मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय ३९

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 39

मुने त्वत्तः श्रुतं सम्यङ्माहात्म्यं जगदीशितुः

मुनय ऊचुः

मुने त्वत्तः श्रुतं सम्यङ्माहात्म्यं जगदीशितुः ॥

निर्माल्यप्रभृतीनां च यथावदनुपूर्वशः

॥१॥

श्रोतुमिच्छामहे ब्रह्मन्यात्रां तरफलानि वै ॥

शृण्वतां तत्त्वतो ब्रूहि यथोद्देशः कृतः पुरा

॥२॥

जैमिनिरुवाच

सर्वथा वर्त्तते लोकहिताय पुरुषोत्तमः ॥

नानागुणविकासैश्च नानारूपविचेष्टितैः

॥३॥

नानारूपविलासेन नानात्मा च जगन्मयः ॥

अहंकारं विना कर्मफलं नो द्विजसत्तमाः

॥४॥

अहंकारेण बध्यन्ते कारागारे भवाभिधे ॥

बुद्ध्यहंकारयुक्तस्तु यत्कर्मारभते नरः

॥५॥

तस्य सद्गुणमाप्नोति फलं शुभमथापरम् ॥

बुद्धिस्तु त्रिविधा तेषां गुणभेदेन भाविता

॥६॥

तत्र ये सात्त्विकाः संतः फलावाप्तिपराङ्मुखाः ॥

भगवत्प्रीतये कर्म कुर्वते ते मुमुक्षवः

॥७॥

परस्य स्पर्द्धया कीर्त्यै फलमुद्दिश्य वा पुनः ॥

बहुवित्तव्ययायासै राजसं कर्म तन्वते

॥८॥

गतानुगतिका ये च दृष्टार्थैकपरायणाः ॥

प्रसंगात्फलमिच्छंतस्तामसं कर्म कुर्वते

॥९॥

सात्त्विकानां जगन्नाथः सर्वदा सर्वभावनः ॥

ध्यातो दृष्टः स्मृतो वापि मुक्तिदाता न संशयः

॥१०॥

राजसास्तामसा ये वै मूढात्मानः फलैषिणः ॥

उत्सवादिकृतं कर्म मन्यंते फलदायि ते

॥११॥

संभूय बहवो विप्रा आरभंतेऽल्पकं विधिम् ॥

बहुलायासदुःखं यत्कर्म तेषां फलप्रदम्

॥१२॥

तेषामुद्धरणार्थाय विश्वासाय दुरात्मनाम् ॥

यात्रा नानाविधा विप्रा वर्षे वर्षे प्रवर्तयेत्

॥१३॥

जन्मस्नानं महावेद्या उत्सवश्च प्रकीर्तितः ॥

महायात्राद्वयं पुंसां कीर्तनात्पापनाशनम्

॥१४॥

दर्शनं दक्षिणामूर्तेस्तथा च शयनोत्सवः ॥

सर्वपापहरश्चैषामुत्सवो दक्षिणायने

॥१५॥

अतः परं प्रवक्ष्यामि पार्श्वस्य परिवर्तनम् ॥

शयितस्य जगद्भर्तुः परिवर्तयितुर्युगम्

॥१६॥

नभस्य विमले पक्षे संप्राप्ते हरिवासरे ॥

विष्णोः स्वापगृहद्वारि शनैर्गत्वा प्रविश्य च

॥१७॥

नमस्कृत्वा जगन्नाथं पर्यंके शयितं मुदा ॥

अवच्छाद्य शनैर्गत्वा पूजयेदुपचारकैः

॥१८॥

प्रणम्य भक्त्या तत्पादौ गुह्योपनिषदैः स्तुवन् ॥

मन्त्रं चेमं पठन्देवं स्वापयेदुत्तरामुखम्

॥१९॥

देवदेव जगन्नाथ कल्पानां परिवर्तक ॥

परिवृत्तमिदं सर्वं येन स्थावरजंगमम्

॥२०॥

