प्रासादस्य प्रतिष्ठांत इन्द्रद्युम्नाय यद्वरान्
मुनय ऊचुः
प्रासादस्य प्रतिष्ठांत इन्द्रद्युम्नाय यद्वरान् ॥
आज्ञापयामास हरिर्यात्रास्ता द्वादशापि च
॥१॥त्वत्सकाशाच्छुतं सर्वं ततः स पृथिवीपतिः ॥
किं चकार महाबुद्धिर्विष्णुभक्तोऽप्यवस्थितः
॥२॥जैमिनिरुवाच
वराँल्लब्ध्वा जगन्नाथात्साक्षाद्ब्रह्मस्वरूपिणः ॥
कृतकृत्यं स मेने वा आत्मानं नरपुंगवः
॥३॥यथाज्ञं कारयित्वा वै यात्रास्ताः पुण्यमोक्षदाः ॥
बहूपचारैर्बहुधा समभ्यर्च्य जगद्गुरुम्
॥४॥गालराजं समादिश्य देवस्याज्ञां यथाविधि ॥
इदं प्रोवाच मधुरं धर्मन्यायसमायुतम्
॥५॥इन्द्रद्युम्न उवाच
राजन्बहुश्रुतोऽसि त्वं धर्मनिष्ठामुपागतः ॥
भगवत्यपि भक्तिस्ते कर्मणा मनसा गिरा
॥६॥न ह्येकस्योपदशाय भगवाननुशास्ति वै ॥
चराचरगुरुर्ह्येष विश्वं तच्छिष्यतां गतम्
॥७॥ममानुग्रहलक्ष्येण अवतीर्णो जगत्पतिः ॥
उद्धृत्यै दीनमनसामत्रापि स्थास्यते चिरात्
॥८॥भक्त्या च श्रद्धया युक्त एतदाज्ञां प्रवर्त्तय ॥
प्रतिमाव्यवहारेण नैनं जानीहि भूमिप
॥९॥प्रत्यक्षं ते यथा जातं त्रैलोक्यं भूमिमागतम् ॥
प्रासादांतः प्रवेशे हि यस्यास्य जगदीशितुः
॥१०॥पितामहाद्यास्त्रिदशाः सर्वे युगपदागताः ॥
विश्वमूर्त्या वयं सर्वे जाता वै नष्टचेतनाः
॥११॥चराचरमयो ह्येष साक्षाद्दारुस्वरूपधृक् ॥
कल्पवृक्षमिमं विद्धि भूगतं सर्वकामदम्
॥१२॥उपास्यैनं हि लभते यो यथा कामनाफलम् ॥
यतंतो बहुधा यं हि यतयो न विदन्ति वै ॥
तमःपारे प्रतिष्ठतं किंस्विज्ज्योतिः स्वरूपिणम्
॥१३॥यतीनां धर्मनिष्ठानां शुद्धानामूर्ध्वरेतसाम् ॥
अनन्यभक्तियुक्तानामेकः पंथास्तु योगिनाम्
॥१४॥ग्रीष्मे शीत गभीरे वै निमज्ज्य सलिलाशये ॥
परां निर्वृतिमाप्नोति तथास्मिन्करुणांबुधौ
॥१५॥त्रितापदुःखं त्यजति संप्राप्ते पुरुषोत्तमे
॥१६॥न माता न पिता मित्रं न पत्नी न सुतस्तथा ॥
शरणागतदीनानां यथायमुपकारकः
॥१७॥तदेनं परिसेवस्व भुक्तिमुक्तिफलप्रदम् ॥
पौरैः प्रजाभिर्यात्रास्ताः समृद्धं परिवर्त्तय
॥१८॥साधारणो धर्मपंथा नृपाणां नृपसत्तम ॥
प्रवर्तितश्च पूर्वेण पाल्यतेऽनंतरेण सः
॥१९॥नृसिंहं भज राजेंद्र उपचारैर्महर्द्धिभिः ॥
पूजयस्व त्रिसंध्यं तं परं निर्वाणमाप्नुहि
॥२०॥स्वकृतादुत्तमं प्राहुः परकृत्योपरक्षणम् ॥
पालयेत्परदत्तं यः स्वदत्तादुत्तमं हि तत्
॥२१॥जैमिनिरुवाच
कृतांजलिपुटः सोऽथ श्वेतो नृपतिसत्तमः ॥
मूर्ध्नि जग्राह तद्वाक्यं मालामिव गुणान्विताम्
॥२२॥इंद्रद्युम्नोऽपि राजर्षिः प्रसाद्य पुरुषोत्तमम् ॥
सह श्रीमान्ब्रह्मलोकं जगाम ह
॥२३॥एतद्वः कथितं पुण्यं क्षेत्रमाहात्म्यमुत्तमम् ॥
तत्र नित्योषितस्यापि माहात्म्यं ब्रह्मदारुणः
॥२४॥यश्चैतच्छृणुयाद्भक्त्या वाच्यमानं द्विजोत्तमाः ॥
अश्वमेधसहस्रस्य फलं सोऽविकलं लभेत्
॥२५॥अर्द्धोदयस्तु यो योगः स्कंदेन परिकीर्तितः ॥
तत्कोटिगुणितं पुण्यं विष्णोर्माहात्म्यकीर्तनात्
॥२६॥प्रातः प्रातर्यः शृणुयात्कपिलाशतदो भवेत् ॥
गांगैः पुष्करजैस्तोयैरभिषेकफलं लभेत्
॥२७॥धन्यं यशस्यमायुष्यं पुण्यं संतानवर्द्धनम् ॥
स्वर्गप्रतिष्ठागतिदं सर्वपापापनोदनम्
॥२८॥एतद्रहस्यमाख्यातं पुराणेषु सुगोपितम् ॥
वैष्णवेभ्यो विनाऽन्येषु न तु वाच्यं कदाचन
॥२९॥कुतर्कोपहता ये च दुरधीतश्रुतागमाः ॥
नास्तिका दांभिका नित्यं परदोषोपदर्शिनः ॥
अवैष्णवा मोघजीवास्तेभ्यो गोप्यं सदैव हि
॥३०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्येऽष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