सीमाप्रतीची क्षेत्रस्य शंखाकारस्य मूर्द्धनि
श्रीरुवाच
सीमाप्रतीची क्षेत्रस्य शंखाकारस्य मूर्द्धनि ॥
सर्वकामप्रदो देवः स आस्ते वृषभध्वजः
॥१॥शंखाग्रे नीलकण्ठः स्यादेतत्क्रोशं सुदुर्लभम् ॥
परमं पावनं क्षेत्रं साक्षान्नारायणस्य वै
॥२॥सिंधुराजस्य सलिलाद्यावन्मूलं वटस्य वै ॥
शंखस्योदरभागस्तु समुद्रोदकसंप्लुतः
॥३॥यत्संपर्कात्समुद्रोऽत्र तीर्थराजत्वमागतः ॥
यथायं भगवान्मुक्तिप्रदो दृष्टिपथं गतः
॥४॥तथेदं मरणात्क्षेत्रं सिंधुः स्नानाद्विमुक्तिदः ॥
चिच्छेद ब्रह्मणः पूर्वं रुद्रः क्रोधात्तु पञ्चमम्
॥५॥तच्छिरो दुस्त्यजं गृह्णन्ब्रह्मांडं परिबभ्रमे ॥
अत्रागतो यदा ब्रह्मकपालं परिमुक्तवान्
॥६॥कपालमोचनं लिंगं द्वितीयावर्तसंस्थितम् ॥
कपालमोचनं पश्येत्पूजयेत्प्रणमेच्च यः
॥७॥ब्रह्महत्यादिपापानां कंचुकं विजहात्यसौ ॥
तस्य दक्षिणपार्श्वे तु मरणं भवमोचनम्
॥८॥तृतीयावर्तगामाद्यां शक्तिं मे विमलाह्वयाम् ॥
जानीहि धर्मराज त्वं भुक्तिमुक्तिफलप्रदाम्
॥९॥य इमां पूजयेद्भक्त्या प्रणमेत्कीर्तयेत्तु वा ॥
सर्वान्कामानवाप्नोति मुक्तिं चांते च विंदति
॥१०॥नाभिदेशे स्थितं ह्येतत्त्रयं कुंडं वटो विभुः ॥
कपालमोचनाद्यावदर्द्धाशिनी प्रतिष्ठिता
॥११॥मध्यं शंखस्य जानीयात्सुगुप्तं चक्रपाणिना ॥
अर्द्धमश्नाति सलिलं महाप्रलयवर्द्धितम्
॥१२॥सृष्ट्यादौ धर्मराजेयं शक्तिर्मेऽर्द्धांशिनी स्मृता ॥
तां दृष्ट्वा प्रणमेद्यस्तु भोगान्सोऽश्नाति शाश्वतान्
॥१३॥सिन्धुराजस्य सलिलाद्यावन्मूलं वटस्य वै ॥
कीटपक्षि मनुष्याणां मरणान्मुक्तिदो मतः
॥१४॥अन्तर्वेदी त्वियं पुण्या वांछ्यते त्रिदशैरपि ॥
यत्र स्थितां हि पश्यंति सर्वांश्चक्राब्जधारिणः
॥१५॥पृथिव्यां यानि तीर्थानि गगने च त्रिविष्टपे ॥
सार्द्धत्रिकोटिसंख्यानि स्वर्गमोक्षप्रदानि वै
॥१६॥तेषामयं तीर्थराजः कीर्तितः पुरुषोत्तमः ॥
सर्वेषां मुक्तिक्षेत्राणामिदं सायुज्यदं मतम्
॥१७॥अत्र स्थिता न शोचंति जराजन्ममृतिष्वपि ॥
कुण्डं ह्येतद्रोहिणाख्यं कारुण्याख्यजलेन वै
॥१८॥संभृतं तिष्ठते नित्यं स्पर्शनाद्बंधमुक्तिदम् ॥
अत्र प्रतिष्ठितं वारि प्रलये यत्प्रवर्द्धते
॥१९॥अत्रैव लीयते पश्चात्तस्माद्रोहिणसंज्ञितम् ॥
तस्मात्ते माऽत्र चिंतास्तु स्वाधिकारविपर्यये
॥२०॥मोक्षाधिकारिणामत्र नेश्वरस्त्वं परेतराट् ॥
