निरुत्पातं समे देशे विधिवर्त्तनयापि च
जैमिनिरुवाच
निरुत्पातं समे देशे विधिवर्त्तनयापि च ॥
प्रासादनिकटं देवाः प्रापिताः सुमुहुर्त्तके
॥१॥ततः शालासुमहती रत्नवर्णविनिर्मिता ॥
निदेशादिंद्रद्युम्नस्य निर्मिता विश्वकर्मणा
॥२॥सभार्चनायां वस्तूनि हवींषि च समित्कुशाः ॥
भोज्यं नानाविधं गीतनृत्यांश्च विविधांस्तथा
॥३॥साम्राज्ये यादृशी पूर्वं संपत्तिरभवत्क्षितौ ॥
ततः श्रेष्ठतरा विप्राः प्रतिष्ठायां बभूव ह
॥४॥गालोनाम महीपालस्तदा क्षितितलेऽभवत् ॥
सोप्यत्र प्रतिमां कृत्वा माधवाख्यां दृषन्मयीम्
॥५॥स्थापयित्वात्र प्रासादे पूजयामास ऋद्धिमत् ॥
कनीयांसं च प्रासादं निर्माय नृपसत्तमः
॥६॥तत्र तां स्थापयामास ततो निष्कृष्य सादरम् ॥
ततोऽस्य नृपतिर्दूतमुखाच्छुत्वास्य कर्म तत्
॥७॥गालोऽभ्यागात्ससैन्यः सन्क्रुद्धस्तं नीलपर्वतम् ॥
दृष्ट्वा प्रतिष्ठासंभारं मर्त्यैः स्वप्नेऽपि दुर्लभम्
॥८॥विस्मयाविष्टचेताः स तस्थौ गालो नराधिपः ॥
किमेतदिति वृत्तान्तं को वा कारयतीदृशम्
॥९॥यत्नाद्दिव्यं स विज्ञाय इन्द्रद्युम्नं नराधिपम् ॥
ब्रह्मलोकादागतं तं कर्त्तारं देववेश्मनः
॥१०॥प्रतिष्ठापयितुं देवैः सार्द्धं संभारकारकम् ॥
सहितं पद्मनिधिना गुरुणा नारदेन च
॥११॥ब्रह्माणं चागमिष्यन्तं प्रतिष्ठायै सुरोत्तमम् ॥
श्रुत्वा सर्वं च वृत्तान्तं तद्राजा दिव्यचेष्टितम्
॥१२॥मेने कृतार्थमात्मानं तद्राज्ये परमाद्भुतम् ॥
इतः श्रेयस्करं कर्म न भूतं न भविष्यति
॥१३॥तदस्य निकटे स्थित्वा ज्ञात्वा कर्मक्रमं विधिम् ॥
उत्सवांश्चापि विज्ञाय करिष्ये प्रतिवत्सरम्
॥१४॥अमुं दारुमयं साक्षाद्ब्रह्मरूपं जनार्दनम् ॥
अभाग्योपचयादेतावंतं कालं न जानता
॥१५॥असेव्यमानेन कृतं जन्मैव विफलं मया ॥
तदेनमिंद्रद्युम्नं वै प्रणिपत्य जगद्गुरुम्
॥१६॥महाभागवतश्रेष्ठं ब्रह्मलोकादिहागतम् ॥
उपेत्य शरणं साक्षाद्दृष्ट्वा नारायणं विभुम्
॥१७॥प्रतिष्ठितं वै प्रासादे मुक्तिमेष्यामि निश्चयम् ॥
वैकुण्ठं स प्रतिष्ठाप्य मय्येवारोपयिष्यति
॥१८॥ब्रह्मलोकं गतो यो वै किं क्षितौ सोऽवतिष्ठते ॥
उपचारान्समादिश्य कोषं संभृत्य च प्रभोः
॥१९॥ब्रह्मणा सहितोऽवश्यं पुनर्यास्यति तत्क्षयम् ॥
विचार्य मंत्रिभिः सार्द्धं ततो गालोऽपि वैष्णवः