यदिच्छाचेष्टितैरेव जाग्रत्स्वप्नसुषुप्तिभिः ॥

जगद्धिताय सुप्तोऽसि पार्श्वेन परिवर्त्तय

॥२१॥

परिवर्त्तनकालोऽयं जगतः पालनाय ते ॥

तवाज्ञयाऽयं शक्रोऽपि ध्वजे तिष्ठन्समुत्सुकः

॥२२॥

द्रष्टुं त्वत्पादकमलं विमुचञ्जलदैर्जलम् ॥

महीतलं प्लावयति प्रजापालनहेतुकम्

॥२३॥

इति संप्रार्थ्य देवेशं वीप्सया तोषयेत्ततः ॥

व्यजनैश्चामरैश्चैव वीजयेदनुकल्पकृत्

॥२४॥

सुगन्धचन्दनैरस्य सर्वांगं परिलेपयेत् ॥

स्वादूनिक्षुविकारांश्च विकृतैः पायसैस्तथा

॥२५॥

यावकानि च हृद्यानि फलानि विविधानि वै ॥

स्वादूपदंशानन्यांश्च घृतपूपान्सपायसान्

॥२६॥

पक्वतांबूल पत्राणि सोपस्काराणि च द्विजाः ॥

शय्यागृहद्वारि विभोः शनैर्भक्त्या निवेदयेत्

॥२७॥

तस्मिन्दिने हरे रूपं भवेद्यदि महाफलम् ॥

देवमुद्दिश्य यः कुर्यात्सर्वमक्षयतां व्रजेत्

॥२८॥

स्नानं दानं जपो होमस्तपो जागरणं तथा ॥

उपवासश्च नियमो व्रतांते द्विजतर्पणम्

॥२९॥

सांगं व्रतमिदं कृत्वा विष्णुलोकमवाप्नुयात् ॥

यं यं कामयते चित्ते तं तमाप्नोत्यसंशयम्

॥३०॥

अयं वः कथितो विप्राः पार्श्वपर्यायणोत्सवः ॥

अनायासेन लोकानामक्षयः सुखदायकः

॥३१॥

अतः परं वै शृणुत उत्थापनमहोत्सवम् ॥

पूजयित्वा जगन्नाथं कौमुद्याख्ये महोत्सवे

॥३२॥

अक्षक्रीडादिभिः पुष्पवस्त्रमाल्यानुलेपनैः ॥

ततोस्मिन्पौर्णमास्यायां रात्रावुत्सवसंयुतम्

॥३३॥

नारिकेलादिभिर्द्रव्यैः पिष्टकैरर्चयेद्धरिम् ॥

ततः प्रभाते संकल्प्य कार्त्तिके व्रतमुत्तमम्

॥३४॥

व्रतेन तेनैव नयेद्यावदेकादशी सिता ॥

तस्यामुत्थापयेद्देवं सुसुप्तं जगदीश्वरम्

॥३५॥

पूर्ववत्पूजयित्वा तु निशामध्ये जगद्गुरुम् ॥

उत्थापयेदिमं मंत्रमाह्वयञ्छनकैर्मुदा

॥३६॥

उत्तिष्ठ देवदेवेश तेजोराशे जगत्पते ॥

वीक्षस्व सकलं देव प्रसुप्तं तव मायया

॥३७॥

प्रफुल्लपुंडरीकश्रीहारिणा नयनेन वै ॥

त्वया दृष्टं जगदिदं पावित्र्यं परमेष्यति

॥३८॥

श्रौतस्मार्त्ताः क्रियाः सर्वाः प्रवर्तंते ततो ध्रुवम् ॥

इत्युत्थाप्य जगन्नाथं वेणुवीणादिकस्वनैः

॥३९॥

बंदिमागधसूतानां स्तुतिभिर्मंगलस्वनैः ॥

शंखकाहालमुरजवादनैर्नृत्यगीतकैः

॥४०॥

जयशब्दैस्तथा स्तोत्रैर्नयंत्तं नृत्यमण्डपम् ॥

सुगन्धतैलेनाभ्यज्य स्नापयेत्पुरुषोत्तमम्

॥४१॥

पञ्चामृतैर्नारिकेलरसैः फलरसैस्तथा ॥

सुगन्धामलकेनाथ यवकल्केन लेपयेत्

॥४२॥

घर्षयेत्तुलसीचूर्णैर्लेपयेद्गन्धचन्दनैः ॥