धर्मराजं समादिश्य लक्ष्मीरेवं पुरः स्थितम्
॥२१॥ब्रह्माणमाह जगतामंबा सप्रश्रया गिरा ॥
पितामह जगन्नाथ विदितं सर्वमेव यत्
॥२२॥मोक्षदं सर्वजंतूनामेतत्क्षेत्रं समादिश ॥
कामाख्यं क्षेत्रपालं च विमलं वा तपास्थिता
॥२३॥साक्षाद्ब्रह्मस्वरूपोऽसौ नृसिंहो दक्षिणे विभोः ॥
हिरण्यकशिपोर्वक्षो विदार्यायं प्रभोज्ज्वलः
॥२४॥दर्शनादस्य नश्यंति पातकानि न संशयः ॥
भुक्तेर्मुक्तेश्च योग्यः स्यान्नात्र कार्या विचारणा
॥२५॥अस्याग्रे संत्यजन्प्राणान्ब्रह्मसायुज्यमाप्नुयात् ॥
यत्किंचित्कुरुते कर्म कोटिकोटिगुणं भवेत्
॥२६॥छायैषा कल्पवृक्षस्य नृसिंहार्केण भासिता ॥
तस्यां नश्यत्यविद्या हि ज्ञानतोऽज्ञानतो मृतौ
॥२७॥वेदांतेषु प्रसिद्धैस्तैर्विज्ञानैः श्रवणादिभिः ॥
मूढानां दुर्लभैर्विप्रा विनाप्यत्र विमोचनम्
॥२८॥अविमुक्ते मुमुक्षोस्तु कर्णमूले महेश्वरः ॥
दिशति ब्रह्मसंज्ञानं बोधोपायं कृपानिधिः
॥२९॥तेन बुद्या समभ्यस्य क्रमान्मोक्षमवाप्नुयात् ॥
उपदेष्टुर्महिम्ना हि तस्य ज्ञानं न हीयते
॥३०॥अत्र त्यजंति ये प्राणांस्तेषां तत्क्षण एव हि ॥
स्वरूपाज्जायते मुक्तिः संशयो माऽस्तु ते यम
॥३१॥गतागत प्रसक्तानां कर्मिणां मूढचेतसाम् ॥
वैवस्वत कदाचिन्नो विश्वासो ह्यत्र जायते
॥३२॥उत्सृज्य वारि गांगेयं स्वादु शीतं सुनिर्मलम् ॥
पिपासुः पल्वलं याति तद्वत्ते मूढचेतसः
॥३३॥भ्रमंति तीर्थान्यन्यानि त्यक्त्वैतत्क्षेत्रमुत्तमम् ॥
पलाशामोदकैस्तृप्ता लभंते श्रमजं फलम्
॥३४॥स्नानादब्धिदृशा देवश्छायया कल्पपादपः ॥
यत्र कुत्रापि च क्षेत्रं मरणान्मुक्तिदं नृणाम्
॥३५॥यो यत्र विषये भक्त्या विश्वासं कुरुते नरः ॥
स तु तेनैव मुच्येत नेदृशं तीर्थमस्ति वै
॥३६॥एतत्त्यक्त्वान्यतीर्थे वै विदधाति रुचिं तु यः ॥
नूनं स मायया विष्णोर्वंचितो लोभलालसः
॥३७॥उपदेशेन बहुना न प्रयोजनमस्ति ते ॥
प्रत्यक्षो ह्यनुभूतोऽयं करटो विष्णुरूपधृक्
॥३८॥अन्तर्वेदीरक्षणार्थं शक्तयोऽष्टौ प्रकीर्तिताः ॥
उग्रेण तपसा पूर्वमहं रुद्रेण भाविता
॥३९॥पत्न्यर्थं सा मया सृष्टा गौरी तस्याथ भाविनी ॥
सर्वसौंदर्यवसतिर्वपुषो मे विनिर्गता
॥४०॥तदादिष्टा मया भद्रे वचनं मे प्रियं कुरु ॥
अन्तर्वेदी रक्ष मम परितस्त्वं स्वमूर्तिभिः
॥४१॥सा तु तिष्ठति मत्प्रीत्या अष्टधा दिक्षु संस्थिता ॥
मंगला वटमूले तु पश्चिमे विमला तथा