॥२०॥इन्द्रद्युम्नस्य निकटं विनीतः प्रययौ मुदा ॥
गत्वा तं दूरतो दृष्ट्वा प्रणिपातपुरःसरम्
॥२१॥बद्धांजलिपुटो राजा मूर्ध्नि वीक्षन्ससाध्वसम् ॥
शनैः शनैर्ययौ तस्य निकटं गालपार्थिवः
॥२२॥देव त्वं राजराजोऽसि मर्त्योऽसि ब्रह्मलोकगः ॥
किं स्तौमि नृपकीटोऽहं त्वां जीवन्मुक्तमीश्वरम्
॥२३॥अज्ञात्वा महिमानं ते सचिवैर्मंत्रयन्मुहुः ॥
योद्धुमभ्यागतो देव दृष्ट्वा ते पौरुषं महत्
॥२४॥अतिमानुषमाश्चर्यं पदं चापि शचीपतेः ॥
दृष्ट्वैतन्निश्चितं देव ब्रह्मलोकागतस्य हि
॥२५॥ईदृशं हि महत्कर्म यदाज्ञाकृन्महानिधिः ॥
चेतः प्रसादप्रवणं मयि धेहि सुरोत्तम
॥२६॥त्रैलोक्यवासिनो देवा यदाज्ञावशवर्तिनः
॥२७॥जैमिनिरुवाच
इत्थं विज्ञापयंतं तं गालं नृपतिकुंजरम् ॥
स्मयमान उवाचेदं राजन्किं बहु भाषसे
॥२८॥भवानपि हरेर्भक्तः सार्वभौमो महीपतिः ॥
सामान्यमेतद्राज्ञा वै भूस्वाम्यं भुवि वर्त्तताम्
॥२९॥सांप्रतं हि भवानत्र पृथिव्यामेकपार्थिवः ॥
नृपायत्ताः क्रियाः सर्वा मर्त्यानां मरुतामपि
॥३०॥अष्टदिक्पालकांशैस्तु ब्रह्मणा निर्मितो नृपः ॥
न ह्यल्पपुण्यकृद्राजा प्रजापालनतत्पर
॥३१॥इह कीर्तिं च धर्मश्च यत्र गच्छन्सुवर्त्मनि ॥
प्राप्नोति राजशार्दूल विशेषात्त्वं तु वैष्णवः
॥३२॥प्रासादे स्थापयेद्यस्तु हरेरर्चां विधानतः ॥
न देहबन्धमाप्नोति याति विष्णोः परं पदम्
॥३३॥माधवप्रतिमामेतां दारवीं शुभलक्षणाम् ॥
साक्षान्मुक्तिप्रदां भूप स्वयं स्थापितवानसि
॥३४॥निर्विघ्नं कर्म ते जातं मम मन्वंतरं गतम् ॥
भवेद्वा संशयो मेऽत्र न स्वतंत्रश्चतुर्मुखः
॥३५॥प्रतिष्ठायै प्रार्थितोऽयं तदन्यः स्थापयेत्कथम् ॥
साक्षाद्दार्ववतारस्य प्रासादस्य नृपोत्तम
॥३६॥संनिधानेन चेदत्र विधातानुग्रहिष्यति ॥
तदेनं स्थापयित्वा तु चतूरूपं जनार्दनम्
॥३७॥समर्प्य त्वां गमिष्यामि त्वमेवोपचरिष्यसि ॥
नित्योपहारं यात्राश्च उत्सवांश्च जगत्पतेः
॥३८॥यानेवोपदिशेद्देवः स्वयं वा प्रपितामहः ॥
तांस्तान्प्रयत्नात्कुर्वीत राजा वै धर्मपालकः
॥३९॥ततः स गालो नृपतिः श्रुत्वा तच्चिंतितं स्वयम् ॥
इन्द्रद्युम्नादिष्टमेतदिति प्राप परां मुदम्
॥४०॥तस्थौ तस्यांतिके गाल आज्ञाकार इव स्वयम् ॥
तत्तदाशु करोत्येष इन्द्रद्युम्नो यदादिशत्
॥४१॥एवं संभृतसंभारः सिंहासनगतः प्रभुः ॥