पुष्पाधिवासितैस्तोयैस्तथा कर्पूरवासितैः

॥४३॥

कुशोदकै रत्नतोयैस्तथा गंधोदकैस्तथा ॥

स्नाप्यमानं तथा देवं ये पश्यंति मुदान्विताः

॥४४॥

क्षालयन्ति दृढं पंकं बहुजन्मोपपादितम् ॥

ततः श्रीजगदीशस्य क्रोडे संवासयेद्द्विजाः

॥४५॥

आपादान्मूर्धपर्यंतं सर्वागं परिलेपयेत् ॥

कुंकुमागुरुकस्तूरीकर्पूरैश्चंदनान्वितैः

॥४६॥

पाटलोदकसंपिष्टैः कालागुरुरसाप्लुतैः ॥

दत्त्वा च मालतीमाला चन्द्रचूर्णेन संयुताम्

॥४७॥

महोपचारैः संपूज्य विष्णुं नीराजयेत्ततः ॥

कृतांजलिपुटो भूत्वा प्रार्थयेत्परया मुदा

॥४८॥

चराचरमिदं सर्वं त्वदेकशरणं विभो ॥

अनुग्रहामृतालोकैः पावयस्व जगद्गुरो

॥४९॥

नृत्यगीतैः प्रेक्षणकै रात्रिशेषं समापयेत् ॥

शयनादुत्थितं देवं यः पश्यति गदाधरम्

॥५०॥

निद्रां मोहमयीं भित्त्वा ज्योतिः शांतं व्रजंति ते ॥

सर्वान्कामानवाप्नोति यान्यान्कामयते हृदि

॥५१॥

अश्वमेधसहस्रस्य फलं साग्रं लभेत वै ॥

कपिलालंकृताधेनुकोटिदानफलं तथा

॥५२॥

पुण्यं चाप्नोति परमं सर्वतीर्थाभिषेकजम् ॥

कार्त्तिक्यां पारणं कुर्याच्चातुर्मास्यव्रतस्य वै

॥५३॥

दामोदरस्य प्रतिमां स्वर्णनिष्केण निर्मिताम् ॥

यथाशक्तिकृतां वापि शालग्रामशिलास्थिताम्

॥५४॥

चक्रमूर्तिं भगवतः पूजयेत्प्रयतात्मवान् ॥

रचयेन्मण्डपं शुभ्रमेकदेशं गृहस्य वा

॥५५॥

अलंकुर्यात्पुष्पदामचामरैः सवितानकैः ॥

भूमिभित्तीः सुधालेपैः स्तंभैश्चित्रदुकूलकैः

॥५६॥

कालागुरूणां धूपैश्च धूपयेत्तद्गृहं शुभम् ॥

तन्मध्ये मण्डलं कुर्यात्स्वस्तिकं वर्णकैः शुभैः

॥५७॥

तदन्तः स्थापयेत्खट्वां करिदन्तमयीं शुभाम् ॥

पट्टतूलीं तदुपरि वासयेत्पुरुषोत्तमम्

॥५८॥

दामोदराकृतिं शंखपद्मपाणिं चतुर्भुजम् ॥

लक्ष्मीमालिंग्य पद्मस्थां क्रोडस्थां वामपाणिना

॥५९॥

भक्तेभ्यो दातुमुद्यंतं वरं दक्षिणपाणिना ॥

सुनासं सुललाटं च सुनेत्रं सुश्रुतिद्वयम्

॥६०॥

विशालवक्षसं देवं सर्वलावण्यसंयुतम् ॥

सर्वालंकाररुचिरं दिव्यपीतनिचोलिनम्

॥६१॥

लक्ष्मीं पद्मकरां वापि तांबूलं ददतीं तथा ॥

पञ्चामृतैः स्नापयित्वा वासोयुग्मेन वेष्टयेत्

॥६२॥

पूजयेदुपचारैस्तं यथाविभवविस्तरैः ॥

ताम्रदीपान्मृन्मयान्वा ज्वालयेद्गव्यसर्पिषा

॥६३॥

तैलेन वा शतं दीपवृक्षांश्चैव प्रदापयेत् ॥

ब्रह्माणं नारदादींश्च देवर्षींस्तत्र पूजयेत्

॥६४॥

दामोदरस्वरूपान्वै ब्राह्मणानपि पूजयेत् ॥

