ्मुखौ

॥७४॥

इति निश्चित्य मुनयो विष्णौ भक्तिपरायणौ ॥

नारायणाख्यं सततं जपन्तौ मुक्तिमागतौ

॥७५॥

जैमिनिरुवाच

प्रसंगात्कथितं ह्येतद्रहस्यं पापनाशनम् ॥

शृण्वंति ये तु चरितं पुण्डरीकांबरीषयोः

॥७६॥

सततं च् कीर्तयंतश्च मुदा परमय युताः ॥

व्रजंति विष्णुनिलयं मुदा परमया युताः ॥

व्रजंति विष्णुनिलयं तेऽपि निर्द्धूतकल्मषाः

॥७७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्या संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे पञ्चमोऽध्यायः ॥ ५ ॥