॥४२॥शंखस्य पृष्ठभागे तु संस्थिता सर्वमंगला ॥
अर्द्धांशिनी तथा लंबा कुबेरदिशि संस्थिता
॥४३॥कालरात्रिर्दक्षिणस्यां पूर्वस्यां तु मरीचिका ॥
कालरात्र्यास्तथा पश्चाच्चंडरूपा व्यवस्थिता
॥४४॥एताभिरुग्ररूपाभिः शक्तिभिः परिरक्षितम् ॥
अल्पपुण्यस्य पुंसो हि स्थानमेतत्सुदुर्लभम्
॥४५॥एतासामष्टशक्तीनां दर्शनात्कीर्तनात्तथा ॥
नश्यंति सर्वपापानि हयमेधफलं लभेत्
॥४६॥रुद्राण्याश्चाष्टधा भेदं दृष्ट्वा रुद्रोऽपि शंकरः ॥
आत्मानमष्टधा भित्त्वा उपास्ते परमेश्वरम्
॥४७॥आराध्य तपसा विष्णुं प्रार्थयद्वरमुत्तमम् ॥
यत्र त्वं देव तत्राहं वसेयं हि यथासुखम्
॥४८॥त्वामृते कमलाकांत नान्यन्निर्वाणकारणम् ॥
अंतर्यामिन्प्रभो मे त्वं त्वां विना विग्रहः कुतः
॥४९॥मूढा ये त्वां न जानंति हृष्यंति विषयेऽशुचौ ॥
निर्मलांबरसंकाश त्वामहं शरणं गतः
॥५०॥जैमिनिरुवाच
भगवानपि रुद्रं तं क्षेत्रपालं तथा विभुः ॥
स्थापयामास परितः स्वयं मध्ये व्यवस्थितः
॥५१॥कपालमोचनं नाम क्षेत्रपालं यमेश्वरम् ॥
मार्कण्डेयं तथेशानं बिल्वेशं नीलकंठकम्
॥५२॥वटमूले वटेशं च लिंगान्यष्टौ महेशितुः ॥
यानि दृष्ट्वा तथा स्पृष्ट्वा पूजयित्वा विमुच्यते
॥५३॥अत्र क्षेत्रे मृता ये च न तेषां तु प्रभुर्यमः ॥
यदर्थमागतस्त्वं हि तदन्यत्र प्रसाधय
॥५४॥तथाप्यसौ जगन्नाथो भक्तायात्मसमर्पकः ॥
यमेन तोषितो भक्त्या प्रपन्नार्तिहरः प्रभुः
॥५५॥सुदर्शनेन चक्रेण मायां च व्यवधास्यति ॥
अत्याज्येऽस्मिन्क्षेत्रवरे स्वर्णवालुकया वृते
॥५६॥तं यमं वंचयित्वा तु प्रस्थापय्य यमालयम् ॥
साधु मत्वा ततः प्राह ब्रह्माणं पुरतः स्थितम्
॥५७॥श्रीरुवाच
इंद्रद्युम्नो नाम राजा युगे सत्ये भविष्यति ॥
वैष्णवः सर्वयज्ञानामाहर्त्ता शास्त्रकोविदः
॥५८॥अत्रागत्य महाभक्तिं करिष्यति नृपोत्तमः ॥
भगवत्प्रीतये येन वाजिमेधसहस्रकम्
॥५९॥करिष्यते प्रजानाथ तदनुग्रहकारणात् ॥
एकदारुसमुत्पन्नश्चतुर्द्धा संभविष्यति
॥६०॥दारवप्रतिमानानि विश्वकर्मा घटिष्यति ॥
प्रतिष्ठापयिता त्वं हि इंद्रद्युम्नप्रसादितः
॥६१॥अस्माकं सदृशानां च प्रतिमानां पितामह ॥
तद्रूपका प्रतिष्ठा हि घटना च भविष्यति
॥६२॥इति श्रुत्वा श्रियो वाक्यं चतुर्वक्त्रो यमश्च सः ॥
स्वंस्वं पुरं जग्मतुस्तौ मुदा परमया युतौ
॥६३॥क्षेत्रस्य महिमानं तं संस्मृत्य च मुहुर्मुहुः ॥
