ओढ्रदेशवर्णनम्
मुनय ऊचुः
कस्मिन्देशे द्विजश्रेष्ठ तत्क्षेत्रं पुरुषोत्तमम् ॥
यत्र नारायणः साक्षाद्दारुरूपी प्रकाशते
॥१॥जैमिनि रुवाच
उत्कलोनाम देशोऽस्ति ख्यातः परमपावनः ॥
यत्र तीर्थान्यनेकानि पुण्यान्यायतनानि च
॥२॥दक्षिणस्योदधेस्तीरे स तु देशः प्रतिष्ठितः ॥
यत्र स्थिता वै पुरुषाः सदाचारनिदर्शनाः
॥३॥वृत्ताध्ययनसंपन्ना यज्वानो यत्र भूसुराः ॥
सृष्ट्यादौ क्रतवो वेदा वेदशास्त्रप्रवर्तकाः
॥४॥अष्टादशानां विद्यानां निधानं संप्रकीर्तितम् ॥
गृहे गृहे निवसति लक्ष्मीर्नारायणाज्ञया
॥५॥लज्जाशीला विनीताश्च आधिव्याधिविवर्जिताः ॥
पितृमातृरताः सत्यवादिनो वैष्णवा जनाः
॥६॥न चात्रावैष्णवः कश्चिन्नास्तिको वापि वर्तते ॥
सर्वे परहितास्तत्र न लुब्धा न शठाः खलाः
॥७॥दीर्घायुषस्तत्र जनाः स्त्रियश्च पतिदेवताः ॥
सुशीला धर्मशीलाश्च त्रपाचारित्रभूषिताः
॥८॥रूपयौवनगर्वाढ्याः सर्वालंकारभूषिताः ॥
कुलशीलवयोवृत्तानुरूपाचारचंचवः
॥९॥स्वकर्मनिरतास्तत्र प्रजारक्षणदीक्षिताः ॥
क्षत्रिया दानशौंडाश्च शस्त्रशास्त्रविशारदाः
॥१०॥यजंते क्रतुभिः सर्वे सततं भूरिदक्षिणैः ॥
दीप्यंते चित्तयो येषां यूपाः कांचनभूषिताः
॥११॥येषां गृहेष्वतिथयः कामनाधिकपूजिताः ॥
वैश्याश्च कृषि वाणिज्यगोरक्षावृत्तिसंस्थिताः
॥१२॥देवान्गुरून्द्विजान्भक्त्या प्रीणयंति धनैरपि ॥
एकस्य द्वारि यातोऽर्थी न गच्छेदन्यवेश्मनि
॥१३॥गीतकाव्यकलाशिल्पकुशलाः प्रियवादिनः ॥
शूद्राश्च धार्मिकास्तत्र स्नानदानक्रियारताः
॥१४॥कर्मणा मनसा वाचा धनैश्च द्विजसेवकाः ॥
येऽन्ये संकरजातास्ते स्वेस्वे धर्मे प्रतिष्ठिताः
॥१५॥न विपर्यंति ऋतवो नाकाले वर्षते घनः ॥
न सस्यहानिर्न मरुत्क्षुन्न पीडयति प्रजाः
॥१६॥दुर्भिक्षमरके नात्र राष्ट्रभंगः प्रजायते ॥
नालभ्यं तत्र वस्त्वस्ति यत्किंचित्पृथिवीगतम्
॥१७॥एवं सर्वगुणैर्युक्तो नानाद्रुमलताकुलः ॥
अर्जुनाशोकपुन्नाग तालहिंतालशालकैः
॥१८॥प्राचीनामलकैर्लोध्रैर्बकुलैर्नागकेशरैः ॥
नारिकेलैः प्रियालैश्च सरलैर्देवदारुभिः
॥१९॥धवैश्च खदिरैर्बिल्वैः पनसैश्च कपित्थकैः ॥
चंपकैः कर्णिकारैश्च कोविदारैः सपाटलैः
॥२०॥कदंबनिंबनिचुरलरसालामलकैस्तथा ॥
नागरंगैश्च जंबीरैर्नीपकैर्मातुलुंगकैः
॥२१॥मंदारैः पारिजातैश्च न्यग्रोधागुरुचंदनैः ॥
खर्जूराम्रातकैः सिद्धैर्मुचुकुंदैः सकिंशुकैः
॥२२॥तिंदुकैः सप्तपर्णैश्च अश्वत्थैश्च बिभीतकैः ॥
अन्यैश्च विविधैर्वृक्षैः प्रकीर्णः सुमनोहरैः
॥२३॥मालतीकुंदबाणैश्च करवीरैः सितेतरैः ॥
केतकीवनषंडैश्च अतिमुक्तैः सकुब्जकैः
॥२४॥एलालवंगकंकोलदाडिमैर्बीजपूरकैः ॥
श्रेणीकृतैः पूगवनैरुद्यानैः शतशो वृतः
॥२५॥नानाद्रुमलताकीर्णः पर्वतैः सिंधुर्भिर्वृतः ॥
स एष देशप्रवर उत्कलाख्यो द्विजोत्तमाः
॥२६॥ऋषिकुल्यां समासाद्य दक्षिणोदधिगामिनीम् ॥
स्वर्णरेखामहानद्योर्मध्ये देशः प्रतिष्ठितः
॥२७॥सन्त्यत्र पुण्यायतने क्षेत्राणि सुबहून्यपि ॥
पूर्वं वस्तीर्थयात्रायां वर्णितानि मया द्विजाः ॥
भूस्वर्गः सांप्रतं ह्येष कथितः पुरुषोत्तमः
॥२८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्य ओढ्रदेशवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