वस्त्रयुग्मैर्माल्यगन्धैर्भक्ष्यभोज्यफलैस्तथा

॥६५॥

तीर्थराजाभिषेकांगं पूजाकर्म यथोचितम् ॥

दामोदरस्य तेनैव विधिनेहार्चनं भवेत्

॥६६॥

तद्विष्णोरिति मन्त्रेण ब्रह्मादीनपि पूजयेत् ॥

वेणुवीणादिकैर्गीतैः पुराणपठनेन च

॥६७॥

महोत्सवं प्रकुर्वीत ततो जागरणेन च ॥

ततः प्रभाते विमलेऽग्निकार्यं च समाचरेत्

॥६८॥

अष्टाक्षरेण मंत्रेण समिदाज्यचरूनपि ॥

लाजान्मधुसमिन्मिश्राञ्जुहुयाच्च ततः श्रिये

॥६९॥

सूक्तेनाष्टोत्तरशतं ब्रह्मादीनां तदन्ततः ॥

अष्टाहुतीर्वै जुहुयात्क्रमादेकैकशस्तिलैः

॥७०॥

ब्रह्माणं नारदं दक्षं वसिष्ठं गौतमं तथा ॥

सनत्कुमारमत्रिं च भरद्वाजं च कश्यपम्

॥७१॥

दुर्वाससमगस्त्यं च महादेवं ततः परम् ॥

विख्याता वैष्णवा ह्येते विष्णुरूपा न संशयः

॥७२॥

एतान्संपूजयन्विप्रान्विष्णुः प्रीणाति तत्क्षणात् ॥

होमांते प्राशनं कृत्वा दद्यादाचार्यदक्षिणाम्

॥७३॥

सुवर्णभूषितां धेनुं वस्त्रं धान्यं च भक्तितः ॥

प्रीतये वासुदेवस्य भोजयेद्द्विजपुंगवान्

॥७४॥

सर्वोपचारसहितं दद्याद्दामोदरं ततः

॥७६॥

ॐ दामोदर जगन्नाथ त्वन्मयं विश्वमेव हि ॥

त्वदाधारमिदं सर्वं त्वं धर्मः सर्वभावनः ॥

त्वत्प्रसादाद्व्रतं चीर्णं सुसंपूर्णं तदस्तु मे

॥७६॥

दामोदरः प्रदाता च गृहीता च वृषध्वजः ॥

प्रदीयते जगन्नाथः प्रीयतां मे जगद्गुरुः

॥७७॥

इति मंत्रं जपन्दद्यादाचार्याय सुरोत्तमम् ॥

समाप्य पूजयेद्भक्त्या स्तूयात्तं च प्रसादयेत्

॥७८॥

आचार्ये परितुष्टे तु तुष्टो भवति माधवः ॥

तत्तद्द्रव्याणि च ततो दद्याद्विप्रेभ्य एव हि

॥७९॥

ततः स्वयं वै भुंजीत इष्टैः शिष्टैः स्वबंधुभिः ॥

चातुर्मास्यव्रतं चेदं प्रतिष्ठाप्य विधानतः

॥८०॥

यथोक्तफलसंपन्नो विष्णुलोकमवाप्नुयात् ॥

श्रुतिस्मृतिपुराणेषु नातः परतरं व्रतम्

॥८१॥

येनानुष्ठितमात्रेण कृतकृत्यो भवेन्नरः ॥

विष्णोः प्रीतिकरं यादृङ्न तथान्यद्व्रतं द्विजाः

॥८२॥

तिलपात्रसहस्रैस्तु गवां चैवायुतायुतैः ॥

कृष्णाजिनशतेनापि कन्यानामयुतेन च

॥८३॥

दत्त्वा यत्फलमाप्नोति कृत्वैतद्व्रतमुत्तमम् ॥

सार्द्धत्रिकोटितीर्थानामभिषेकफलं तथा

॥८४॥

प्राप्नोति तत्फलं विप्रा यं यं कामयते नरः

॥८५॥

इति श्री स्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये चातुर्मास्यव्रतविधिर्नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