विस्मयेन च हर्षेण रोमांचांचितविग्रहौ
॥६४॥सांप्रतं मुनयस्तस्मिन्निंद्रद्युम्नप्रसादितः ॥
शंखचक्रधरः श्रीमान्नीलजीमूतसंनिभः
॥६५॥नीलाचलगुहांतःस्थो बिभ्रद्दारुमयं वपुः ॥
आस्ते लोकोपकाराय बलेन च सुभद्रया
॥६६॥सुदर्शनेन चक्रेण दारुणा निर्मितेन च ॥
सहितः प्रणतार्तीनां नाशनः करुणार्णवः
॥६७॥यं दृष्ट्वा पापबंधेन सुदृढेन विमुच्यते ॥
सुकर्मौघपरीपाको युगपत्समुपस्थितः
॥६८॥पश्यतां भो मुनिश्रेष्ठास्तापत्रयसुधानिधिम् ॥
बहवो ह्यवतारा हि विष्णोर्दिव्याश्च मानुषाः
॥६९॥अत्यद्भुतानि कर्माणि माहात्म्यं चापि वर्णितम् ॥
पारिचित्यान्मनुष्यांस्तु न मन्यंते सुरा अपि
॥७०॥देवासुरमनुष्याणां गंधर्वोरगरक्षसाम् ॥
तिरश्चामपि भो विप्रास्तस्मिन्दारुमये हरौ
॥७१॥सर्वात्मभूते वसति चित्तं सर्वसुखावहे ॥
उपजीवंत्यस्य सुखं यस्यानन्यस्वरूपिणः
॥७२॥ब्रह्मणः श्रुतिवागाहेत्येतदत्रानुभूयते ॥
द्यति संसारदुःखानि ददाति सुखमव्ययम्
॥७३॥तस्माद्दारुमयं ब्रह्म वेदांतेषु प्रगीयते ॥
न हि काष्ठमयी मोक्षं ददाति प्रतिमा क्वचित्
॥७४॥कृतेनाकृतता विप्राः कदाचिन्नोपलभ्यते ॥
अकृतो ह्यपवर्गस्तु कृताद्वा दारुणः कथम्
॥७५॥अधिष्ठानं विना ब्राह्म्यमैश्वर्यं नोपलभ्यते ॥
रहस्यमेतत्परमं विष्णोः स्थानमनुत्तमम्
॥७६॥अलौकिकी सा प्रतिमा लौकिकीति प्रकाशिता ॥
कुत्र श्रुता वा दृष्टा वा प्रतिमा व्याहरेदिति
॥७७॥इंद्रद्युम्नाय स वरं तदा दारुवपुर्ददौ ॥
दीनानाथैकशरणं तरणं भववारिधेः
॥७८॥चराचर सदावंद्य चरणं तं परायणम् ॥
नारायणं जगद्योनिं सृष्टिसंहृतिकारणम्
॥७९॥मोक्षणं सर्वपापानां दारणं सकलापदाम् ॥
विभूतीनां विसरणं वरणं सर्वयोगिनाम्
॥८०॥भरणं सर्वजंतूनां धरणं जगतामपि ॥
भाषणं सर्वभाषाणां दूषणं सर्वदुष्कृताम्
॥८१॥शोषणं सर्वपंकानां नीलाद्रिशरणं हरिम् ॥
शरणं प्रयात मुनयो ह्यनन्यशरणं विभुम्
॥८२॥निश्चेष्टो दारुवर्ष्मापि दिव्यलीलाविलासकृत् ॥
क्षमते स्वल्पभक्त्यापि सोपराधशतं नृणाम्
॥८३॥अत्र वः कथयिष्यामि चरितं पापनाशनम् ॥
लीलया दारुदेहस्य मुनयः परमात्मनः
॥८४॥कुरुक्षेत्रे समुद्भूतौ ब्राह्मणक्षत्रियावुभौ ॥
सखायौ जग्मतुः प्रीत्या एकाहारविहारिणौ
॥८५॥वृत्तच्युतौ निषिद्धानामाहर्त्तारौ विमोहितौ ॥
अस्वाध्यायवषट्कारौ स्वधास्वाहाविवर्जितौ
॥६६॥अपात्रभूतौ धर्मस्य महापातकदूषितौ ॥
