मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय ४४

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 44

ज्येष्ठपंचकव्रतवर्णनम्

जैमिनिरुवाच

अत्र वः कथयिष्यामि व्रतं सांवत्सरं परम् ॥

संवत्सरस्यादिदिने पौर्णमास्यां तु फाल्गुने

॥१॥

अनादिदेवस्य हरेर्मूर्त्तयो द्वादशैव याः ॥

विष्ण्वादिनामप्रथिताः प्रतिमासं प्रपूजयेत्

॥२॥

एकैकां मूर्तिमेतासां मासेषु द्वादशस्वपि ॥

प्रत्यहं पूजयेत्पुष्पैः फलैर्द्वादशभिस्तथा

॥३॥

अशोको मल्लिका चैव पाटलं च कदंबकम् ॥

करवीरं जातिपुष्पं मालतीशतपत्रकम्

॥४॥

उत्पलं चैव वासंती कुंदं पुन्नागकं तथा ॥

एतानि क्रमशो दद्यात्कुसुमानि हरेर्मुदा

॥५॥

दाडिमं नारिकेलं च आम्रं च पनसं तथा ॥

खर्जूरं तृणराजं च प्राचीनामलकं तथा

॥६॥

श्रीफलं नागरंगं च क्रमुकं करमङ्गकम् ॥

जातीफलं च क्रमशः फलान्येतानि वै ददेत्

॥७॥

भक्ष्यभोज्यानि चोष्याणि लेह्यानि मधुराणि च ॥

आसनाद्युपचारांश्च दत्त्वा स्तुत्वा जगद्गुरुम्

॥८॥

सर्वव्यापिञ्जगन्नाथ भूतभव्यभवत्प्रभो ॥

त्राहि मां पुंडरीकाक्ष विष्णो संसारसागरात्

॥९॥

एकार्णवजले रौद्रे निरालंबे पुरा मधुम् ॥

अवधीर्विश्वरक्षार्थ मधुसूदन रक्ष माम्

॥१०॥

त्रीन्विक्रमान्क्रमित्वा यो हत्वा दैत्यबलं महत् ॥

त्रैलोक्यं पालयामास त्रिविक्रम नमोस्तु ते

॥११॥

कृत्वा वामनकं रूपमृग्यजुःसामगर्भकम् ॥

मोहयित्वाद्भुतं रूपं तस्मै मायाविने नमः

॥१२॥

यः श्रियं धारयेन्नित्यं हृदि भक्तेभ्य एव च ॥

ददात्यपि श्रियं तस्मै श्रीधराय नमोऽस्तु ते

॥१३॥

इंद्रियाणामधिष्ठाता यः सर्वेषां सदा प्रभुः ॥

सुखैकहेतुर्भक्तानां हृषीकेश नमोऽस्तु ते

॥१४॥

यन्नाभिपद्मसंभूतं जगदेतच्चराचरम् ॥

विधातुरासनं नित्यं पद्मनाभ नमोऽस्तु ते

॥१५॥

यस्यैतत्त्रिगुणैर्बद्धं जगदेतच्चराचरम् ॥

दाम्ना बद्धः स गोप्या तु दामोदर नमोऽस्तु ते

॥१६॥

त्रैलोक्यविप्लवकरं हतवान्केशिदानवम् ॥

ईशिता सर्वसौख्यानां त्राहि केशव मां प्रभो

॥१७॥

स्रष्टा ससर्ज भूतानि जगतामादिकारणम् ॥

अचिंत्यमहिमन्विष्णो नारायण नमोऽस्तु ते

॥१८॥

मायया यस्य विश्वं वै मोहितं यदनाद्यया ॥

सर्वधर्मस्वरूपाय माधवाय नमो नमः

॥१९॥

ज्ञानिनां ज्ञानगम्यस्त्वमगतीनां गतिप्रदः ॥

संपूर्णमस्तु गोविंद त्वत्प्रसादाद्व्रतं मम

॥२०॥

प्रतिमासं पूजनांते मंत्रैरेतैः कृतांजलिः ॥

प्रार्थयेत्परया भक्त्या भजनांतं जनार्दनम्

॥२१॥

एवं संवत्सरं नीत्वा व्रतं वै मूर्तिपंजरम् ॥

संपूर्णफलसिद्ध्यर्थं प्रतिष्ठाविधिमाचरेत्

॥२२॥

सुवर्णनिर्मिता विष्णोर्मूर्तयो द्वादशैव तु ॥

यथाशक्ति कृताः स्थाप्याः कुंभेषु द्वादशस्वपि

॥२३॥

आम्रपात्राच्छादितेषु साक्षात्तेषु पृथक्पृथक् ॥

श्वेतवस्त्रावनद्धेषु गंधपल्लववारिषु

॥२४॥

अष्टदिक्षु चतुर्दिक्षु सर्वतोभद्रमंडले ॥

स्थापनीयाश्च ते कुंभास्तेषु पूज्याश्च मूर्तयः

॥२५॥

द्वादशाक्षरमंत्रेण उपचारैः पृथक्पृथक् ॥

पंचामृतैश्च स्नपनं सर्वेषामादितो द्विजाः

॥२६॥

गीतवादित्रनृत्याद्यैस्तथा ब्राह्मणपूजनैः ॥

वस्त्रयुग्मैर्द्वादशभिश्छत्रोपानद्युगैस्तथा

॥२७॥

व्यजनैरुदकुंभैश्च शयनीयैः सपीठकैः ॥

गंधैर्माल्यैः सुतांबूलैर्मुद्रिकाकुंडलैस्तथा

॥२८॥

प्रदीपाः सर्पिषा ज्वाल्या द्वादशद्वादश क्रमात् ॥

नीत्वा त्रियामामित्थं वै प्रभाते वह्निकर्म च

॥२९॥

समिदाज्यचरूणां वै प्रतिदेवं शतत्रयम् ॥

अष्टोत्तरसहस्रं तु तिलैर्व्याहृतिभिस्ततः

॥३०॥

होमांते प्राशनं कृत्वा दद्यादाचार्यदक्षिणाम् ॥

कपिला धेनवो देयाः सालंकाराश्च द्वादश

॥३१॥

शतं चतुश्चत्वारिंशद्ब्राह्मणान्भोजयेत्ततः ॥

तद्देववृंदं सघटं सवितानं सचामरम्

॥३२॥

सर्वोपचारसहितमाचार्याय निवेदयेत् ॥

व्रतराजमिमं कृत्वा सर्वान्कामानवाप्नुयात्

॥३३॥

गुंडिचाद्यास्तु या यात्रा विष्णोर्द्वादश कीर्तिताः ॥

तासां दर्शनजं पुण्यं व्रतेनानेन लभ्यते

॥३४॥

ऐंद्रं पदं सार्वभौमं चक्रवर्तित्वमेव च ॥

अष्टैश्वर्यमवाप्नोति देवदेवप्रसादतः

॥३५॥

एतन्महापुण्यतमं नारदः कृतवान्व्रतम् ॥

कृत्वा द्वादश वर्षाणि जीवन्मुक्तोऽभवन्मुनिः

॥३६॥

अन्ये च वैष्णवा ये वै चक्रुस्ते बहुशः पुरा ॥

व्रतं नातः परतरं भगवत्प्रीतिकारकम्

॥३७॥

धर्म्यं यशस्यमायुष्यं ब्राह्मण्यं वंशवर्द्धनम् ॥

भवंतोऽपि यतात्मानः कुर्वंति व्रतमुत्तमम्

॥३८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये ज्येष्ठपंचकव्रतवर्णनंनाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