देवैः परिवृतश्चेंद्रद्युम्नः शक्र इवाबभौ
॥४२॥ततोऽश्रूयंत निनदा दिव्यदुंदुभिजाः शुभाः ॥
मृदंगवेणुवीणादि तालकाहालनिःस्वनाः
॥४३॥ऐरावतादिकरिणां बृंहितानि बहूनि खे ॥
समंताज्जयशब्दाश्च पुष्पवृष्टिविमिश्रिताः
॥४४॥आकाशगंगासलिलकणा मन्दारमिश्रिताः ॥
दिव्य स्रग्लेपधूपानां गन्धा दिग्व्यापिनस्तथा ॥
वैमानिकानां देवानां किंकिणीजालनिःस्वनाः
॥४५॥ततश्च तेजसां राशी रोदसीमध्यपूरकः ॥
आविरासीत्क्षितिगत नयनाच्छादको द्विजाः
॥४६॥उत्तोलिताक्षिमालाभिः प्रजाभिर्वीक्षितः पुरः ॥
ततः क्रमात्स ददृशे विमानाग्र्यं प्रजापतेः
॥४७॥स्वर्णहंसशतैः स्कंधेनोह्यमानः समंततः ॥
दिक्पालैश्चामरव्यग्रहस्तैरासेवितः पुरः
॥४८॥जाह्नवीयमुनानीरप्रकीर्णककरेऽभितः ॥
पार्श्वयोश्चन्द्रसूर्याभ्यामुभाभ्यामातपत्रके
॥४९॥धार्यमाणे शनैर्वायोर्गतिचंचलचोलके ॥
ब्रह्मर्षिभिर्गौतमाद्यैः स्तूयमानो रहस्यकैः
॥५०॥तन्मध्यस्थः प्रजानाथ इंद्रद्युम्नादिभिः स्तुतः ॥
आलुलोके देवगणैर्जयशब्दैरभिष्टुतः
॥५१॥रंभादिकाभिर्वेश्याभिर्नृत्यते स्म ससाध्वसम् ॥
हाहाहूहूप्रभृतिभिर्गीयमानश्च गायकैः
॥५२॥सिद्धविद्याधरगणैः सादरं चोपवीणितः ॥
कृतांजलिपुटैर्दूरात्तपस्विभिरुपासितः
॥५३॥सावित्रीशारदे तस्य वाक्प्रबंधैर्विचित्रकैः ॥
तोषमासादयंत्यौ च कोऽन्यस्तत्तोषणे क्षमः
॥५४॥जाह्नवीयमुनानीर प्रकीर्णित कलेवरः ॥
ये च गंधर्वसिद्धाद्या नारदप्रमुखा द्विजाः
॥५५॥वेत्रहस्ताः सविनया दिव्यसोपानदर्शनाः ॥
संमर्दः स महानासीद्देवानां दिवि गच्छताम्
॥५६॥न कोऽपि गण्यते देवः को वा केन पथा व्रजेत् ॥
अहंपूर्विकया तेषां व्रजतां त्रिदिवौकसाम्
॥५७॥संमर्दातिशयात्तेषां विभ्रंशोऽभूत्स्ववाहनैः ॥
स्रष्टा पाता च संहर्त्ता जगतां यो जगन्मयः
॥५८॥साक्षाद्व्रजति तत्रैषां सुराणां महिमा कुतः ॥
तं दृष्ट्वा साध्वसान्नम्रो भक्त्या बद्धांजलिर्नृपः
॥५९॥तैर्देवैर्गालराजेन नारदप्रमुखेन च ॥
सहितो धरणीं प्रायात्साष्टांगं प्रणिपत्य च
॥६०॥उत्थाय परया भक्त्या प्रहृष्टेनांतरात्मना ॥
पुलकांकितसर्वांगं स्वं मन्वानः कृतार्थकम्
॥६१॥पुरतो जगदीशस्य पश्यञ्छुद्धं पितामहम् ॥
कृतांजलिपुटो राजा ममज्जानंदसागरे
॥६२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे षड्विंशोऽध्यायः ॥ २६ ॥