मधुभक्षौ पण्ययोषित्सहवासौ मुदान्वितौ
॥८७॥पारलौकिकचिंता तु तयोः स्वप्नेपि नागता ॥
एवं प्रवर्तमानौ तावायुषोऽर्द्धं च निन्यतुः
॥८८॥एकदा भ्रममाणौ तौ यज्ञवाटमगच्छताम् ॥
शृण्वन्तो दूरतः स्तोत्रं शास्त्रशब्दं मनोहरम्
॥८९॥दृष्ट्वा तास्ताः क्रियाः सर्वाः श्रुतिसंचोदिता द्विजाः ॥
तौ तदा चक्रतुः श्रद्धां धर्मे वर्त्मन्यधार्मिकौ
॥९०॥संस्मरंतौ स्वजातिं तौ पुंडरीकांबरीषकौ ॥
निंदन्तौ दुश्चरित्रं स्वं परस्परमभाषताम्
॥९१॥कथमावां तरिष्यावो दुष्कृतार्णवमुल्बणम् ॥
इहैव जन्मन्यजरं बुद्धिपूर्वमुपार्ज्जितम्
॥९२॥न तच्छास्त्रं हि जानाति यदावाभ्यां च दुष्कृतम् ॥
सञ्चितं तस्य घोरस्य प्रायश्चित्तं सुदुर्ल्लभम्
॥९३॥तथापि ब्राह्मणानेतान्ब्रह्मिष्ठान्वै सदोगतान् ॥
प्रणिपातप्रपन्नान्वै पृच्छावोऽत्र च निष्कृतिम्
॥९४॥इति निश्चित्य तौ विप्रानभिवाद्याभ्यपृच्छताम् ॥
यथावत्कल्मषं स्वंस्वं विज्ञाप्य च मुहुर्मुहुः
॥९५॥ते तयोर्वचनं श्रुत्वा मीलिताक्षा द्विजोत्तमाः ॥
नाब्रुवन्किंस्विदन्योन्यं वीक्षंतो विस्मिताननाः
॥९६॥अहो सुघोरकर्माणि संचितानि दुरात्मनोः ॥
येषु शास्त्रं पदं दातुं प्रायश्चित्ताय न ह्यलम्
॥९७॥शक्नुमो न वयं तस्मादनयोर्निष्कृताविति ॥
तेषां मध्ये सदोमुख्यः कश्चिद्वैष्णवपुंगवः
॥९८॥भगवद्भक्तिमाहात्म्य क्षपिताशेषकल्मषः ॥
तानुवाच विहस्येदं वाक्यं वाक्यविदां वरः
॥९९॥वैष्णव उवाच
भो द्विज क्षत्रदायाद पापराशेः सुदारुणात् ॥
मुक्तिं चेद्वांच्छतस्तूर्णं गच्छतं पुरुषोत्तमम्
॥१००॥क्षेत्रोत्तमं दारुमयो यत्रास्ते पुरुषोत्तमः ॥
इन्द्रद्युम्नस्य राजर्षेर्भक्त्यानुग्रहकृद्विभुः
॥१०१॥तमाराध्य जगन्नाथं शंखचक्रगदाधरम् ॥
पापक्षयं वा मुक्तिं वा स्वेच्छया प्राप्स्यथ धुवम्
॥१०२॥घोरदुष्कृततूलौघ दावाग्निसदृशस्तु सः ॥
तपसे तत्क्षयं नेतुं न शक्यं जन्मकोटिभिः
॥१०३॥युगपत्संक्षयं याति यं दृष्ट्वा सर्वकिल्बिषम् ॥
तन्मा विलंबं कुरुतं प्रयातं तत्र सत्वरं
॥१०४॥सुपुण्ये चोत्कले देशे दक्षिणार्णवतीरगे ॥
नीलाद्रिशिखरावासं व्रजतं शरणं विभुम्
॥१०५॥सोऽभीष्टसिद्धिं वां देवः प्रदास्यति कृपानिधिः ॥
इत्यादिष्टौ ततो विप्रक्षत्रियौ हर्षसंयुतौ
॥१०६॥तेनैव वर्त्मना विप्राः प्रयातौ पुरुषोत्तमे
॥१०७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे चतुर्थोऽध्यायः ॥ ४ ॥